स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १०८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वसूनां लिंगमुत्तमम् ॥
सोमेशादीशदिग्भागे पञ्चाशद्धनुषान्तरे ॥ १ ॥
स्थितं लिंगं महादेवि चतुर्वक्त्रं सुरप्रियम् ॥
प्रत्यूषेश्वरनामानं महापातकनाशनम् ॥ ॥ २ ॥
दर्शनात्तस्य देवस्य सप्तजन्मान्तरोद्भवम्॥
पापं प्रणाशमायाति सत्यंसत्यं वरानने ॥ ३ ॥
॥ देव्युवाच ॥ ॥
कोऽसौ प्रत्यूषनामेति कथं लिंगं प्रतिष्ठितम्॥
कस्य पुत्रः स विख्यात एतन्मे वद शंकर ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
दक्षो ब्रह्मसुतो देवि प्रजापतिरिति स्मृतः ॥
तस्य कन्याः पुरा षष्टिर्ददौ धर्माय वै दश ॥ ५ ॥
तासां मध्ये महादेवि एका विश्वेति विश्रुता ॥
सा धर्माच्च महादेवि अष्टावजनयत्सुतान् ॥ ६ ॥
आपो ध्रुवश्च सोमश्च धरश्चैवाऽनलोऽनिलः ॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ ७ ॥
तेषां मध्ये सप्तमोऽसौ प्रत्यूष इति विश्रुतः ॥
स पुत्रकामो देवेशि प्रभासं क्षेत्रमागतः ॥ ८ ॥
स ज्ञात्वा कामिकं क्षेत्रं प्रतिष्ठाप्य महेश्वरम् ॥
तपश्चचार विपुलं दिव्यं वर्षशतं प्रिये ॥
ध्यायन्देवं महादेवं शान्तस्तद्गतमानसः ॥ ९ ॥
ततस्तुष्टो महादेवस्तस्य भक्त्या निरञ्जनः ॥
ददौ तस्य सुतं देवि देवलं योगिनां वरम् ॥ 7.1.108.१० ॥
ततः प्रभृति देवेशि तल्लिंगस्य प्रभावतः ॥
देवलो भगवान्योगी प्रत्यूषस्याऽभवत्सुतः ॥ ११ ॥
अनेन कारणेनासौ प्रत्यूषेश्वरसंज्ञितः ॥ १२ ॥
यश्चानपत्यः पुरुषस्तं समाराधयिष्यति ॥
तस्यान्ववाये देवेशि संततिर्न विनश्यति ॥ १३ ॥
यः प्रत्यूषे महादेवि प्रत्यूषेश्वरमुत्तमम् ॥
पूजयिष्यति सद्भक्त्या सततं नियतात्मवान् ॥
तस्यैष्यति क्षयं पापमपि ब्रह्मवधोद्भवम ॥ १४ ॥
वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः ॥ १५ ॥
माघे कृष्णचतुर्द्दश्यां जागृयात्तत्र वै निशि ॥
सर्वेषां दानयज्ञानां फलं जागरणाल्लभेत् ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभाससक्षेत्रमाहात्म्ये प्रत्यूषेश्वरमाहात्म्यवर्णनंनामाष्टोत्तरशततमोऽध्यायः ॥ १०८ ॥

प्रत्यूषोपरि संक्षिप्त टिप्पणी