स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १०५
॥ ईश्वर उवाच ॥ ॥
अथान्यत्संप्रवक्ष्यामि रहस्यं स्थानमुत्तमम् ॥
सर्वपापहरं नृणां विस्तरात्कथ यामि ते ॥ १ ॥
प्रधानदेवमाहात्म्यं माहात्म्यं कल्पवासिनाम् ॥
सोमेशो दैत्यहंता च वालरूपी पितामहः ॥२॥
अर्कस्थलस्तथादित्यः प्रभासः शशिभूषणः ॥
एते षट्प्रवरा देवाः क्षेत्रे प्राभासिके स्थिताः ॥ ३ ॥
तेषां दर्शनमात्रेण कृतकृत्यः प्रजायते ॥
मुच्यते पातकैर्घोरैराजन्मजनितैर्ध्रु वम् ॥ ४ ॥
॥ देव्युवाच॥ ॥
पूर्वेषामुक्तदेवानां माहात्म्यं कथितं त्वया ॥
प्रभासे बालरूपीति यत्प्रोक्तं तत्कथं वचः ॥ ५ ॥
अन्येषु सर्व स्थानेषु वृद्धरूपी पितामहः ॥
कथं च समनुप्राप्तो माहात्म्यं तस्य किं स्मृतम् ॥ ६ ॥
कथं स पूज्यो देवेश यात्रा कार्या कथं नृभिः ॥
एतद्विस्तरतो ब्रूहि प्रसन्नो यदि मे प्रभो ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि माहात्म्यं ब्रह्मसम्भवम् ॥
यस्य श्रवणमात्रेण मुच्यते सर्वपातकैः ॥ ८ ॥
नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः ॥
नास्ति ब्रह्मसमं ज्ञानं नास्ति ब्रह्मसमं तपः ॥ ९ ॥
तावद्धमंति संसारे दुःख शोकभयप्लुताः ॥
न भवंति सुरज्येष्ठे यावद्भक्ताः पितामहे ॥ 7.1.105.१० ॥
समासक्तं यथा चित्तं जन्तोर्विषयगोचरे ॥
यद्येवं ब्रह्मणि न्यस्तं को न मुच्येत बंधनात् ॥ ११ ॥
॥ देव्युवाच ॥ ॥
एवं माहात्म्यसंयुक्तो यदि ब्रह्मा जगद्गुरुः ॥
प्राभासिके महातीर्थे कस्मिन्स्थाने तु संस्थितः ॥ ॥ १२ ॥
किमर्थमागतस्तत्र कस्मिन्काले सुरोत्तमः ॥
कथं स पूज्यो विप्रेंद्रैस्तिथौ कस्यां क्रमाद्वद ॥ १३ ॥
॥ ईश्वर उवाच ॥ ॥
सोमनाथस्य ऐशान्यां सांबादित्याग्निगोचरे ॥
ब्रह्मणः परमं स्थानं ब्रह्मलोक इवापरः ॥ १४
तिष्ठते कल्पसंस्था वै तत्र कल्पांतवासिनः ॥
तत्र स्थाने स्थितो देवि बालरूपी पितामहः ॥ १५ ॥
जगत्प्रभुर्लोककर्ता सत्त्वमूर्तिर्महाप्रभः ॥
आगतश्चाष्टवर्षस्तु क्षेत्रे प्राभासिके शुभे ॥ १६ ॥
तत्राऽकरोत्तपो घोरं दिव्याब्दानां सहस्रकम् ॥
संस्थाप्य तु महालिंगं सिसृक्षुर्विविधाः प्रजाः ॥ १७ ॥
ततः कालांतरेतीते सोमेन प्रार्थितो विभुः ॥
क्षयरोगविमुक्तेन सम्यक्छ्रद्धान्वितेन वै ॥ १८ ॥
