स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०९२

विकिस्रोतः तः

॥ ईश्वर उवाच॥ ॥
ततो गच्छेन्महादेवि अघोरेश्वरमुत्तमम्॥
षष्ठं लिंगं समाख्यातं तद्वक्त्रं भैरवं स्मृतम्॥१॥
त्र्यंबकेश्वरवायव्ये धनुषां पंचके स्थितम्॥
सर्वकामप्रदं पुण्यं कलिकल्मषनाशनम्॥२।.
यस्तं पूजयते भक्त्या स्नानपूजादिभिः क्रमात्॥
मेरुदानस्य कृत्स्नस्य स लभेन्मनुजः फलम्॥३॥
दक्षिणामूर्तिमास्थाय यत्किंचित्तत्र दीयते॥
अघोरेश्वरदेवस्य तत्सर्वं चाक्षयं भवेत्॥४॥
यः श्राद्धं कुरुते तत्र अघोरेश्वरदक्षिणे॥
आकल्पं तृप्तिमायांति पितरस्तस्य तर्पिताः ॥ ५॥
किं श्राद्धेन गयातीर्थे वाजिमेधेन किं प्रिये ॥
तत्र श्राद्धेन तत्सर्वं फलमभ्यधिकं लभेत् ॥ ६ ॥
त्रुटिमात्रमपि स्वर्णं यात्रायां यः प्रयच्छति ॥
स सर्वं फलमाप्नोति महादानस्य भूरिशः ॥ ७ ॥
ब्रह्मकूर्चं चरेद्यस्तु सोमाष्टम्यां विधानतः ॥
अघोरेश्वरसांनिध्ये अघोरेणाभिमंत्रितम् ॥
षडब्दस्य महत्तेन प्रायश्चित्तं कृतं भवेत् ॥ ८ ॥
इति संक्षेपतः प्रोक्तमघोरेशमहोदयम् ॥
माहात्म्यं सर्वपापघ्नं श्रुतं सर्वार्थसाधकम् ॥ ९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादश रुद्रमाहात्म्येऽघोरेश्वरमाहात्म्यवर्णनंनाम द्विनवतितमोऽध्यायः ॥ ९२ ॥