स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १०१
॥ ईश्वर उवाच ॥ ॥
एतस्मिन्नेव काले तु नारदो भगवानृषिः ॥
ब्रह्मणो मानसः पुत्रस्त्रिषु लोकेषु गर्वितः ॥ १ ॥
सर्वलोकचरः सोऽपि युवा देवनमस्कृतः ॥
तथा यदृच्छया चायमटमानः समंततः ॥ २ ॥
वासुदेवं स वै द्रष्टुं नित्यं द्वारवतीं पुरीम् ॥
आयाति ऋषिभिः सार्द्धं क्रोधेन ऋषि सत्तमः ॥ ३ ॥
अथाश्वागच्छतस्तस्य सर्वे यदुकुमारकाः ॥
ये प्रद्युम्नप्रभृतयस्ते च प्रह्वाननाः स्थिताः ॥ ४ ॥
अभावाच्चार्घ्यपाद्यानां पूजां चक्रुः समंततः ॥
सांबस्त्ववश्यभावित्वात्तस्य शापस्य कारणात् ॥ ५ ॥
अवज्ञां कुरुते नित्यं नारदस्य महात्मनः ॥
रतक्रीडा स वै नित्यं रूपयौवनगर्वितः ॥ ६ ॥
अविनीतं तु तं दृष्ट्वा चिन्तयामास नारदः ॥
अस्याहमविनीतस्य करिष्ये विनयं शुभम् ॥ ७ ॥
एवं स चिन्तयित्वातु वासुदेवमथाब्रवीत् ॥
इमाः षोडशसाहस्राः स्त्रियो या देवसत्तम ॥ ८ ॥
सर्वास्तासां सदा सांबे भावो देव समाश्रितः ॥
रूपेणाप्रतिमः सांबो लोकेऽस्मिन्सचराचरे ॥ ९ ॥
सदाऽर्हंति च तास्तस्य दर्शनं ह्यपि सत्स्त्रियः ॥
श्रुत्वैवं नारदाद्वाक्यं चिन्तयामास केशवः ॥7.1.101.१० ॥
यदेतन्नारदेनोक्तं सत्यमत्र तु किं भवेत् ॥
एवं च श्रूयते लोके चापल्यं स्त्रीषु विद्यते ॥
श्लोकाविमौ पुरा गीतौ चित्तज्ञैर्योषितां द्विजैः ॥ ११ ॥
पौंश्चल्यादतिचापल्यादज्ञानाच्च स्वभावतः ॥
रक्षिता यत्नतो ह्येता विकुर्वंति हि भर्तृषु ॥ १२ ॥
नैता रूपं परीक्षंते नाऽऽसां वयसि संश्रयः ॥
सुरूपं वा विरूपं वा पुमानित्येव भुंजते ॥ १३ ॥
॥ ईश्वर उवाच ॥ ॥
मनसा चिन्तयित्वैवं कृष्णो नारदमब्रवीत् ॥
नह्यहं श्रद्दधाम्येतद्यदेतद्भाषितं पुरा ॥ १४ ॥
ब्रुवाणमेवं देवं तु नारदः प्रत्युवाच ह ॥
तथाहं तु करिष्यामि यथा श्रद्धास्यते भवान् ॥ १५ ॥
एवमुक्त्वा ययौ भूयो नारदस्तु यथागतम् ॥
ततः कतिपयाहस्य द्वारकां पुनरभ्यगात् ॥ १६ ॥
तस्मिन्नहनि देवोऽपि सहांतःपौरकैर्जनैः ॥
अनुभूय जलक्रीडां पानमासेवते रहः ॥ १७ ॥
रम्ये रैवतकोद्याने नानाद्रुमविभूषिते ॥
सर्वर्तुकुसुमैर्नित्यं वासिते सर्वकामने ॥ १८ ॥
नानाजलजफुल्लाभिर्दीर्घिका भिरलंकृते ॥
हंससारससंघुष्टे चक्रवाकोपशोभिते ॥१९ ॥
तस्मिन्स रमते देवः स्त्रीभिः परिवृतस्तदा ॥