लिंगप्रतिष्ठाहेतोर्वै क्षेत्रे प्राभासिके शुभे ॥
कोटिब्रह्मर्षिभिः सार्द्धं सहितो विश्वकर्मणा ॥
कारयामास विधिवत्प्रतिष्ठां लिंगमुत्तमम्॥ १९ ॥
प्रतिष्ठाप्य ततो लिंगं सोमनाथं वरानने ॥
दापयामास विप्रेभ्यो भूरिशो यज्ञदक्षिणाम् ॥ 7.1.105.२० ॥
एवं प्रतिष्ठितं लिंगं ब्रह्मणा लोककर्तृणा ॥
वर्षाणि चात्र जातानि प्रभासे बालरूपिणः ॥ २१ ॥
चत्वारिंशद्वयं चैव क्षेत्रमध्यनिवासिनः ॥
एवं परार्द्धमगमत्प्रभासक्षेत्रवासिनः ॥ २२ ॥
॥ देव्युवाच ॥ ॥
ब्रह्मणो दिनमानं तु मासवर्षसहस्रकम् ॥
तत्सर्वं विस्तराद्ब्रूहि यथायुर्ब्रह्मणः स्मृत म् ॥ २३ ॥
॥ ईश्वर उवाच ॥ ॥
परमायुः स्मृतो ब्रह्मा परार्द्धं तस्य वै गतम्॥
प्रभासक्षेत्रसंस्थस्य द्वितीयं भवतेऽधुना ॥ २४ ॥
यदा प्राभासिके क्षेत्रे ब्रह्मा लोकपितामहः ॥
आगतश्चाष्टवर्षस्तु बालरूपी तदोच्यते ॥ २५ ॥
अन्येषु सर्वतीर्थेषु वृद्धरूपी पितामहः ॥
मुक्त्वा प्राभासिकं क्षेत्रं सदैव विबुधप्रिये ॥ २६ ॥
ब्रह्मांडे यानि तीर्थानि ब्रह्माणस्तेषु ये स्मृताः ॥
तेषामाद्यो महातेजाः प्रभासे यो व्यवस्थितः ॥ २७ ॥
कल्पेकल्पे तु नामानि शृणु त्वं तानि वै प्रिये ॥
स्वयंभूः प्रथमे कल्पे द्वितीये पद्मभूः स्थितः ॥ .२८ ॥
तृतीये विश्वकर्तेति बालरूपी चतुर्थके ॥
एतानि मुख्यनामानि कथितानि स्वयंभुवः ॥ २९ ॥
नित्यं संस्मरते यस्तु स दीर्घायुर्नरो भवेत् ॥7.1.105.३०॥
चन्द्रसूर्यग्रहाः सर्वे सदेवासुरमानुषाः ॥
त्रैलोक्यं नश्यते सर्वं ब्रह्मरात्रि समागमे॥३१॥
पुनर्दिने तु संजाते प्रबुद्धः सन्पितामहः॥
तथा सृष्टिं प्रकुरुते यथापूर्वमभूत्प्रिये॥३२॥
दिनमानं प्रवक्ष्यामि ब्रह्मणो लोककर्तृणः ॥
नेत्रभागाच्चतुर्भागस्त्रुटिः कालो निगद्यते ॥ ३३ ॥
तस्माच्च द्विगुणं ज्ञेयं निमिषांतं वरानने ॥
निमिषैः पञ्चदशभिः काष्ठा इत्युच्यते बुधैः॥
त्रिंशद्भिश्चैव काष्ठाभिः कला प्रोक्ता मनीषिभिः ॥३४॥
त्रिंशत्कलो मुहूर्तः स्याद्दिनं पंचदशैस्तु तैः॥
दिनमाना निशा ज्ञेया अहोरात्रं तयोर्भवेत् ॥३५॥
तैः पंचदशभिः पक्षः पक्षाभ्यां मास उच्यते ॥
मासैश्चैवायनं षङ्भिरब्दं स्यादयनद्वयात् ॥३६॥
चत्वारिंशद्धि लक्षाणि लक्षाणां त्रितयं पुनः ॥
विंशतिश्च सहस्राणि ज्ञेयं सौरं चतुर्युगम् ॥ ३७ ॥
