स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०८३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्य पूर्वेण संस्थिताम् ॥
योगेश्वरीं महादेवीं योगसिद्धिफलप्रदाम् ॥ १ ॥
तदुत्पत्तिं प्रवक्ष्यामि शृणु श्रद्धासमन्विता ॥
पुरा दानवशार्दूलो महिषाख्यो महाबलः ॥ २ ॥
बभूव प्रवरो देवि सर्वदेवभयंकरः ॥
कामरूपी स लोकांस्त्रीन्वशीकृत्वाऽभवत्सुखी ॥ ३ ॥
कस्मिंश्चिदथ काले तु ब्रह्मणा लोककारिणा ॥
सृष्टा मनोहरा कन्या रूपेणाप्रतिमा दिवि ॥ ४ ॥
अतपत्सा तपो घोरं कन्या रूपवती सती ॥
नारदेन ततो दृष्टा सा कदाचिद्वरानने ॥ ५ ॥
ततः स सहसा देवि विस्मयं परमं गतः ॥
अहो रूपमहो धैर्यमहो कान्तिरहो वयः ॥ ६ ॥
इत्येवं चिन्तयंस्तत्र नारीं वचनमब्रवीत् ॥
कुरुष्वात्मप्रदानं मे न मे दारपरिग्रहः ॥
तवाहं दर्शनाद्देवि कामवाणेन पीडितः ॥७॥
साऽब्रवीन्न हि मे कार्यं कामधर्मेण सत्तम॥
कौमारं व्रतमासाद्य साधयिष्ये यथेप्सितम् ]। ८ ॥
न च मन्युस्त्वया कार्यो ह्यस्मिन्नर्थे कथंचन ॥
तस्यास्तद्वचनं श्रुत्वा स मुनिर्नारदः प्रिये ॥ ॥ ९ ॥
समुद्रान्तेऽगमद्दिव्यां पुरीं महिषपालिताम् ॥
अर्चितो हि मुनिस्तेन महिषेण महात्मना ॥ 7.1.83.१० ॥
पृष्ट्वा ह्यनामयं देवि दत्त्वा चार्घ्यमनुत्तमम् ॥
सोऽब्रवीत्प्राञ्जलिर्भूत्वा किमागमनकारणम् ॥
ब्रूहि यत्ते ब्यवसितं सर्वं कर्त्तास्मि नारद॥११॥
अथोवाच मुनिस्तत्र महिषं दानवेश्वरम्॥
कन्यारत्नं समुत्पन्नं जंबूद्वीपे महासुर ॥१२ ॥
स्वर्गे मर्त्ये च पाताले न दृष्टं न च मे श्रुतम् ॥
तादृग्रूपमहं येन कामबाणवशीकृतः ॥ १३ ॥
स श्रुत्वा वचनं तस्य कामस्योत्पादनं परम्॥
जगाम यत्र सा साध्वी क्षेत्रे प्राभासिके स्थिता ॥ १४ ॥
तामेव प्रार्थयामास बलेन महता वृतः ॥
भार्या भव त्वं मे भीरु भुंक्ष्व भोगान्मनोरमान्॥
एतत्तपो महाभागे विरुद्धं यौवनस्य ते ॥ १५ ॥
तस्य तद्वचनं श्रुत्वा जहास वरवर्णिनी ॥
तस्या हसंत्या देवेशि शतशोऽथ सहस्रशः ॥ १६ ॥
निश्वासात्सहसा नार्यः शस्त्रहस्ता भयानकाः ॥
ताभिर्विध्वंसितं सैन्यं महिषस्य दुरात्मनः ॥१७॥
तस्मिन्निपात्यमाने तु सैन्ये दानवसत्तमः ॥
क्रोधं कृत्वा ततः शीघ्रं तामेवाभिमुखो ययौ ॥१८॥
विधुन्वन्स हि ते तीक्ष्णशृंगेऽभीक्ष्णं भयानके ॥।
तया सार्धं च सुमहत्कृत्वा युद्धं महासुरः ॥१९॥
शृंगाभ्यां जगृहे देवीं सा तस्योपरि संस्थिता ॥
पद्भ्यामाक्रम्य शूलेन निहतो दैत्यपुंगवः ॥7.1.83.२०॥
छिन्ने शिरसि खङ्गेन तद्रूपो निःसृतः पुमान् ॥
रौद्रोऽपि स गतः स्वर्गं दैत्यो देव्यस्त्रपातितः ॥२१॥
ततो देवगणाः सर्वे महिषं वीक्ष्य निर्जितम् ॥।
