स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०९९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि यत्र चक्रधरः स्थितः ॥
दंडपाणिश्च देवेशि यत्रैकस्थानसंस्थितः ॥ १ ॥
चंद्रेशात्पूर्वदिग्भागे । सोमेशादुत्तरेस्थितः) ॥
धनुषां पंचसंस्थाने गंधर्वेशात्समीपतः ॥ २ ॥
उमाया नैर्ऋते भागे ब्रह्मदेवर्षिसंस्थितः ॥
तस्योत्पत्तिं प्रवक्ष्यामि सर्वपातकनाशिनीम्॥३॥
पौंड्रको वासुदेवस्तु वाराणस्यां पुराऽभवत्॥
तेन श्रुतं पुराणं तु पठ्यमानं द्विजातिभिः॥४॥
कल्पादौ द्वापरांते तु क्षत्रियाणां निवेशने ॥
अवतारं महाबाहुवासुदेवः करिष्यति ॥ ५ ॥
स तु मूढमतिर्मेने अहं विष्णुरिति प्रिये ॥
चिह्नानि धारयामास चक्रादीनि वरानने ॥ ६ ॥
स दूतं प्रेषयामास द्वारकायां महोदरम् ॥
स गत्वा प्राह विष्णुं वै चक्रादीनि परित्यज ॥ ७ ॥
इत्याह पौंड्रको राजा नचेद्वधमवा प्स्यसि ॥
ततश्च भगवान्विष्णुः प्राहास्य रुचिरं वचः ॥ ८ ॥
वाच्यः स पौंड्रको राजा त्वया हंत वचो मम ॥
गृहीतचक्र एवाहं काशीमागम्य ते पुरीम् ॥ ९ ॥
संत्यक्ष्यामि ततश्चक्रं गदां चेमामसंशयम् ॥
तद्ग्राह्यं भवता चक्रमन्यद्वा यत्तवेप्सितम् ॥ 7.1.99.१० ॥
इत्युक्तेऽथ गते दूते संस्मृत्याऽभ्या गतं हरिः ॥
गरुत्मन्तं समारुह्य त्वरितस्तत्पुरं ययौ ॥ ११ ॥
मित्रस्नेहात्ततस्तस्य काशिराजः सहानुगः ॥
सर्वसैन्यपरीवारस्ततः पौंड्रमुपाययौ ॥ १२ ॥
ततो बलेन महता काशिराजबलेन च ॥
पौंड्रको वासुदेवोऽसौ केशवाभिमुखो ययौ ॥ १३॥
तं ददर्श हरिर्दूराद्दुर्वारे स्यंदने स्थितम् ॥
चक्रहस्तं गदाशार्ङ्गसंयुतं गरुडध्वजम् ॥ १४ ॥
तं दृष्ट्वा भावगंभीरं जहास गरुडध्वजः ॥
उवाच पौंड्रकं मूढमात्मचिह्नोपलक्षितम् ॥ १५ ॥
पौंड्रकोक्तं त्वया यत्तु दूतवक्त्रेण मां प्रति ॥
समुत्सृजेति चिह्नानि तच्च सर्वं त्यजाम्यहम् ॥ १६ ॥
चक्रमेतत्समुत्सृष्टं गदेयं च विस र्जिता ॥
गरुत्मानेष ते गत्वा समारोहतु वै ध्वजम् ॥ १७ ॥
इत्युच्चार्य विमुक्तेन चक्रेणासौ निपातितः ॥
रथश्च गदया भग्नो गजाश्चा श्वाश्च चूर्णिताः ॥ १८ ॥
ततो हाहाकृते लोके काशिनाथो महाबली ॥
युयुधे वासुदेवेन मित्रदुःखेन दुःखितः ॥ १९ ॥
ततः शार्ङ्गविनिर्मुक्तैश्छित्त्वा तस्य शरैः शिरः ॥
काशीपुर्यां स चिक्षेप कुर्वँल्लोकस्य विस्मयम् ॥ 7.1.99.२० ॥
हत्वा तु पौंड्रकं शौरिः काशिराजं च सानु गम् ॥
पुनर्द्वारवतीं प्राप्तो मृगयाया गतो यथा ॥ २१ ॥
ततः काशिपतेः पुत्रः पितुर्दुःखेन दुःखितः ॥
शंकरं तोषयामास स च तस्मै वरं ददौ ॥ २२ ॥
स वव्रे भगवन्कृत्या पितुर्हंतुर्वधाय मे ॥
समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादात्सुरेश्वर ॥ २३ ॥