चतुर्युगैकसप्तत्या मन्वंतरमुदाहृतम् ॥
ऐन्द्रमेतद्भवेदायुः समासात्तव कीर्तितम् ॥ ३८ ॥
स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस्ततः ॥
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्ततः ॥ ३९॥
वैवस्वतोऽर्कसावर्णिर्ब्रह्मसा वर्णिरेव च ॥
धर्मसावर्णिनामा च रौच्यो भूत्यस्तथैव च ॥ 7.1.105.४० ॥
चतुर्दशैते मनवः सँख्यातास्ते यथाक्रमम् ॥
भूतान्भविष्यानिंद्रांश्च सर्वा न्वक्ष्ये तव क्रमात् ॥ ४१ ॥
विश्वभुक्च विपश्चिच्च सुकीर्तिः शिबिरेव च ॥
विभुर्मनोभुवश्चैव तथौजस्वी बलिर्बली ॥ ४२ ॥
अद्भुतश्च तथा शांती रम्यो देववरो वृषा ॥
ऋतधामा दिवःस्वामी शुचिः शक्राश्चतुर्दश ॥ ४३ ॥
एते सर्वे विनश्यंति ब्रह्मणो दिवसे प्रिये ॥
रात्रिस्तु तावती ज्ञेया कल्पमानमिदं स्मृतम् ॥ ४४ ॥
प्रथमं श्वेतकल्पस्तु द्वितीयो नीललोहितः ॥
वामदेवस्तृतीयस्तु ततो राथंतरोऽपरः ॥ ४५ ॥
रौरवः पंचमः प्रोक्तः षष्ठः प्राण इति स्मृतः ॥
सप्तमोऽथ बृहत्कल्पः कन्दर्पोऽष्टम उच्यते ॥ ४६ ॥
सद्योऽथ नवमः प्रोक्तः ईशानो दशमः स्मृतः ॥
ध्यान एकादशः प्रोक्तस्तथा सारस्वतोऽपरः ॥ ४७ ॥
त्रयोदश उदानस्तु गरुडोऽथ चतुर्दशः ॥
कौर्मः पंचदशो ज्ञेयः पौर्णमासी प्रजापतेः ॥ ४८ ॥
षोडशो नारसिंहस्तु समाधिस्तु ततः परः ॥
आग्नेयोऽष्टादशः प्रोक्तः सोमकल्पस्ततोऽपरः ॥ ४९ ॥
भावनो विंशतिः प्रोक्तः सुप्तमालीति चापरः ॥
वैकुण्ठश्चार्चिषो रुद्रो लक्ष्मीकल्पस्तथापरेः ॥ 7.1.105.५० ॥
सप्तविंशोऽथ वैराजो गौरीकल्पस्तथोंऽऽधकः ॥
माहेश्वरस्तथा प्रोक्तस्त्रिपुरो यत्र घातितः ॥ ५१ ॥
पितृकल्पस्तथांते च या कुहूर्ब्रह्मणः स्मृता ॥
त्रिंशत्कल्पाः समाख्याता ब्रह्मणो मासि वै प्रिये ॥ ५२ ॥
अतीताः कथिताः सर्वे वाराहो वर्त्ततेऽधुना ॥
प्रतिपद्ब्रह्मणो यत्र वाराहेणोद्धृता मही ॥ ५३ ॥
त्रिंशत्कल्पैः स्मृतो मासो वर्षं द्वादशभिस्तु तैः ॥
अनेन वर्षमानेन तदा ब्रह्माऽष्टवार्षिकः ॥
आनीतः सोमराजेन सोमनाथः प्रतिष्ठितः ॥ ५४ ॥
एवं क्षेत्रे निवसतः प्रभासे बालरूपिणः ॥
परार्द्धमेकमगमद्द्वितीयं वर्ततेऽ धुना ॥ ५५ ॥
एवं महाप्रभावोऽसौ प्रभासक्षेत्रमध्यगः ॥
ब्रह्मा स्वयंभूर्भगवान्बालत्वात्क्षेत्रमाश्रितः ॥ ५६ ॥
