स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १०७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
अथ पूजाविधानं ते कथयामि समासतः ॥
भक्तिभेदान्पृथक्तस्य ब्रह्मणो बालरूपिणः ॥ १ ॥
रथयात्राविधानं तु स्तोत्रमंत्रविधिक्रमम् ॥
विविधा भक्तिरुद्दिष्टा मनोवाक्कायसंभवा ॥ ॥ २ ॥
लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा ॥
ध्यानधारणया या तु वेदानां स्मरणेन च ॥
ब्रह्मप्रीतिकरी चैषा मानसी भक्तिरुच्यते ॥ ३ ॥
मंत्रवेदनमस्कारैरग्निश्राद्धविधानकैः ॥
जाप्यैश्चारण्यकैश्चैव वाचिकी भक्तिरुच्यते ॥ ४ ॥
व्रतोपवासनियमैश्चितेंद्रियनिरोधिभिः ॥
कृच्छ्र सांतपनैश्चान्यैस्तथा चांद्रायणादिभिः ॥ ५ ॥
ब्रह्मोक्तैश्चोपवासैश्च तथान्यैश्च शुभव्रतैः ॥
कायिकी भक्तिराख्याता त्रिविधा तु द्विजन्मनाम् ॥ ६ ॥
गोघृतक्षीरदधिभिर्मध्विक्षुसुकुशोदकैः ॥
गंधमाल्यैश्च विविधैर्वस्तुभिश्चोपपादिभिः ॥ ७ ॥
घृतगुग्गुलधूपैश्च कृष्णागुरुसुगंधिभिः ॥
भूषणै हैमरत्नाद्यैश्चित्राभिः स्रग्भिरेव च ॥ ८ ॥
न्यासैः परिसरैः स्तोत्रैः पताकाभिस्तथोत्सवैः ॥
नृत्यवादित्रगीतैश्च सर्ववस्तूपहारकैः ॥ ९ ॥
भक्ष्यभोज्यान्न पानैश्च या पूजा क्रियते नरैः ॥
पितामहं समुद्दिश्य सा भक्तिर्लौकिकी मता ॥ 7.1.107.१० ॥
वेदमंत्रहविर्भागैः क्रिया या वैदिकी स्मृता ॥ ११ ॥
दर्शे च पौर्णमास्यां च कर्त्तव्यं चाग्निहोत्रजम् ॥
प्राशनं दक्षिणादानं पुरोडाश इति क्रिया ॥ १२ ॥
इष्टिर्धृतिः सोमपानं याज्ञियं कर्म सर्वशः ॥
ऋग्यजुः सामजाप्यानि संहिताध्ययनानि च ॥
क्रियते ब्रह्माणमुद्दिश्य सा भक्तिर्वेदिकोच्यते ॥ १३ ॥
प्राणायामपरो नित्यं ध्यानवान्विजितेंद्रियः ॥
भैक्ष्यभक्षी व्रती चापि सर्वप्रत्याहृतेंद्रियः ॥ १४ ॥
धारणं हृदये कृत्वा ध्यायमानः प्रजेश्वरम् ॥
हृत्पद्मकर्णिकासीनं रक्तवर्णं सुलोचनम् ॥१५॥
पश्यन्नुद्द्योतितमुखं ब्रह्माणं सुकटीतटम्॥
रक्तवर्णं चतुर्बाहुं वरदाभयहस्तकम्॥
एवं यश्चिंतयेद्देवं ब्रह्मभक्तः स उच्यते ॥ १६ ॥
विधिं च शृणु मे देवि यः स्मृतः क्षेत्रवासिनाम् ॥ १७ ॥
निर्ममा निरहंकारा निःसंगा निष्परिग्रहाः॥
चतुर्वर्गेपि निःस्नेहाः समलोष्टाश्मकांचनाः ॥१८॥
भूतानां कर्मभिर्नित्यं त्रिविधैरभयप्रदाः ॥
प्राणायामपरा नित्यं परध्यानपरायणाः ॥ १९ ॥
