स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०९०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चतुर्थं रुद्रमुत्तमम् ॥
वृषभेश्वरनामानं कल्पलिंगं सुरप्रियम् ॥ १ ॥
बालरूपी महादेवि यत्र ब्रह्मा स्वयं स्थितः ॥
तस्यैव चोत्तरे भागे धनुषां त्रितये स्थितम् ॥ २ ॥
आद्यं महाप्रभावं हि नापुण्यो वेद मानवः ॥
तस्यैव कल्पनामानि सांप्रतं प्रब्रवीमि ते ॥ ३॥
पूर्वकल्पे महादेवि ब्रह्मेश्वर इति स्मृतः ॥
ब्रह्मणाराधितः पूर्वं वर्षाणामयुतं प्रिये ॥ ४ ॥
सृष्टिकामेन देवेन ततस्तुष्टो महेश्वरः ॥
चतुर्विधां भूतसृष्टिं ततश्चक्रे पितामहः ॥ ५ ॥
ब्रह्मणस्त्वीशभावेन गतस्तुष्टिं यतो हरः ॥
तेन ब्रह्मेश्वरं नाम तस्मिँल्लिंगे पुराऽभवत् ॥ ६ ॥
ततो द्वितीयकल्पे तु संप्राप्ते वरवर्णिनि ॥
रैवतेश्वरनामेति प्रख्यातं धरणीतले ॥७॥
रैवतो नाम राजाऽभूद्ब्रह्मांडे सचराचरे ॥
जगद्योनिर्जिगायेदं तल्लिंगस्य प्रभावतः ॥ ८ ॥
रैवतेश्वरनामाभूत्तेन लिंगं महाप्रभम् ॥
पुनस्तृतीयकल्पे तु संप्राप्ते वरवर्णिनि॥९ ॥
वृषभेश्वरनामाभूत्तस्य लिंगस्य भामिनि ॥
ममैव वाहनं योऽसौ धर्मोयं वृषरूपधृक् ॥ 7.1.90.१० ॥
तेन तत्पूजितं लिंगं दिव्याब्दानां सहस्रकम्॥
ततस्तुष्टेन देवेशि नीतः सायुज्यतां वृषः ॥ ११ ॥
तेन तल्लिंगमभवद्वृषभेशेति भूतले ॥
ततश्चतुर्थे संप्राप्ते वाराहेकल्प संज्ञिते ॥ १२ ॥
अष्टाविंशतिमे तत्र त्रेतायुगमुखे तदा ॥
इक्ष्वाकुर्नाम राजाऽभूत्सूर्यवंशविभूषणः ॥ १३ ॥
स लिंगं पूजयामास त्रिकालं भक्तिभावितः ॥
एकाहारो जिताहारो भूभिशायी जितेंद्रियः ॥ १४ ॥
एवं काले बहुविधे ततस्तुष्टो महेश्वरः ॥
ददौ राज्यं महोदग्रं संततिं पुत्र पौत्रिकीम्॥ १५ ॥
इक्ष्वाक्वीश्वरनामाभूत्तेनेदं लिंगमुत्तमम् ॥
यस्तं पूजयते भक्त्या देवं वृषभवाहनम् ॥ .१६ ॥
सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः ॥
त्रिंशद्धनुष्प्रमाणेन तस्य क्षेत्रचतुर्द्दिशम्॥ १७॥
स्नानं जाप्यं बलिं होमं पूजां स्तोत्रमुदीरणम् ॥
तस्मिंस्तीर्थे तु यः कुर्यात्तत्सर्वं चाक्षयं भवेत् ॥ १८ ॥
चतुष्कोणांतरा क्षेत्रमेवं मात्राप्रमाणतः ॥
एकरात्रोषितो भूत्वा तस्य लिंगस्य सन्निधौ ॥ १९ ॥
ब्रह्मचर्येण जागर्त्ति स पापैः संप्रमुच्यते ॥
होमजाप्यसमाधिस्थो नृत्यगीतादिवादनैः ॥ 7.1.90.२० ॥
गोघ्नो वा ब्रह्महा पापी मुच्यते दुष्कृतैर्नरः ॥
यः संप्रीणयते विप्रांस्तत्र भोज्यैः पृथग्विधैः ॥ २१ ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥
भैरवं चैव केदारं पुष्करं द्रुतिजंगमम् ॥ २२ ॥
वाराणसी कुरुक्षेत्रं महा कालं च नैमिषम् ॥
एतत्तीर्थाष्टकं देवि तस्मिँल्लिंगे व्यवस्थितम् ॥ २३ ॥
माघे कृष्णचतुर्द्दश्यां तत्र यो जागृयान्निशि ॥
संपूज्य विधिना देवं स तीर्थाष्टफलं लभेत् ॥ २४ ॥
ददाति तत्र यः पिण्डं नष्टेन्दौ शिवसंनिधौ ॥
तृप्यन्ति पितरस्तस्य यावद्ब्रह्मदिनान्तकम् ॥ २५ ॥
दधिक्षीर घृतेनैव पंचगव्यकुशोदकैः ॥
कुंकुमागरुकर्पूरैस्तल्लिगं पूजयेन्निशि ॥ २६ ॥
संमंत्र्याघोरमंत्रेण ध्यात्वा देवं सदाशिवम् ॥
एवं कृत्वा महादेवि मुच्यते पंचपातकैः ॥ २७ ॥
अष्टम्यां च चतुर्द्दश्यां दध्ना संस्नापयेद्यदि ॥
स ब्राह्मणश्चतुर्वेदो जायते नात्र संशयः ॥ २८ ॥
क्षीरेण स्नापयेद्देवि यदि तं वृषभेश्वरम् ॥
सप्तधेनुसहस्राणां स फलं विंदते महत् ॥ २९ ॥
जन्मांतरेण यत्पापं सांप्रतं यत्कृतं प्रिये ॥
तत्सर्वं नाशमायाति घृतस्नानेन भामिनि ॥ 7.1.90.३० ॥
पंचगव्येन यो देवि स्नापयेद्वृषभेश्वरम् ॥
स दहेत्सर्वपापानि सर्वयज्ञफलं लभेत् ॥ ३१ ॥
तद्दृष्ट्वा ब्रह्महा गोघ्नः स्तेयी च गुरुतल्पगः ॥
शरणागतघाती च मित्रविश्रंभघातकः ॥ ३२ ॥
दुष्टपापसमाचारो मातृहा पितृहा तथा ॥
मुच्यते सर्वपापैस्तु तल्लिंगाराधनोद्यतः ॥ ३३ ॥
कार्तिकं सकलं यस्तु पूजयेद्ब्रह्मणा सह ॥
ब्रह्मेश्वरं महालिंगं स मुक्तः पातकैर्भवेत् ॥ ३४ ॥
तेन दत्तं भवेत्सर्वं गुरवस्तेन तोषिताः ॥
श्राद्धं कृतं गयातीर्थे तेन तप्तं महत्तपः ॥
येन देवाधिदेवोऽसौपूजितो वृषभेश्वरः ॥ ३५ ॥
इति ते कथितं देवि माहात्म्यं देवपूजितम् ॥
वृषभेश्वरदेवस्य कल्पलिंगस्य भामिनि ॥ ३६ ॥
यः शृणोति महादेवि माहात्म्यं दैवदेवतम् ॥
मूर्खो वा पंडितो वाऽपि स याति परमां गतिम् ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये वृषवाहनेश्वरमाहाम्यवर्णनंनाम नवतितमोऽध्यायः ॥ ९० ॥