स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १०९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अनिलेश्वरमुत्तमम्॥
तस्योत्तरेशानदिक्स्थं धनुषां त्रितये प्रिये ॥ १ ॥
लिंगं महाप्रभावं हि दर्शनात्पापनाशनम् ॥
वसूनां पञ्चमो योऽसावनिलः परिकीर्तितः ॥ २ ॥
स चाऽऽराध्य महादेवं प्रत्यक्षीकृतवान्भवम् ॥
लिंगं प्रतिष्ठयामास सम्यक्छ्रद्धासमन्वितः ॥ ३ ॥
एवमीशप्रभावेन सुतस्तस्याऽप्यभूद्बली ॥
मनोजवेति विख्यातो ह्यविज्ञातगतिस्तथा ॥ ४ ॥
तं दृष्ट्वा व्याधिना मर्त्यो पीड्यते न कदाचन ॥
नान्धो न बधिरो मूको न रोगी न च निर्धनः ॥
कदाचिज्जायते मर्त्यस्तेन दृष्टेन भूतले ॥ ५ ॥
पुष्पमेकं तु यो दद्यात्तस्य लिंगस्य चोपरि ॥
सुखसौभाग्यसंपन्नः स सदा रूपवान्भवेत् ॥ ६ ॥
इत्येवं कथितं देवि माहात्म्यं पापनाशनम्॥
श्रुत्वाऽनुमोद्य भावेन सर्वकामैः समृद्ध्यते ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ऽनिलेश्वरमाहात्म्यवर्णनंनाम नवोत्तरशतत मोऽध्यायः ॥१०९॥