जापिनः शुचयो नित्यं यतिधर्मक्रियापराः ॥
सांख्ययोगविधिज्ञा ये धर्मविच्छिन्नसंशयाः ॥ 7.1.107.२० ॥
ब्रह्मपूजारता नित्यं ते विप्राः क्षेत्रवासिनः ॥
तैर्यथा पूजनीयो वै बालरूपी पितामहः ॥ २१ ॥
तथाहं कीर्त्तयिष्यामि शृणुष्वैकमनाः प्रिये ॥
स्नात्वा तु विमले तीर्थे शुक्लांबरधरः शुचिः॥
पूजोपहारसंयुक्तस्ततो ब्रह्माणमर्चयेत् ॥ २२ ॥
पूर्वं संस्नाप्य विधिना पंचामृतरसोदकैः ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ २३ ॥
गायत्र्या गृह्य गोमूत्रं गंधद्वारेति गोमयम् ॥
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥ २४ ॥
तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् ॥
आपोहिष्ठेति मंत्रेण पंचगव्येन स्नापयेत् ॥ २५ ॥
कपिलापंचगव्येन कुशवारियुतेन च ॥
स्नापयेन्मंत्रपूतेन ब्रह्मस्नानं हि तत्स्मृतम् ॥ २६ ॥
वर्षकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ॥
सुरज्येष्ठं तु संस्नाप्य दहेत्सर्वं न संशयः ॥ २७ ॥
एवं संस्नाप्य विधिना ब्रह्माणं बालरूपिणम् ॥
कर्पूरागरुतोयेन ततः संस्नापयेद्द्विजः ॥ २८ ॥
एवं कृत्वार्च्चयेद्देवं गायत्रीन्यासयोगतः ॥
मूर्ध्नः पादतलं यावत्प्रणवं विन्यसेद्बुधः ॥ २९ ॥
तकारं विन्यसेन्मूर्ध्नि सकारं मुखमण्डले ॥
विकारं कंठदेशे तु तुकारं चांगसंधिषु ॥ 7.1.107.३० ॥
वकारं हृदि मध्ये तु रेकारं पार्श्वयोर्द्वयोः ॥
णिकारं दक्षिणे कुक्षौ यकारं वामसंज्ञिते ॥ ३१ ॥
भकारं कटिनाभिस्थं गोकारं पार्श्वयोर्द्वयोः ॥
देकारं जानुनोर्न्यस्य वकारं पादपद्मयोः ॥ ३२ ॥
स्यकारमंगुष्ठयोर्न्यस्य धीकारमुरसि न्यसेत् ॥
मकारं जानुमूले तु हि कारं गुह्यमाश्रितम् ॥ ३३ ॥
धिकारं हृदये न्यस्य योकारं चाधरोष्ठके ॥
योकारं च तथैवान्यमुत्तरोष्ठे न्यसेत्सुधीः ॥ ३४ ॥
नकारं नासिकाग्रे तु प्रकारं नेत्रमाश्रितम् ॥
चोकारं च भ्रुवोर्मध्ये दकारं प्राणमाश्रितम् ॥ ३५ ॥
यात्कारं च ललाटांते विन्यसेद्वै सुरेश्वरि ॥
न्यासं कृत्वाऽऽत्मनो देहे देवे कुर्यात्तथा प्रिये ॥ ३६ ॥
सर्वोपहारसंपन्नं कृत्वा सम्यङ्निरीक्षयेत् ॥
कुंकुमागरुकर्पूरचंदनेन विमिश्रितम् ॥ ३७ ॥
गंधतोयैरुपस्कृत्य गायत्र्या प्रणवेन च ॥
प्रोक्षयेत्सर्वद्रव्याणि पश्चादर्चनमारभेत् ॥ ३८ ॥
दिव्यै पुष्पैः सुगंधैश्च मालतीकमलादिभिः ॥
अशोकैः शतपत्रैश्च बकुलैः पूजयेत्क्रमात् ॥ ३९ ॥