एवं भविष्यतीत्युक्ते दक्षिणाग्नेस्तु मध्यतः ॥
महाकृत्या समुत्तस्थौ प्रस्थिता द्वारकां प्रति ॥ २४ ॥
ज्वालामालाकरालां तां यादवा भयविह्वलाः ॥
दृष्ट्वा जनार्द्दनं सर्वे शरणार्थमुपागताः ॥ २५ ॥
ततः सुदर्शनं तस्या मुमोच गरुडध्वजः ॥
वधाय सा ततो भग्ना चक्रतेजोऽभिपीडिता ॥ २६ ॥
कृत्यामनुजगामाशु विष्णोश्चक्रं सुदर्शनम् ॥
कृत्या वाराणसीं प्राप्ता तस्याश्चक्रं तु पृष्ठतः ॥ २७ ॥
ततः सा भयसंत्रस्ता शंकरं शरणं गता ॥
सोमनाथं जगन्नाथं नान्यः शक्तो हि रक्षितुम् ॥ २८ ॥
ततश्चक्रं वरैर्बाणैस्ताडयामास शंकरः ॥
तच्च द्वारवतीं प्राप्तं शिवसायकमिश्रितम् ॥ २९ ॥
तद्दृष्ट्वा शिवनामांकैस्ताडितं भगवान्हरिः ॥
चक्रं शरैस्ततः कुद्धो गृहीत्वा च करेण तत् ॥
जगाम तत्र यत्रास्ते सोमेशः कालभैरवः ॥ 7.1.99.३०
स गत्वा रोष ताम्राक्षश्चक्रोद्यतकरः स्थितः ॥
कृत्यां हंतुं मतिं चक्रे कालभैरवनिर्मिताम् ॥ ३१ ॥
दृष्टो देवैस्ततः सर्वैदंडपाणिगणेन च ॥
देवानां प्रेक्षतां तत्र दण्डपाणिर्महागणः ॥
चक्रोद्यतकरं दृष्ट्वा विष्णुं प्राहाब्जलोचनम् ॥ ३२ ॥
॥ दंडपाणिरुवाच ॥ ॥
मा क्रोधं कुरु देवेश कृत्यां प्रति जगत्प्रभो ॥ ३३ ॥
अमोघं युधि ते चक्रं कृत्या चापि च शांकरी ॥
एवं चक्र विनिर्मुक्ते भवेत्कोधो हरे यदि ॥
भविष्यति महद्दुःखं लोकानां संक्षयो हि वा ॥ ३४ ॥
न मोक्तव्यमतश्चक्र शृणु भूयो वचश्च नः ॥
अत्र स्थाने नियुक्तोऽहं शंकरेण पुरा हरे ॥ ३५॥
पापिनां रक्षणार्थं वै विघ्नार्थं दुष्टचेतसाम्॥
तस्मात्त्वं मम सांनिध्ये तिष्ठ चक्रधरो हरे ॥३६ ॥
अत्र चक्रधरं देवं पूजयिष्यंति मानवाः ॥
धूपमाल्योपहारैश्च नैवेद्यैर्विवि धैरपि ॥ ३७ ॥
॥ विष्णुरुवाच ॥ ॥
एष एव निवृत्तोहं तव वाक्यांकुशेन वै ॥
अत्र चक्रोद्यतकरः स्थास्ये तव समीपतः ॥ ३८ ॥
एवं हि स्थितोदेवस्तत्र चक्रधरः प्रिये ॥
दंडपाणिश्च भगवान्मम रूपी गणेश्वरः ॥ ३९ ॥
यस्तौ पूजयते भक्त्या दंडपाणिहरी क्रमात् ॥
स पाप कंचुकैर्मुक्तो गच्छेच्छिवपुरं नरः ॥ 7.1.99.४० ॥
माघे मासि चतुर्द्दश्यां कृष्णाष्टम्यां विशेषतः ॥
गंधधूपोपहारैर्यः पूजयेद्दण्डनायकम् ॥
तस्य क्षेत्रे निवसतो न विघ्नं जायते क्वचित् ॥ ४१ ॥
एकादश्यां जिताहारो योऽर्चयेच्चक्रपाणिनम् ॥
स मुक्तः पातकैः सर्वैर्याति विष्णोः सलोकताम् ॥ ४२ ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं चक्रपाणिनः ॥
दण्डपाणिगणस्यापि श्रुतं पापौघनाशनम् ॥ ४३ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां दण्डपाणिचक्रधरमाहात्म्यवर्णनंनामेकोनशततमोऽध्यायः ॥९९॥ ॥ छ ॥ ॥ ॥