स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०९३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे महाकालेश्वरं हरम् ॥
अघोरेशादुत्तरतः किंचिद्वायव्यसंस्थितम् ॥ १ ॥
धनुषां त्रिंशता देवि श्रुतं पातकनाशनम् ॥
पूर्वं कृतयुगे देवि स्मृतं चित्रांगदेश्वरम्॥ २ ॥
महाकालेश्वरं देवि कलौ नाम प्रकीर्तितम् ॥
कालरूपी महारुद्रस्तस्मिँल्लिंगे व्यवस्थितः ॥ ३ ॥
चराचरगुरुः साक्षाद्देवदानवदर्पहा ॥
सूर्यरूपेण यत्सर्वं ब्रह्मांडे ग्रसते प्रिये ॥ ४ ॥
स देवः संस्थितो देवि तस्मिँल्लिंगे महाप्रभः ॥
यस्तत्पूजयते भक्त्या कल्ये लिंगं मम प्रियम् ॥
षडक्षरेण मंत्रेण मृत्युं जयति तत्क्षणात् ॥ ५ ॥
कृष्णाष्टम्यां विशेषेण गुग्गुलं घृतसंयुतम् ॥
यो दहेद्विधिवत्तत्र पूजां कृत्वा निशागमे ॥ ६ ॥
अपराधसहस्रं तु क्षमते तस्य भैरवः ॥
धेनुदानं प्रशंसंति तस्मिन्स्थाने महर्षयः ॥ ७ ॥
धेनुदस्तारयेन्नूनं दश पूर्वान्दशापरान् ॥
देवस्य दक्षिणे भागे यो जपेच्छतरुद्रियम् ॥ ८ ॥
उद्धरेत्पितृवर्गं च मातृवर्गं च मानवः ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
क्षालयेच्चैव तत्सर्वं दृष्ट्वा कालेश्वरं हरम् ॥ ९ ॥
अयने चोत्तरे प्राप्ते यः कुर्याद्घृतकंबलम् ॥
न स भूयोऽत्र संसारे जन्म प्राप्नोति दारुणम् ॥ 7.1.93.१० ॥
न दुःखितो दरिद्रो वा दुर्भगो वा प्रजायते ॥
सप्तजन्मान्तराण्येव महाकालेशदर्शनात् ॥ ११ ॥
धनधान्यसमायुक्ते स्फीते सञ्जायते कुले ॥
भक्तिर्भवति भूयोऽपि महाकालेश्वरार्चने ॥ १२ ॥
इति संक्षेपतः प्रोक्तं महाकालेश्वरं प्रिये ॥
चित्रांगदो गणो देवि तेन चाराधितं पुरा ॥ १३ ॥
दिव्याब्दानां सहस्रं तु महा कालेश्वरं हि तत् ॥
चित्रांगदेश्वरं नाम तेन ख्यातं धरातले ॥ १४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये महाकालेश्वरमाहात्म्यवर्णनंनाम त्रिणवतितमोऽध्यायः ॥ ९३ ॥ ॥ ॥