कृष्णागरुसुधूपेन घृतदीपैस्तथोत्तमैः ॥
ततः प्रदापयेत्तत्र नैवेद्यं विविधं क्रमात् ॥ 7.1.107.४० ॥
खण्डलड्डुकश्रीवेष्टकांसाराशोकपल्लवैः ॥
स्वस्तिकोल्लिपिकादुग्धा तिलवेष्टकिलाटिकाम् ॥ ४१ ॥
फलानि चैव पक्वानि मूलमंत्रेण दापयेत् ॥
ऋग्वेदं च यजुर्वेदं सामवेदं च पूजयेत् ॥ ४२ ॥
ज्ञानं वैराग्यमैश्वर्यं धर्मं संपूजयेद्बुधः ॥
ईशानादिक्रमाद्देवि दिशासु विदिशासु च ॥ ४३ ॥
चतुर्द्दशविद्यास्थानानि ब्रह्मणोऽग्रे प्रपूजयेत् ॥
हृदयानि ततो न्यस्य देवस्य पुरतः क्रमात् ॥ ४४ ॥
आपोहिष्ठेति ऋगियं हृदयं परिकीर्त्तितम् ॥
ऋतं सत्यं शिखा प्रोक्ता उदुत्यं नेत्रमादिशेत् ॥ ४५ ॥
चित्रं देवानामित्येवं सर्वलोकेषु विश्रुतम् ॥
ब्रह्मंस्ते छादयामीति कवचं समुदाहृतम् ॥ ४६ ॥
भूर्भुवः स्वरितीरेश पूजनं परिकीर्तितम् ॥
गायत्र्या पूजयेद्देवमोंकारेणाभिमंत्रितम्॥ ४७॥
प्रणवेनापरान्सर्वानृग्वेदादीन्प्रपूजयेत् ॥
गायत्री परमो मंत्रो वेदमाता विभावरी ॥ ४८ ॥
गायत्र्यक्षरतत्त्वैस्तु ब्रह्माणं यस्तु पूजयेत् ॥
उपोष्य पंचदश्यां तु स याति परमं पदम् ॥ ४९ ॥
संसारसागरं घोरमुत्तितीर्षुर्द्विजो यदि ॥
प्रभासे कार्त्तिके मासि ब्रह्माणं पूजयेत्सदा ॥ 7.1.107.५० ॥
यस्य दर्शनमात्रेण अश्वमेध फलं लभेत् ॥
कस्तं न पूजयेद्विद्वान्प्रभासे बालरूपिणम् ॥ ५१ ॥
यस्यैकदिवसप्रांते सदेवासुरमानवाः ॥
विलयं यांति देवेशि कस्तं न प्रतिपूजयेत् ॥ ५२ ॥
पिता यः सर्वदेवानां भूतानां च पितामहः ॥
यस्मादेष स तैः पूज्यो ब्राह्मणैः क्षेत्रवासिभिः ॥ ५३ ॥
रुद्ररूपी विश्वरूपी स एव भुवनेश्वरः ॥
पौर्णमास्यामुपोषित्वा ब्रह्माणं जगतां पतिम् ॥
अर्चयेद्यो विधानेन सोऽश्वमेधफलं लभेत् ॥ ५४ ॥
कार्त्तिके मासि देवस्य रथयात्रा प्रकीर्त्तिता ॥
यां कृत्वा मानवो भक्त्या याति ब्रह्मसलोकताम् ॥ ५५ ॥
कार्त्तिके मासि देवेशि पौर्णमास्यां चतुर्मुखम् ॥
मार्गेण चर्मणा सार्द्धं सावित्र्या च परंतपः ॥ ५६ ॥
भ्रामयेन्नगरं सर्वं नानावाद्यैः समन्वितम् ॥
स्थापयेद्भ्रामयित्वा तु सकलं नगरं नृपः ॥ ५७ ॥
ब्राह्मणान्भोजयित्वाग्रे शांडिलेयं प्रपूज्य च ॥
आरोपयेद्रथे देवं पुण्यवादित्रनिःस्वनैः ॥ ५८ ॥
रथाग्रे शांडिलीपुत्रं पूजयित्वा विधानतः ॥
ब्राह्मणान्वाचयित्वा च कृत्वा पुण्याहमंगलम् ॥ ५९ ॥
