स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०९६

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततोगच्छेन्महादेवि कामेश्वरमिति स्मृतम् ॥
तस्यैवोत्तरदिग्भागे धनुषां त्रितये स्थितम् ॥
रतीश्वरमिति ख्यातं त्रेतायां तत्सुरे श्वरि ॥ १ ॥
यस्मिन्दृष्टे मनुष्याणां पूजिते तु वरानने ॥
नश्येच्च सप्तजन्माघं गृहभंगश्च नो भवेत् ॥ २ ॥
॥ देव्युवाच ॥ ॥
केनायं स्थापितो देव कस्मात्प्रोक्तो रतीश्वरः ॥
दर्शनेनास्य किं श्रेयः सर्वं विस्तरतो वद ॥ ३ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
रतिर्नामाभवत्साध्वी कामपत्नी यशस्विनी ॥४॥
दग्धे मनसिजे पूर्वं देवेन त्रिपुरारिणा॥
तदर्थाय तपस्तेपे तस्मिन्देशे रतिः किल ॥५॥
अंगुष्ठाग्रेण तिष्ठन्त्या यावद्युगचतुष्टयम् ॥
आराधितो महादेवः शांतेन मनसा प्रिये ॥ ६ ॥
कस्मिंश्चिदथ काले तु निर्भिद्य धरणीतलम् ॥
तदग्रतः समुत्तस्थौ लिगं माहेश्वरं प्रिये ॥ ७ ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
आह्लादयंती सहसा तस्याश्चित्तं वरानने ॥ ८ ॥
यस्मान्माहेश्वरं लिंगं त्वद्भक्त्या सहसोत्थितम् ॥
पूजयेस्तन्महाभागे ततः कांतमवाप्स्यसि ॥९॥
एतच्छुत्वा तु सा साध्वी देवदूतस्य भाषितम्॥
तल्लिंगं पूजयामास स भक्त्या परमया युता ॥ 7.1.96.१० ॥
ततः कामः समुत्तस्थौ सुप्तोत्थित इव प्रिये ॥
ततः प्रभृति तल्लिंगं कामेश्वरमिति श्रुतम् ॥ ११ ॥
ततः सा कामदयिता वाक्यमेतदुवाच ह ॥
प्रहृष्टा कामदेवाप्त्या पुरतः पुष्पधन्वनः ॥ १२ ॥
पूजयिष्यंति ये चान्ये लिंगमेतत्समाहिताः ॥
एवं ते वांछितां सिद्धिं भूयो यास्यंति सद्गतिम्॥ १३ ॥
मनोऽभीष्टं तथा सर्वं यद्यपि स्यात्सदुर्ल्लभम् ॥
तत्प्राप्स्यंति न संदेहो लिंगस्यास्य प्रसादतः ॥ ॥ १४ ॥
एवमुक्त्वा गता साध्वी रतिः कामेन संयुता ॥
स्वस्थाने पूर्णकामा सा प्रहृष्टेनांतरात्मना ॥ १५ ॥
एनं चैत्रत्रयोदश्यां शुक्लायां यः समर्चति ॥
सकामवद्भवेन्नृणां श्रुतं सौभाग्यदायकम् ॥ १६ ॥
हृति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये कामेश्वरमाहात्म्यवर्णनंनाम षण्णवतितमोऽध्यायः ॥ ९६ ॥