स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १०३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे कपालेश्वरमुत्तमम् ॥
तस्या उत्तरदिग्भागे सुरगंधर्वपूजितम्॥ ॥ १ ॥
पुरा यज्ञे वर्त्तमाने दक्षराजस्य धीमतः ॥
उपविष्टेषु विप्रेषु हूयमाने हुताशने ॥ २ ॥
जाल्मरूपधरो भूत्वा शंकरस्तत्र चागतः ॥ २७ ॥
जीर्णकंथान्वितो देवि मलवान्धूलिधूसरः ॥ ३ ॥
अथ ते ब्राह्मणाः क्रुद्धा दृष्ट्वा तं जाल्मरूपिणम् ॥
कपालधारिणं सर्वे धिक्छब्दैस्तं जगर्हिरे॥ ४ ॥
असकृत्पापपापेति गच्छगच्छ नराधम ॥
यज्ञवेदिर्न चार्हा हि मानुषास्थिधरस्य ते ॥ ५ ॥
अथ प्रहस्य भगवान्यज्ञवेद्यां सुरेश्वरि ॥
क्षिप्त्वा कपालं नष्टोऽसौ न स ज्ञातो मनीषिभिः ॥ ६ ॥
तस्मिन्नष्टे कपालं तत्क्षिप्तं मंडपबाह्यतः ॥
अथान्यत्तत्र संजातं तद्रूपं च वरानने ॥ ७ ॥
क्षिप्तंक्षिप्तं पुनस्तत्र जायते च महीतले ॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ॥ ८ ॥
तत्र क्षिप्तानि जातानि ततस्ते विस्मयान्विताः ॥
अथोचुर्मुनयः सर्वे निर्विण्णाश्चास्य चेष्टितम् ॥ ९ ॥
कोऽन्यो देवान्महादेवाद्गंगाक्षालितशेखरात् ॥
समर्थ ईदृशं कर्त्तुमस्मिन्यज्ञे विशेषतः ॥ 7.1.103.१० ॥
ततस्ते वि विधैः स्तोत्रैः स्तुवंतो वृषभध्वजम् ॥
होमं चक्रुर्मुहुर्वह्नौ मंत्रैस्तैः शतरुद्रियैः ॥ ११ ॥
ततः प्रत्यक्षतां प्राप्तस्तेषां देवो महेश्वरः ॥
ततस्ते विविधैः स्तोत्रैस्तुष्टुवुः शूलपाणिनम्॥
वेदोक्तमंत्रैर्विविधैः पुराणोक्तैस्तथैव च ॥ १२ ॥
॥ ऋषय ऊचुः ॥ ॥
ॐ नमो मूलप्रकृतये अजिताय महात्मने ॥
अनावृताय देवाय निःस्पृहाय नमोनमः ॥ १३ ॥
नम आद्याय बीजाय आर्षेयाय प्रवर्त्तिने ॥
अनंतराय चैकाय अव्यक्ताय नमोनमः ॥ ॥। १४ ॥
नानाविचित्रभुजगांगदभूषणाय सर्वेश्वराय विरजाय नमो वराय ॥
विश्वात्मने परमकारणकारणाय फुल्लारविंदविपुलायतलोचनाय ॥ ॥ १५ ॥
अदृश्यमव्यक्तमनादिमव्ययं यदक्षरं ब्रह्म वदंति सर्वगम् ॥
निशाम्य यं मृत्युमुखात्प्रमुच्यते तमादिदेवं शरणं प्रपद्ये ॥ १६ ॥
एवं स्तुतस्तदा सर्वैर्ऋषिभिर्गतकल्मषैः ॥
ततस्तुष्टो महादेवस्तेषां प्रत्यक्षतां गतः ॥
अब्रवीत्तानृषीन्देवो वृणुध्वं वरमुत्तमम् ॥ १७ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदि तुष्टोऽसि नो देव स्थानेऽस्मिन्निरतो भव ॥
असंख्यातानि यस्माच्च कपालानि सुरेश्वर ॥ १८ ॥
पुनः पुनः प्रवृत्तानि व्यपनीतान्यपि प्रभो ॥
अस्मिन्नसंशयं स्थाने कपालेश्वरनामभृत्॥ १९ ॥
स्वयं तु लिंगं देवेश तिष्ठेन्मन्वंतरांतरम् ॥
कपालेश्वरनाम्ना त्वमस्मिन्स्थाने स्थितिं कुरु॥ 7.1.103.२० ॥
येत्र त्वां पूजयिष्यंति धूपमाल्यानुलेपनैः ॥
तेषां तु परमं स्थानं यद्देवैरपि दुर्लभम् ॥ २१ ॥
बाढमित्येवमुक्त्वाऽसौ स्थित स्तत्रमहेश्वरः ॥
पुनः प्रवर्तितो यज्ञो निशानाथस्य भामिनि ॥ २२ ॥
तस्मिन्दृष्टे लभेन्मर्त्यो वाजिमेधफलं प्रिये ॥
मुच्यते पातकैः सर्वैः पूर्व जन्मार्ज्जितैरपि ॥ २३ ॥
इदं माहात्म्यमखिलमभूत्स्वायंभुवांतरे ॥
वैवस्वते पुनश्चान्यद्दक्षयज्ञविनाशकृत् ॥ २४ ॥
कपालीति महेशानो दक्षेणोक्तः पुरा हरः ॥
तेन यज्ञस्य विध्वंसं कपाली तमथाकरोत् ॥
कपालेश्वरनामेति स्थितोस्मिन्मानवान्तरे ॥ २५ ॥
अथास्य नाम देवस्य सूर्य सावर्णिकेंऽतरे ॥
भविष्यति वरारोहे नाम तत्त्वेश्वरेति च ॥ २६ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं रुद्रदैवतम्॥
पापघ्नं सर्वजंतूनां पशुपाशविमोक्षणम् ॥ २७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां कपालेश्वरमाहात्म्यवर्णनंनाम त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