देवमारोपयित्वा तु रथे कुर्यात्प्रजागरम् ॥
नानाविधैः प्रेक्षणकैर्ब्रह्मशेषैश्च पुष्कलैः ॥ 7.1.107.६० ॥
नारोढव्यं रथे देवि शूद्रेण शुभमिच्छता ॥
नाधर्मेण विशेषेण मुक्त्वैकं भोजकं प्रिये ॥ ६१ ॥
ब्रह्मणो दक्षिणे पार्श्वे सावित्रीं स्थापयेत्प्रिये ॥
भोजकं वामपार्श्वे तु पुरतः पंकजं न्यसेत् ॥ ६२ ॥
एवं तूर्यनिनादैश्च शंखशब्दैश्च पुष्कलैः ॥
भ्रामयित्वा रथं देवि पुरं सर्वं च दक्षिणम् ॥
स्वस्थाने स्थापयेद्भूयः कृत्वा नीराजनं बुधः ॥ ६३ ॥
य एवं कुरुते यात्रां भक्त्या यश्चापि पश्यति ॥
रथं वाऽऽकर्षयेद्यस्तु स गच्छेद्ब्रह्मणः पदम् ॥ ६४ ॥
यो दीपं धारयेत्तत्र ब्रह्मणो रथपृष्ठगः ॥
पदेपदेऽश्वमेधस्य स फलं विंदते महत् ॥ ६५ ॥
यो न कारयते राजा रथयात्रां तु ब्रह्मणः ॥
स पच्यते महादेवि रौरवे कालमक्षयम् ॥ ६६ ॥
तस्मात्सर्वप्रयत्नेन राष्ट्रस्य क्षेममिच्छता ॥
रथयात्रां विशेषेण स्वयं राजा प्रवर्त्तयेत् ॥ ६७ ॥
प्रतिपद्ब्राह्मणांश्चापि भोजयेद्वि धिवत्सुधीः ॥
वासोभिरहतैश्चापि गन्धमाल्यानुलेपनैः ॥ ६८ ॥
कार्त्तिके मास्यमावास्यां यस्तु दीपप्रदीपनम् ॥
शालायां ब्रह्मणः कुर्यात्स गच्छेत्परमं पदम् ॥ ६९ ॥
उत्सवेषु च सर्वेषु सर्वकाले विशेषतः ॥
पूजयेयुरिमं विप्रा ब्रह्माणं जगतां गुरुम् ॥ 7.1.107.७०॥
यथाकृत्यप्रयोगेण सम्यक्छ्रद्धा समन्विताः ॥
पूज्यो दिव्योपचारेण यथावित्तानुसारतः ॥ ७१ ॥
एवं ते कथितं देवि पूजामाहात्म्यमुत्तमम् ॥
प्रभासक्षेत्रमाहात्म्यं ब्रह्मणः बालरूपिणः ॥ ७२ ॥
तस्याहं कथयिष्यामि नाम्नामष्टोत्तरं शतम् ॥
प्रदत्त्वा च पठित्वा च यज्ञायुतफलं लभेत् ॥ ७३ ॥
 गायत्र्या लक्षजाप्येन सम्यग्जप्तेन यत्फलम् ॥
तत्फलं समवाप्नोति स्तोत्रस्यास्य उदीरणात् ॥ ७४ ॥
इदं स्तोत्रवरं दिव्यं रहस्यं पापनाशनम् ॥
न देयं दुष्टबुद्धीनां निन्दकानां तथैव च ॥ ७५ ॥
ब्राह्मणाय प्रदातव्यं श्रोत्रियाय महात्मने ॥
विष्णुना हि पुरा पृष्टं ब्रह्मणः स्तोत्रमुत्त्मम् ॥ ७६ ॥
केषुकेषु च स्थानेषु देवदेव पितामह ॥
संचिन्त्यस्तन्ममाचक्ष्व त्वं हि सर्वविदुत्तम ॥ ७७ ॥
॥ ब्रह्मोवाच ॥ ॥
पुष्करेऽहं सुरश्रेष्ठो गयायां प्रपितामहः।।
कान्यकुब्जे वेदगर्भो भृगुक्षेत्रे चतुर्मुखः ॥ ७८ ॥
कौबेर्यां सृष्टिकर्ता च नन्दिपुर्यां बृहस्पतिः ॥
प्रभासे बालरूपी च वाराणस्यां सुरप्रियः ॥७९॥
