स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ११०
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे प्रभासेश्वरमुत्तमम् ॥
गौरीतपोवनाद्देवि पश्चिमे समुदाहृतम् ॥१॥
धनुषां सप्तके देवि नातिदूरे व्यवस्थितम् ॥
स्थापितं तन्महालिंगं वसूनामष्टमेन हि ॥ २ ॥
प्रभास इति नाम्ना हि शिवपूजारतेन वै ॥
स पुत्रकामो देवेशि प्रभासक्षेत्रमागतः ॥३॥
प्रतिष्ठाप्य महालिङ्गं चचार विपुलं तपः ॥
आग्नेयमिति विख्यातं दिव्याब्दानां शतं प्रिये ॥ ४ ॥
ततस्तस्य महादेवि सम्यक्छ्रद्धान्वि तस्य वै ॥
तुतोष भगवान्रुद्रो ददौ यन्मनसीप्सितम् ॥५॥
बृहस्पतेस्तु भगिनी भुवना ब्रह्मवादिनी ॥
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ॥ ॥६॥
विश्वकर्मा सुतस्तस्याः सृष्टिकर्ता प्रजापतिः॥
देवानां तक्षको विद्वान्मनोर्मातामहः स्मृतः ॥७॥
तक्षकः सूर्यबिंबस्य तेजसः शातनो महान्॥
एवं तस्याऽभवत्पुत्रो वसूनामष्टमस्य वै ॥ ८ ॥
प्रभासनाम्नो देवेशि तल्लिंगाराधनोद्यतः ॥
इति ते कथितं देवि प्रभासेश्वरसूचकम् ॥ ९ ॥
माहात्म्यं सर्वपापघ्नं सर्वकामप्रदं शुभम् ॥
यस्तं पूजयते भक्त्या सम्यक्छ्रद्धासमन्वितः ॥ 7.1.110.१० ॥
भूमिशायी निराहारो जपन्वै शतरुद्रियम् ॥
माघे मासि चतुर्दश्यां स्नात्वा सागरसंगमे ॥ ११ ॥
पंचामृतेन संस्नाप्य पूजयित्वा विधानतः ॥ १२ ॥
य एवं कुरुते देवि सम्यग्यात्रामहोत्सवम् ॥
स मुक्तः पातकैः सर्वैः सर्वकामैः समृद्ध्यते ॥
वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभासेश्वरमाहात्म्यवर्णनंनाम दशोत्तरशततमोऽध्यायः ॥ ११० ॥