स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १०६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ देव्युवाच ॥ ॥
एवमद्वैतभावेन यद्ब्रह्म परिकीर्तितम् ॥
तस्य पूजा विधानं मे कथयस्व यथार्थतः ॥ १ ॥
क्षेत्रे प्राभासिके देव बालरूपी पितामहः ॥
स कथं पूज्यते लोकैः परब्रह्मस्वरूपवान् ॥ २ ॥
के मन्त्राः किं विधानं तद्बाह्मणास्तत्र कीदृशाः ॥
तत्र स्थितानां विप्राणां कथं क्षेत्रफलं भवेत् ॥ ३ ॥
कतिप्रकारास्ते विप्रास्तत्र क्षेत्रनिवासिनः ॥
किमाचारा महादेव किंशीलाः किंपरायणाः ॥ ४ ॥
एतद्विस्तरतो ब्रूहि ब्राह्मणानां महोदयम् ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
साधुसाधु महादेवि सम्यक्प्रश्नविशारदे ॥
शृणुष्वैकमना भूत्वा माहात्म्यं विप्रदैवतम् ॥ ६ ॥
यच्छ्रुत्वा मानवो देवि मुच्यते सर्वपातकैः ॥
ये केचित्सागरांतायां पृथिव्यां कीर्तिता द्विजाः ॥ ७ ॥
तद्रूपं मम देवेशि प्रत्यक्षं धरणीतले ॥ प्रत्यक्षं ब्राह्मणा देवाः परोक्षं दिवि देवताः ॥ ८ ॥
ब्राह्मणा मत्प्रिया नित्यं ब्राह्मणा मामकी तनुः ॥
यस्तानर्चयते भक्त्या स मामर्चयते सदा ॥ ९ ॥
यस्तांस्तोषयते भक्त्या स च मां परितोषयेत् ॥7.1.106.१॥।
ये ब्राह्मणाः सोऽहमसंशयं प्रिये तेष्वर्चितेष्वर्चितोऽहं भवेयम् ॥
तेष्वेव तुष्टेष्वहमेव तुष्टो वैरं च तैर्यस्य ममापि वैरम् ॥ ११ ॥
यश्चन्दनैः सागरुगन्धमाल्यै रभ्यर्चयेच्छैलमयीं ममार्चाम्॥
असौ न मामर्चयतेर्चयन्वै विप्रार्चनादर्चित एव चाहम् ॥ १२ ॥
यावंतः पृथिवीमध्ये चीर्णवेदव्रता द्विजाः ॥
अचीर्णव्रतवेदा वा तेऽपि पूज्या द्विजाः प्रिये ॥ १३ ॥
न ब्राह्मणान्परीक्षेत श्राद्धे क्षेत्रनिवासिनः ॥
सुमहान्परिवादोऽस्य ब्राह्मणानां परीक्षणे ॥ १४ ॥
काणाः खञ्जाश्च कृष्णाश्च दरिद्रा व्याधितास्तथा ॥
सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः ॥ १५ ॥
ब्राह्मणा जातितः पूज्या वेदाभ्यासात्ततः परम् ॥
ततोर्थं हव्यकव्येषु न निन्द्या ब्राह्मणाः क्वचित् ॥ १६ ॥
काणान्कुण्टांश्च कुब्जाश्च दरिद्रान्व्याधितानपि॥
नावमन्येद्द्विजान्प्राज्ञो मम रूपं यतः स्मृतम् ॥ १७ ॥
बहवो हि न जानंति नरा ज्ञानबहिष्कृताः ॥
यथाहं द्विजरूपेण चरामि पृथिवीमिमाम् ॥ १८ ॥
मद्रूपान्घ्नन्ति ये विप्रान्विकर्म कारयंति च ॥
अप्रेषणे प्रेषयंति दासत्वं कारयन्ति च ॥ १९ ॥
मृतांस्तान्करपत्रेण यमदूता महाबलाः ॥
निकृंतंति यथा काष्ठं सूत्रमार्गेण शिल्पिनः ॥ 7.1.106.२० ॥
ये चैवाश्लक्ष्णया वाचा तर्जयन्ति नराधमाः ॥
वदंति परुषं क्रोधात्पादेन निहनंति च ॥ २१ ॥
मृतांस्तान्यमलोका हि निहत्य धरणीतले ॥
क्रूरपादेन चाक्रम्य क्रोधसंरक्तलोचनाः ॥ २२ ॥
अग्निवर्णैश्च संदंशैर्जिह्वामुद्धरते यमः ॥
ये नु विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा ॥ २२ ॥
अब्रह्मण्यास्तु ते बाह्या नित्यं ब्रह्मद्विषो नराः ॥
तेषां घोरा महाकाया वज्रतुंडा भयानकाः ॥