स वै पूज्यो नमस्कार्यो वंदनीयो मनीषिभिः ॥
आदौ स एव पूज्यः स्यात्सम्यग्यात्राफलेप्सुभिः ॥ ५७ ॥
यस्तं पूजयते भक्त्या स मां पूजयते भुवम् ॥
यस्तं द्वेष्टि स मां द्वेष्टि योस्य पूज्यो ममैव सः ॥ ५८ ॥
ब्रह्मणा पूज्यमानेन अहं विष्णुश्च पूजितः ॥
विष्णुना पूज्यमानेन अहं ब्रह्मा च पूजितः ॥ ५९ ॥
मया पूजित मात्रेण ब्रह्मविष्णू च पूजितौ ॥
सत्त्वं ब्रह्मा रजो विष्णुस्तमोऽहं संप्रकीर्तितः ॥ 7.1.105.६० ॥
वायुर्ब्रह्माऽनलो रुद्रो विष्णुरापः प्रकीर्तितः ॥
रात्रिर्विष्णुरहो रुद्रो या संध्या स पितामहः ॥६१॥
सामवेदो ह्यहं देवि ब्रह्मा ऋग्वेद उच्यते ॥
यजुर्वेदो भवेद्विष्णुः कुलाधारो ह्यथर्वणः ॥ ६२॥
उष्णकालो ह्यहं देवि वर्षाकालः पितामहः ॥
शीतकालो भवेद्विष्णुरेवं कालत्रयं हि सः ॥ ६३ ॥
दक्षिणाग्निरहं ज्ञेयो गार्हपत्यो हरिः स्मृतः ॥
ब्रह्मा चाहवनीयस्तु एवं सर्वं त्रिदैवतम् ॥ ६४ ॥
अहं लिंगस्वरूपस्थो भगो विष्णुः प्रकीर्तितः ॥
बीजसंस्थो भवेद्ब्रह्मा विष्णुरापः प्रकीर्तितः ॥६५॥
अहमाकाशरूपस्थ एवं तत्त्वमयं प्रभुः ॥
आकाशात्स्रवते यच्च तद्बीजं ब्रह्मसंस्थितम् ॥
स्वरूपं ब्राह्ममाश्रित्य ब्रह्मा बीजप्ररोहकः॥६६॥
नाभिमध्ये स्थितो ब्रह्मा विष्णुश्च हृदयांतरे ॥
वक्त्रमध्ये अहं देवि आधारः सर्वदेहिनाम् ॥६७॥
यश्चाहं स स्वयं ब्रह्मा यो ब्रह्मा स हुताशनः ॥
या देवी स स्वयं विष्णुर्यो विष्णुः स च चन्द्रमाः ॥ ६८ ॥
यः कालः स स्वयं ब्रह्मा यो रुद्रः स च भास्करः ॥
एवं शक्तिविशेषेण परं ब्रह्म स्थितं प्रिये ॥ ६९ ॥
ॐकारस्तत्परं ब्रह्म गायत्री प्रकृतिः परा ॥
उभावेतौ नरो ज्ञात्वा न विच्यवति मुच्यते ॥7.1.105.७॥।
एवं यो वेद देवेशि अद्वैतं परमाक्षरम् ॥
स सर्वं वेद नैवान्यो भेदकर्त्ता नराधमः ॥ ७१ ॥
एकरूपं परं ब्रह्म कार्यभावात्पृथक्स्थितः ॥
यस्तं द्वेष्टि वरारोहे ब्रह्मद्वेष्टा स उच्यते ॥ ७२ ॥
दक्षिणांगे स्थितो ब्रह्मा वामांगे मम केशवः ॥
यस्तयोर्द्वेषमाधत्ते स द्वेष्टा मम भामिनि ॥ ७३ ॥
एवं ज्ञात्वा वरारोहे ह्यभिन्नेनान्तरात्मना ॥
ब्रह्माणं केशवं रुद्रमेकरूपेण पूज येत् ॥ ७४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां ब्रह्म माहात्म्यवर्णनंनाम पञ्चाधिकशततमोऽध्यायः ॥ १०५ ॥ ॥ ॥