हारनूपुरकेयूररसनाद्यैर्विभूषणैः ॥ 7.1.101.२० ॥
भूषितानां वरस्त्रीणां सर्वांगीणां विशेषतः ॥
तत्रस्थः पिबते पानं शुभगन्धान्वितं शुभम् ॥ २१ ॥
एतस्मिन्नंतरे बुद्ध्वा मद्यमत्तास्ततः स्त्रियः ॥
उवाच नारदः सांबमस्मिंस्तिष्ठ कुमारक ॥ २२ ॥
त्वां समाह्वयते देवो न युक्तं स्थातुमत्र ते ॥
तद्वाक्यार्थमबुद्ध्वैव नारदेनाथ नोदितः ॥ २३ ॥
गत्वा तु सत्वरं सांबः प्रणाममकरोत्पितुः ॥
निर्द्दिष्टमासनं भेजे यथाभावेन विष्णुना ॥ २४ ॥
एतस्मिन्नंतरे तत्र यास्तु वै चाल्पसात्त्विकाः ॥
ता दृष्ट्वा सहसा सांबं सर्वाश्चुक्षुभिरे स्त्रियः ॥ २५ ॥
न स दृष्टः पुरा याभिरंतःपुरनिवासिभिः ॥
मद्यदोषात्ततस्तासां स्मृतिलोपात्तथा बहु ॥२६ ॥
स्वभावतोऽल्पसत्त्वानां जघनानि विसुस्रुवुः ॥
श्रूयते चाप्ययं श्लोकः पुराणप्रथितः क्षितौ ॥ २७ ॥
ब्रह्मचर्येऽपि वर्त्तंत्या योगिन्या वा प्रमादतः ॥
प्रकृष्टं पुरुषं दृष्ट्वा वरांगं क्लिद्यते स्त्रियाः ॥ २७ ॥
लोकेऽपि दृश्यते ह्येतन्मद्यस्याप्यथ सेवनात् ॥
लज्जां मुंचंति निःशंका ह्रीमत्यो ह्यपि च स्त्रियः ॥ २९ ॥
समांसैर्भोजनैः स्निग्धैः पानैः सीधुसुरासवैः ॥
गंधैर्मनोज्ञैर्वस्त्रैश्च कामः स्त्रीषु विजृंभति ॥ 7.1.101.३० ॥
मद्यं न देयमत्यर्थं पुरुषेण विपश्चिता ॥
मदोन्मत्ताः स्वभावेन पूर्वं संति यतः स्त्रियः ॥ ३१ ॥
नारदोऽप्यथ तं सांबं प्रेषयित्वा त्वरान्वितः ॥
आजगामाथ तत्रैव सांबस्यानुपदेन तु ॥ ३२ ॥
आयांतं ताः स्वयं दृष्ट्वा प्रियसौमनसं मुनिम्॥
सहसैवोत्थिताः सर्वा मदोन्मत्ता अपि स्त्रियः ॥ ३३ ॥
तासामथोत्थितानां तु वासुदेवस्य पश्यतः ॥
भित्त्वा वासांस्यनर्घाणि पात्रेषु पतितानि तु ॥३४॥
जघनेषु विलग्नानि तानि पेतुः पृथक्पृथक् ॥
तद्दृष्ट्वा तु हरिः कुद्धस्ताः शशाप ततोऽबलाः ॥ ३५ ॥
यस्माद्गतानि चेतांसि मां मुक्त्वाऽन्यत्र वः स्त्रियः ॥
तस्मात्पतिकृताँल्लोकानायुषोंऽते न यास्यथ ॥ ॥ ३६ ॥
पतिलोकात्परिभ्रष्टाः स्वर्गमार्गात्तथैव च ॥
भूत्वा ह्यशरणा भूयो दस्युहस्तं गमिष्यथ ॥ ३७ ॥
शापदोषात्ततस्तस्मात्ताः स्त्रियो गां गते हरौ ॥
हृताः पांचनदैश्चौरैरर्जुनस्य प्रपश्यतः ॥ ३८ ॥
अल्पसत्त्वाश्च याश्चासंस्ता गता दूषणं स्त्रियः ॥
रुक्मिणी सत्यभामा च तथा जांबवती प्रिये ॥ ३९ ॥