उद्धरंति मुहूर्तेन चक्षुः काका यमाज्ञया ॥ २४ ॥
यस्ताडयति विप्रं वै क्षते कुर्याद्धि शोणितम् ॥
अस्थिभंगं च वा कुर्यात्प्राणैर्वापि वियोजयेत् ॥२५॥
ब्रह्मघ्नः स तु विज्ञेयो न तस्मै निष्कृतिः स्मृता ॥
पञ्चाशत्कोटिसंख्येषु नरकेष्वनुपूर्वशः ॥ २६ ॥
स बहूनि सहस्राणि वर्षाणि पच्यते भृशम्॥
तस्माद्विप्रो वरारोहे नमस्कार्यो नृभिः सदा॥ २७ ॥
अन्नपानप्रदानैस्तु पूज्या हि सततं द्विजाः ॥
सर्वेषां चैव दानानां विप्राः सर्वेऽधिकारिणः ॥ २८ ॥
नान्यः समर्थो देवेशि गृह्णन्यात्यधमां गतिम् ॥
तपसा पावितो देवि ब्राह्मणो धृतकिल्विषः ॥ २९ ॥
न सीदेत्प्रतिगृह्णानः पृथिवीमनुसागराम्॥
नास्ति किंचिन्महादेवि दुष्कृतं ब्राह्मणस्य तु ॥ 7.1.106.३० ॥
यस्तु स्थितः सदाऽध्यात्मे नित्यं सद्भावभावितः ॥
ब्राह्मणो हि महद्भूतं जन्मना सह जायते ॥ ३१ ॥
लोके लोकेश्वराश्चापि सर्वे ब्राह्मणपूजकाः ॥
ततस्तान्नावमन्येत यदीच्छेज्जीवितं चिरम् ॥ ३२ ॥
ब्राह्मणाः कुपिता हन्युर्भस्मीकुर्युः स्वतेजसा ॥
लोकानन्यान्सृजेयुश्च लोकपालांस्तथाऽपरान् ॥ ३३ ॥
अपेयः सागरो यैश्च कृतः कोपान्महात्मभिः ॥
येषां कोपाग्निरद्यापि दंडके नोपशाम्यति ॥३४॥
एते स्वर्गस्य नेतारो देवदेवाः सनातनाः॥
एभिश्चापि कृतः पंथा देवयानः स उच्यते ॥ ३५ ॥
ते पूज्यास्ते नमस्कार्यास्तेषु सर्वं प्रतिष्ठितम् ॥
ते वै लोकानिमान्सर्वान्पारयंति परस्परम्॥३६॥
गूढस्वाध्यायतपसो ब्राह्मणाः शंसितव्रताः ॥
विद्यास्नाता व्रतस्नाता अनपाश्रित्य जीविनः॥३७॥
आशीविषा इव क्रुद्धा उपचर्या हि ब्राह्मणाः॥
तपसा दीप्यमानास्ते दहेयुः सागरानपि॥३८॥
ब्राह्मणेषु च तुष्टुषु तुष्यंते सर्वदेवताः॥
ते गतिः सर्वभूतानामध्यात्मगतिचिन्तकाः॥३९॥
आदिमध्यावसानानां ज्ञानानां छिन्नसंशयाः॥
परापरविशेषज्ञा नेतारः परमां गतिम् ॥
अवध्या ब्राह्मणास्तस्मात्पापेष्वपि रताः सदा ॥ 7.1.106.४० ॥
यश्च सर्वमिदं हन्याद्ब्राह्मणं चापि तत्समम् ॥
सोऽग्निः सोऽर्को महातेजा विषं भवति कोपितः ॥ ४१ ॥
भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥
न स्कन्दते न व्यथते न विनश्यति कर्हिचित्॥४२॥
वरिष्ठमग्निहोत्राद्धि ब्राह्मणस्य मुखे हुतम्॥
विप्राणां वपुराश्रित्य सर्वास्तिष्ठंति देवताः॥४३॥
अतः पूज्यास्तु ते विप्रा अलाभे प्रतिमादयः ॥ ४४ ॥
अविद्यो वा सविद्यो वा ब्राह्मणो मम दैवतम् ॥
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ ४५ ॥
स्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ॥
हव्यकव्यव्यपेतोऽपि ब्राह्मणो नैव दुष्यति ॥ ४६ ॥
महापातकवर्ज्यं हि पूज्यो विप्रो वरानने ॥
सर्वथा ब्राह्मणाः पूज्याः सर्वथा दैवतं महत् ॥
तस्मात्सर्वप्रयत्नेन रक्षेदापद्गतं द्विजम् ॥ ४७ ॥
एवं विप्रा महादेवि पूज्याः सर्वत्र मानवैः ॥
किं पुनः संजितात्मानो विशेषात्क्षेत्रवासिनः ॥ ४८ ॥
अथ क्षेत्रस्थितानां च चतुराश्रमवासिनाम् ॥
विप्राणां वृत्तितो भेदं प्रवक्ष्याम्यानुपूर्व्यशः ॥ ४९ ॥