द्वारावत्यां चक्रदेवो वैदिशे भुवनाधिपः ॥
पौंड्रके पुण्डरीकाक्षः पीताक्षो हस्तिनापुरे ॥ 7.1.107.८० ॥
जयंत्यां विजयश्चासौ जयन्तः पुरुषोत्तमे ॥
वाडेषु पद्महस्तोऽहं तमोलिप्ते तमोनुदः ॥ ८१ ॥
आहिच्छत्र्यां जनानंदः काञ्चीपुर्यां जनप्रियः ॥
कर्णाटस्य पुरे ब्रह्मा ऋषिकुण्डे मुनिस्तथा ॥ ८२ ॥
श्रीकण्ठे श्रीनिवासश्च कामरूपे शुभंकरः ॥
उच्छ्रियाणे देवकर्त्ता स्रष्टा जालंधरे तथा ॥ ८३ ॥
मल्लिकाख्ये तथा विष्णुर्महेन्द्रे भार्गवस्तथा ॥
गोनर्दः स्थविराकारे ह्युज्जयिन्यां पितामहः ॥ ८४ ॥
कौशांब्यां तु महादेवो ह्ययोध्यायां तु राघवः ॥
विरंचिश्चित्रकूटे तु वाराहो विन्ध्यपर्वते ॥ ८५ ॥
गंगाद्वारे सुरश्रेष्ठो हिमवन्ते तु शंकरः ॥
देहिकायां स्रुचाहस्तः पद्महस्तस्तथाऽर्बुदे ॥८६ ॥
वृन्दावने पद्मनेत्रः कुश हस्तश्च नैमिषे ॥
गोपक्षेत्रे च गोविन्दः सुरेन्द्रो यमुनातटे ॥ ८७ ॥
भागीरथ्यां पद्मतनुर्जनानन्दो जनस्थले ॥
कौंकणे च स मध्वक्षः काम्पिल्ये कनकप्रभः ॥ ८८ ॥
खेटके चान्नदाता च शंभुश्चैव क्रतुस्थले ॥
लंकायां चैव पौलस्त्यः काश्मीरे हंसवाहनः ॥ ८९ ॥
वसिष्ठश्चार्बुदे चैव नारदश्चोत्पलावने ॥
मेधके श्रुतिदाता च प्रयागे यजुषां पतिः ॥ 7.1.107.९० ॥
शिवलिंगे सामवेदो मर्कटे च मधुप्रियः ॥
नारायणश्च गोमन्ते विदर्भायां द्विज प्रियः ॥ ९१ ॥
अंकुलके ब्रह्मगर्भो ब्रह्मवाहे सुतप्रियः ॥
इन्द्रप्रस्थे दुराधर्षश्चंपायां सुरमर्दनः ॥ ९२ ॥
विरजायां महारूपः सुरूपो राष्ट्रवर्धने ॥
कदंबके जनाध्यक्षो देवाध्यक्षः समस्थले ॥ ९३ ॥
गंगाधरो रुद्रपीठे सुपीठे जलदः स्मृतः ॥
त्र्यंबके त्रिपुरारिश्च श्रीशैले च त्रिलोचनः ॥ ९४ ॥
महादेवः प्लक्षपुरे कपाले वेधनाशनः ॥
शृङ्गवेरपुरे शौरिर्निमिषे चक्रधारकः ॥ ९५ ॥
नन्दिपुर्यां विरूपाक्षो गौतमः प्लक्षपादपे ॥
माल्यवान्हस्तिनाथे तु द्विजेन्द्रो वाचिके तथा ॥ ९६ ॥
इन्द्रपुर्यां दिवानाथो भूतिकायां पुरंदरः ॥
हंसबाहुश्च चन्द्रायां चंपायां गरुडप्रियः ॥ ९७ ॥
महोदये महायक्षः सुयज्ञः पूतके वने ॥
सिद्धेश्वरे शुक्लवर्णो विभायां पद्मबोधकः ॥ ९८ ॥
देवदारुवने लिंगी उदकेथ उमापतिः ॥
विनायको मातृस्थाने अलकायां धनाधिपः ॥ ९९ ॥
त्रिकूटे चैव गोविंदः पाताले वासुकिस्तथा ॥
कोविदारे युगाध्यक्षः स्त्रीराज्ये च सुरप्रियः ॥ 7.1.107.१०० ॥