न प्राप्ता दस्युहस्तं ताः स्वेन सत्त्वेन रक्षिताः ॥
शप्त्वैवं ताः स्त्रियः कृष्णः सांबमप्यशपत्पुनः॥7.1.101.४०॥
यस्मादतीव ते कांतं दृष्ट्वा रूपमिमाः स्त्रियः ॥
क्षुब्धाः सर्वा यतस्तस्मात्कुष्ठरोगमवाप्नुहि ॥ ४१ ॥
तस्य तद्वचनं श्रुत्वा सांबो लज्जासमन्वितः॥
उवाच प्रहसन्वाक्यं स स्मरन्नृषिसत्तमम् ॥ ४२ ॥
अनिमित्तमहं तात भावदोषविवर्जितः ॥
शप्तो न मेऽत्र वै कुद्धो दुर्वासा नान्यथा वदेत् ॥ ४३ ॥
एवमुक्त्वा ततः सांबः कृष्णं कमललोचनम् ॥
ततो वैराग्यसंयुक्तश्चिन्ताशोकपरायणः ॥ ४४ ॥
प्रभासक्षेत्रमगमत्सर्वपातकनाशनम् ॥
एवं तत्क्षेत्रमासाद्य तपस्तेपे सुदारुणम् ॥ ४५ ॥
प्रतिष्ठाप्य सहस्रांशुं देवं पापनिषूदनम् ॥
ततश्चाराधयामास परं नियममाश्रितः ॥ ४६ ॥
त्रिसंध्यं पूजयामास दिव्यगंधानुलेपनैः ॥
स्तोत्रेणानेन भक्त्या वै स्तौति नित्यं दिनाधिपम् ॥ ४७ ॥
॥ सांब उवाच ॥ ॥
नमस्त्रैलोक्यदीपाय नमस्ते तिमिरापह ॥
नमः पंकजनाथाय नमः कुमुदशत्रवे ॥ ४८ ॥
नमो जगत्प्रतिष्ठाय जगद्धात्रे नमोऽस्तु ते ॥
देवदेव नमस्यामि सूर्यं त्रैलोक्यदीपकम् ॥ ४९ ॥
आदित्यवर्णो भुवनस्य गोप्ता अपूर्व एष प्रथमः सुराणाम् ॥
हिरण्यगर्भः पुरुषो महात्मा स पठ्यते वै तमसः परस्तात् ॥ 7.1.101.५० ॥
इति स्तुतस्तदा सूर्यः प्रसन्नेनांतरात्मना ॥
उवाच दर्शनं गत्वा सांबं जांबवतीसुतम् ॥ ५१ ॥
सांबसांब महावाहो शृणु गोविन्दनन्दने ॥
स्तोत्रेणानेन तुष्टोऽहं वरं ब्रूहि यदीप्सितम् ॥ ५२ ॥
॥ सांब उवाच ॥ ॥
कृष्णेनाहं सुरश्रेष्ठ शप्तः पापः सुदुर्मतिः ॥
कुष्ठांतं कुरु मे देव यदि तुष्टोऽसि मे प्रभो ॥ ५३ ॥
॥ श्रीभानुरुवाच ॥ ॥
भूय एव महाभाग नीरोगस्त्वं भविष्यसि ॥
यादृग्रूपः पुरा ह्यासीर्मम चैव प्रसादतः ॥ ५४ ॥
अद्य प्रभृति नेक्ष्यास्ता विष्णुभार्याः कथंचन ॥
न तासां दर्शने जातु स्थातव्यं यदुनन्दन ॥ ५५ ॥
तासामीर्ष्यापरीतेन विष्णुना प्रभविष्णुना ॥
कुष्ठं ते यादवश्रेष्ठ प्रदत्तं हि महात्मना ॥ ५६ ॥
यो मां स्तोत्रेण चानेन समागत्य च स्तोष्यति ॥
न तस्यान्वयसंभूतः कुष्ठी कश्चिद्भविष्यति ॥ ५७ ॥
अथादित्यस्य नामानि सम्यग्जानीहि द्वादश ॥
द्वादशैव तथान्यानि तानि वक्ष्याम्यशेषतः ॥ ५८ ॥
आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रतापनः ॥