क्षेत्रस्य संन्यासविधिं ये जानंति द्विजातयः ॥
वृत्तिभेदं क्रमाच्चैव ते क्षेत्रफलभागिनः ॥ 7.1.106.५० ॥
यथा क्षेत्रे निवसता वर्तितव्यं द्विजातिना ॥
प्राजापत्यादिभेदेन तच्छृणु त्वं वरानने ॥ ५१ ॥
प्राजापत्या महीपालाः कपोता ग्रंथिकास्तथा ॥
कुटिकाश्चाथ वैतालाः पद्महंसा वरानने ॥ ५२ ॥
धृतराष्ट्रा बकाः कंका गोपालाश्चैव भामिनि ॥
त्रुटिका मठराश्चैव गुटिका दंडिकाः परे ॥ ५३ ॥
क्षेत्रस्थानामिमे भेदा वृत्तिं तेषां शृणुष्व च ॥ ५४ ॥
अहिंसा गुरुशुश्रूषा स्वाध्यायः शौचसंयमः ॥
सत्यमस्तेयमेतद्धि प्राजापत्यं व्रतं स्मृतम् ॥ ५५ ॥
क्षयपुष्ट्यर्थविद्वेषकर्मभिः शांतिकादिभिः ॥
पालयंति महीं यस्मान्महीपालास्ततः स्मृताः ॥ ५६ ॥
पतिता ये कणा भूमौ संहरंति कपोतवत् ॥
उद्धृत्याजीवनं येषां कपोतास्ते तु साधकाः ॥ ५७ ॥
गृहं कृत्वा तु सद्ग्रंथाः सहसैव त्यजंति ये ॥
कुटिका साधकास्ते वै शिवाराधनतत्पराः ॥ ५८ ॥
तीर्थासक्ताः सपत्नीका यथालब्धोपजीविनः ॥
महासाहसयुक्तास्ते वैतालाख्यास्तु साधकाः ॥ ५९ ॥
संयताः कामनासक्ता राज्यकामार्थसाधकाः ॥
पद्मास्ते साधकाः ख्याता भिक्षाचर्यारताः सदा ॥ 7.1.106.६० ॥
ज्ञानयोगसमायुक्ता द्वैताचाररताश्च ये ॥
हंसास्ते साधकाः ख्याताः स्वयमुत्पन्नसंविदः ॥ ६१ ॥
ब्रह्मचर्येण सत्त्वेन तथाऽलुब्धतयापि वा ॥
जितं जगद्धारयन्तो धृतराष्ट्रा मतास्तु ये ॥ ६२ ॥
गूढाश्चरंति ये ज्ञानं व्रतं धर्ममथापि वा ॥
स्वार्थैकागतनिष्ठास्तु बकास्ते साधका मताः॥ ॥ ६३ ॥
जलाश्रयं समाश्रित्य स्थिता उत्कृष्टसिद्धये ॥
बिसशृंगाटकाहारास्ते कंकाः साधकाः स्मृताः ॥ ६४ ॥
गोभिः सार्द्धं व्रजंत्यत्र गोष्ठे च निवसंति ये ॥
पंचगव्यरसा ये वै गोपालास्ते तु साधकाः ॥ ६५ ॥
कृच्छ्रचांद्रायणैश्चैव क्षपयंति स्वकं वपुः ॥
त्रुटिमात्राशनास्ते तु त्रुटिकाः साधका मताः ॥ ६६ ॥
कृत्वा कुशमयीं पत्नीं मठे ये गृहमेधिनः ॥
भैक्षवृत्तिरताः शुद्धा मठरास्ते तु साधकाः ॥ ६७ ॥
ग्रासमात्रसमानाभिर्गुटिकाभिरथाष्टभिः ॥
कन्दमूलफलोत्थाभिर्गुटिकास्ते द्विजातयः ॥ ६८ ॥
स्वदेहदण्डनैर्युक्ता रात्रौ वीरासने स्थिताः ॥
दंडिनस्ते समाख्याताः सर्वमेतत्तवोदितम् ॥ ६९ ॥
सामान्योऽपि विशेषश्च वृत्तिनो गृहिणोऽपि वा ॥
तेषां भेदो मया ख्याताः सम्यक्क्षेत्रनिवासिनाम् ॥ 7.1.106.७० ॥
एवमादिधर्मयुक्ताः प्रभासक्षेत्रवासिनः ॥
तैः पूज्यो भगवान्देवो बालरूपी पितामहः ॥ ७१ ॥
महापातकिनो ये तु ये तु विप्रैर्बहिष्कृताः ॥
न च ते संस्पृशेयुर्वै ब्रह्माणं बालरूपिणम् ॥। ७२ ॥
ब्रह्मचारी सदा दांतो जितक्रोधो जितेंद्रियः ॥
एवं ते ब्राह्मणाः ख्याताः क्षेत्रमध्यनिवासिनः ॥ ७३ ॥
तैः पूज्यो भगवान्देवो बालरूपी पितामहः ॥
ये वेदाध्ययने युक्तास्तैः प्रपूज्यः पितामहः ॥ ॥ ७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां ब्राह्मणप्रशंसा वर्णनंनाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