स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०९७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि योगेश्वरमिति श्रुतम् ॥
कामेशाद्वायवे भागे धनुषां सप्तके स्थितम् ॥ १ ॥
लिंगं महाप्रभावं हि दर्शनात्पापनाशनम्॥
पूर्वे युगे तु संख्यातं गणेश्वरमिति श्रुतम्॥ २ ॥
पुरा मम गणा देवि असंख्याता महावलाः ॥
क्षेत्रं माहेश्वरं ज्ञात्वा प्रभासं समुपागमन् ॥ ३ ॥
तत्रस्थाश्च तपो घोरं तेपुस्ते योगमाश्रिताः ॥
दिव्याब्दानां सहस्रं तु ततस्तुष्टो महेश्वरः ॥ ४ ॥
सालोक्यां च ददौ मुक्तिं तेषां योगबलेन ३ ॥
यस्मा त्षडंगयोगेन तेषां तुष्टो वृषध्वजः ॥
तेन योगेश्वरं नाम लिंगं योगफलप्रदम् ॥ ५ ॥
यस्तमर्चयते भक्त्या सम्यक्पूजाविधानतः ॥
स योगसिद्धिमाप्नोति मोदते दिवि देववत् ॥ ६ ॥
यो दद्यात्कांचनं मेरुं कृत्स्नां चैव वसुन्धराम् ॥
योगेशं पूजयेद्यस्तु स तयोरधिकः स्मृतः ॥ ७ ॥
वृषभस्तत्र दातव्यः संपूर्णफलहेतवे ॥
एवमेकादश प्रोक्ता रुद्राः प्राभासमाश्रिताः ॥
नित्यं पूज्याश्च वंद्याश्च क्षेत्रस्य फलमीप्सुभिः ॥ ८ ॥
य एतां चैव शृणुयाद्रुद्रैकादशसंहिताम् ॥
तस्य क्षेत्रफलं सर्वं प्रभासांतरवासिनः ॥ ९ ॥
यश्चैतान्नैव जानाति रुद्रान्प्राभासमाश्रितान् ॥
स क्षेत्रमध्यसंस्थोऽपि नास्त्येव स पशुः स्मृतः ॥ 7.1.97.१० ॥
एतेषां चैव रुद्राणां सर्वान्वाप्येकमेव वा ॥
सोमेश्वरं पूजयित्वा जपेद्वै शतरुद्रियम् ॥
सर्वेषां लभते पुण्यं रुद्राणां नात्र संशयः ॥ ११ ॥
इदं रहस्यं संख्यातं माहात्म्यं तव भामिनि ॥
रुद्राणां पापशमनं श्रुतं पुण्यविवर्द्धनम् ॥ १२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये योगेश्वरमाहात्म्यवर्णनंनाम सप्तनवतितमोऽध्यायः ॥ ॥ ९७ ॥