स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १०४

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कोटीश्वरमनुत्तमम् ॥
तस्मादुत्तरतो देवि कोटीशमिति विश्रुतम् ॥ १ ॥
पापघ्नं सर्वजंतूनां पशुपाशविमोक्षदम् ॥
पुरा पाशुपता देवि कपालेश्वरसंनिधौ ॥ २ ॥
तपः कुर्वंति विपुलं भस्मोद्धूलितविग्रहाः ॥
जटामुकुटसंयुक्ता मुंजमेखलधारिणः ॥ ३ ॥
शांताः सर्वे जितक्रोधा ब्राह्मणाः शिवयोगिनः ॥
तपः कुर्वंति तत्रस्था व्याप्य क्षेत्रं चतुर्द्दिशम् ॥ ४ ॥
कोटिसंख्या महादेवि मन्त्रजाप्यपरायणाः ॥
सम्यक्संस्थाप्य ते लिंगं कपालेशसमीपगम् ॥ ५ ॥
ततस्ते पूजयांचक्रुस्तल्लिंगं भक्तिसंयुताः ॥
ततस्तुष्टो महादेवो मुक्तिं तेषां ददौ हरः ॥ ६ ॥
ऋषयः कोटिसंख्यातास्तस्मिन्सिद्धा यतः प्रिये ॥
तेन कोटीश्वरं लिंगं नाम्ना ख्यातं धरातले ॥ ७ ॥
यस्तं पूजयते भक्त्या कोटीश्वरमनामयम् ॥
स कोटिमन्त्रजाप्यस्य फलं प्राप्स्यति मानवः ॥ ८ ॥
हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
कोटिहोमफलं तस्य सम्यग्यात्राफलं भवेत् ॥ ९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटीश्वरमाहात्म्यवर्णनंनाम चतुरधिक शततमोऽध्यायः ॥ १०४ ॥