मार्त्तंडो भास्करो भानुश्चित्रभानुर्द्दिवाकरः ॥ ५९ ॥
रविर्द्वादशनामैवं ज्ञेयः सामान्यनामभिः ॥
विष्णुर्धाता भगः पूषा मित्रोंऽशुर्वरुणो ऽर्यमा ॥ 7.1.101.६० ॥
इन्द्रो विवस्वांस्त्वष्टा च पर्जन्यो द्वादशः स्मृतः ॥
इति ते द्वादशादित्याः पृथक्त्वेन प्रकीर्तिताः ॥ ६१ ॥
उत्तिष्ठंति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥
विष्णुस्तपति वै चैत्रे वैशाखे चार्यमा सदा ॥ ६२ ॥
विवस्वाञ्ज्येष्ठमासे तु आषाढे चांशुमांस्तथा ॥
पर्ज्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञिके ॥ ६३ ॥
इन्द्रश्चाश्वयुजे मासि धाता तपति कार्तिके ॥
मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः ॥ ६४ ॥
माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥
शतैर्द्वादशभिर्विष्णू रश्मीनां दीप्यते सदा ॥ ६५ ॥
दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा ॥
द्विसप्तकैर्विवस्वांस्तु अंशुमान्पञ्चकैस्त्रिभिः ॥ ६६ ॥
विवस्वानिव पर्जन्यो वरुणश्चार्यमा इव ॥
इन्द्रस्तु द्विगुणैः षड्भिर्भात्येकादशभिः शतैः ॥ ६७ ॥
मित्रवच्च भगस्त्वष्टा सहस्रेण शतेन च ॥
उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयः सदा ॥
दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः ॥ ६८ ॥
एवं द्वादश मूर्तिस्थः प्रभासक्षेत्रमध्यतः ॥
सांबादित्येति विख्यातः स्थास्ये मन्वन्तरान्तरे ॥ ६९ ॥
माघस्य शुक्लपक्षे तु पञ्चम्यां यादवोत्तम ॥
एकभक्तं सदा ख्यातं षष्ठ्यां नक्तमुदाहृतम् ॥ 7.1.101.७० ॥
सप्तम्यामुपवासं तु कृत्वा सांबार्कसंनिधौ ॥
रक्तचन्दनमिश्रैस्तु करवीरैर्महाव्रतः ॥ ७१ ॥
दत्त्वा कुन्दरकं धूपं पूजयेद्भास्करं बुधः ॥
ब्राह्मणान्दिव्यभोज्येन भोजयित्वाऽपि शक्तितः ॥ ७२ ॥
एवं यः कुरुते सम्यक्सांबादित्यस्य पूजनम् ॥।
सम्यक्छ्रद्धासमायुक्तः संप्राप्स्यत्यखिलं फलम् ॥ ७३ ॥
॥ ईश्वर उवाच ॥ ॥
एवमुक्त्वा सहस्रांशुस्तत्रैवांतरधीयत ॥
सांबोऽपि निर्जरो भूत्वा द्वारकां पुनरागमत् ॥ ७४ ॥
इत्येतत्कथितं देवि सांबादित्यमहोदयम् ॥
श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति ॥ ७५ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्यमाहात्म्यवर्णनंनामैकोत्तरशततमोऽध्यायः॥ १०१ ॥