पूर्णगिर्यां सुभोगश्च शाल्मल्यां तक्षकस्तथा ॥
अमरे पापहा चैव अंबिकायां सुदर्शनः ॥ १०१ ॥
नरवाप्यां महावीरः कान्तारे दुर्गनाशनः ॥
पद्मवत्यां पद्मगृहो गगने मृगलाञ्छनः ॥ १०२ ॥
अष्टोत्तरं नामशतं यत्रैतत्परिपठ्यते ॥
तत्रैव मम सांनिध्यं त्रिसंध्यं मधुसूदन ॥ १०३ ॥
तेषामपि यस्त्वेकं पश्येद्वै बालरूपिणम् ॥
सर्वेषां लभते पुण्यं पूर्वोक्तानां च वेधसाम् ॥१०४॥
एतैर्यो नामभिः कृष्ण प्रभासे स्तौति मां सदा ॥
स्थानं मे विजयं लब्ध्वा मोदते शाश्वतीः समाः ॥ १०५ ॥
मानसं वाचिकं चैव कायिकं चैव दुष्कृतम् ॥
तत्सर्वं नाशमायाति मम स्तोत्राऽनु कीर्तनात् ॥ १०६ ॥
पुष्पोपहौरर्धूपैश्च ब्राह्मणानां च तर्पणैः ॥
ध्यानेन च स्थिरेणाशु प्राप्यते यत्फलं नरैः ॥
तत्फलं समवाप्नोति मम स्तोत्रानु कीर्तनात् ॥ १०७ ॥
ब्रह्महत्यादिपापानि इह लोके कृतान्यपि ॥
अकामतः कामतो वा तानि नश्यंति तत्क्षणात् ॥ १०८ ॥
इदं स्तोत्रं ममाभीष्टं शृणुयाद्वा पठेच्च वा ॥
स मुक्तः पातकैः सर्वैः प्राप्नुयान्महदीप्सितम् ॥ १०९ ॥
अन्यद्रहस्यं ते वच्मि शृणु कृष्ण यथार्थतः ॥ 7.1.107.११० ॥
आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित् ॥
महती सा तिथिर्ज्ञेया प्रभासे मम वल्लभा ॥ १११ ॥
प्राजापत्यं यदा ऋक्षं तिथौ तस्यां भवेद्यदि ॥
सा महाकार्तिकी पुण्या देवानामपि दुर्लभा ॥ ११२ ॥
मंदे वार्के गुरौ वाऽपि कार्तिकी कृत्तिकायुता ॥
तत्राश्वमेधिकं पुण्यं दृष्ट्वा वै बालरूपिणम् ॥ ॥ ११३ ॥
विशाखासु यदा सूर्यः कृत्तिकासु च चन्द्रमाः ॥
स योगः पद्मको नाम प्रभासे दुर्लभो हरे ॥ ११४ ॥
तस्मिन्योगे नरो दृष्ट्वा प्रभासे बालरूपिणम् ॥
पापकोटियुतो वाऽपि यमलोकं न पश्यति ॥ ११५ ॥
॥ ईश्वर उवाच ॥ ॥
इत्येवं कथितं स्तोत्रं ब्रह्मणा हरये पुनः ॥
मया तव समाख्यातं माहात्म्यं ब्रह्मदैवतम् ॥११६ ॥
सर्वपापहरं नृणां श्रुतं सर्वार्थसाधकम् ॥
भूमिदानं च दातव्यं तत्र यात्राफलेप्सुभिः ॥ ॥ ११७ ॥
कमंडलुः श्वेतवस्त्रं महादानानि षोडश ॥
तत्रैव देवि देयानि ब्रह्मणे बालरूपिणे ॥११८॥
महापर्वणि संप्राप्ते कुर्युः पारायणं द्विजाः ॥
सर्वे ते ब्राह्मणा देवि क्षेत्रमध्यनिवासिनः ॥ ११९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये बालरूपिब्रह्मणो माहात्म्यवर्णनंनाम सप्तोत्तरशततमोऽध्यायः ॥ १०७ ॥