स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०९१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि त्र्यंबकेश्वरमव्ययम् ॥
तत्पंचमं समाख्यातं रुद्राणामादिदैवतम् ॥ १ ॥
शिखंडीश्वरमाख्यातं पूर्वं त्रेतायुगे प्रिये ॥
तच्चाद्याहं प्रवक्ष्यामि यथा संज्ञायते नरैः ॥२॥
अस्ति सांबपुरं देवि तत्रस्थं परमेश्वरि ॥
तस्यैवोत्तरदिग्भागे स्थानं कापालिकं स्मृतम् ॥ ३ ॥
कपालेश्वरनामा च यत्रेशो लिंगमूर्तिमान् ॥
संस्थितः पापनाशाय दर्शनात्स्पर्शनान्नृणाम् ॥ ४ ॥
तस्मादीशानदिग्भागे धनुषां षोडशांतरे ॥
त्र्यंबकेश्वरनामा च तत्र रुद्रः स्थितः स्वयम् ॥ ॥ ५ ॥
सर्वानुग्रहकर्त्ता च सर्वकामफलप्रदः ॥
पुरा यत्रातपद्देवि तपो घोरं सुदुष्करम् ॥
गुरुर्नामा ऋषिवरो देवदानवदुःसहम् ॥ ६ ॥
कोटीनां त्रितयं येन त्र्यंबको मंत्रनायकः ॥
जप्तो दिव्येन विधिना त्रिकालं पूज्य शंकरम् ॥ ७ ॥
ततः प्रसाद्य देवेशं दिव्यैश्वर्यमवाप सः ॥
चक्रे नाम स्वयं तस्य त्र्यंबकेश्वरमव्ययम् ॥ ८ ॥
जप्त्वा तु त्र्यंबकं मंत्रं यतः सिद्धिमवाप सः ॥
दिव्याष्टगुणमैश्वर्यं तेनासौ त्र्यंबकेश्वरः ॥ ९ ॥
सर्वपातक विध्वंसी दर्शनात्स्पर्शनादपि ॥
यस्त्र्यंबकं जपेद्विप्रस्त्र्यंबकेश्वरसंनिधौ ॥
स प्राप्नोति महासिद्धिं प्रत्यक्षं रुद्र एव सः ॥7.1.91.१०॥
दर्शनादपि तस्याथ पापं याति सहस्रधा ॥
यस्तं पूजयते भक्त्या विधिना भावमास्थितः ॥
वामदेवेन मंत्रेण स मुक्तः पातकैर्भवेत् ॥ ११ ॥
चैत्रशुक्लचतुर्दश्यां तत्र यो जागृयान्निशि ॥
पूजास्तुतिकथाभिश्च स प्राप्नोतीप्सितं फलम् ॥ १२ ॥
धेनुस्तत्रैव दातव्या सम्यग्यात्राफलेप्सुभिः ॥ १३॥
इति ते कथितं देवि माहात्म्यं पापनाशनम् ॥
त्र्यंबकेश्वररुद्रस्य नृणां पुण्यफलप्रदम् ॥ १४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये त्र्यंबकेश्वरमाहात्म्यवर्णनंनामैकोनवतितमोऽध्यायः ॥ ९१ ॥