महेंद्राद्याः स्तुतिं चक्रुर्देव्यास्तुष्टेन चेतसा॥२२॥
॥ देवा ऊचुः॥
नमो देवि महाभागे गम्भीरे भीमदर्शने॥
नयस्थिते सुसिद्धांते त्रिनेत्रे विश्वतोमुखि ॥ २३ ॥
विद्याविद्ये जये जाप्ये महिषासुरमर्दिनि ॥
सर्वगे सर्वविद्येशे देवि विश्वस्वरूपिणि ॥२४॥
वीतशोके ध्रुवे देवि पद्मपत्रायतेक्षणे ॥
शुद्धसत्त्वे व्रतस्थे च चण्डरूपे विभावरि ॥२५॥
ऋद्धिसिद्धिप्रदे देवि कालनृत्ये धृतिप्रिये ॥
शांकरि ब्राह्मणि ब्राह्मि सर्वदेवनमस्कृते ॥२६॥
घंटाहस्ते शूल हस्ते महामहिषमर्दिनि ॥
उग्ररूपे विरूपाक्षि महामायेऽमृते शिवे ॥ २७ ॥
सर्वगे सर्वदे देवि सर्वसत्त्वमयोद्भवे ॥
विद्यापुराणशल्यानां जननि भूतधारिणि ॥ २८ ॥
सर्वदेवरहस्यानां सर्वसत्त्ववतां शुभे ॥
त्वमेव शरणं देवि विद्याऽविद्ये श्रियेऽश्रिये ॥ २९ ॥
एवं स्तुता सुरैर्देवि प्रणम्य ऋषिभिस्तथा ॥
उवाच हसती वाक्यं वृणुध्वं वरमुत्तमम् ॥ 7.1.83.३० ॥
॥ देवा ऊचुः ॥
स्तवेनानेन ये देवि स्तुवन्त्यत्र नरोत्तमाः ॥
ते संतु कामैः संपूर्णा वरवर्षा निरंतरम् ॥ ३१ ॥
अस्मिन्क्षेत्रे त्वया वासो नित्यं कार्यः शुचिस्मिते ॥ ३२ ॥
एवमस्त्विति सा देवी देवानुक्त्वा वरानने ॥
विसृज्य ऋषिसंघांश्च तत्रैव निरताऽभवत् ॥ ३३ ॥
आश्वयुक्छुक्लपक्षस्य नवम्यां यो वरानने ॥
उपवासपरो भूत्वा तां प्रपश्यति भक्तितः ॥
तस्य पापं क्षयं याति तमः सूर्योदये यथा ॥ ३४ ॥
य एतत्पठति स्तोत्रं प्रातरुत्थाय मानवः ॥
न भीः संपद्यते तस्य यावज्जीवं नरस्य वै ॥ ३५ ॥
आश्वयुक्छुक्लपक्षे या अष्टमी मूलसंयुता ॥
सा महानामिका प्राणा येषां तस्यां गताः शुभे ॥ ३६ ॥
तेषां स्वर्गे ध्रुवं वासो वीरास्तेऽप्सरसां प्रियाः ॥ ३७ ॥
मन्वन्तरेषु सर्वेषु कल्पादिषु सुरेश्वरि ॥
एष एव क्रमः प्रोक्तो विशेषं शृणु सांप्रतम् ॥३८॥
आश्वयुक्छुक्लपक्षे या पंचमी पापनाशिनी ॥
तस्यां संपूजयेद्रात्रौ खड्गमंत्रैर्विभूषितम् ॥ ३९ ॥
मंडपं कारयेत्तत्र नवसप्तकरं तथा ॥
प्रागुदक्प्रवणे देशे पताकाभिरलंकृतम् ॥
योगेश्वर्याः संनिधाने विधिना कारयेद्द्विजः॥7.1.83.४०॥।
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम्॥
मेखलात्रयसंयुक्तं योन्याऽश्वत्थदलाभया॥४१॥
शास्त्रोक्तं मन्त्रसंयुक्तं होतव्यं पायसं ततः॥
ततः खड्गं तु संस्नाप्य पंचामृतरसेन वै॥
पूजयेद्विविधैः पुष्पैर्मंत्रपूर्वं द्विजोत्तमैः॥४२॥
अभीर्विशसनं खड्गः प्राणिभूतो दुरासदः ॥
अगम्यो विजयश्चैव धर्माधारस्तथैव च ॥
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ॥ ४३ ॥
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥
हिरण्यं च शरीरं ते धाता देवो जनार्दनः ॥
पिता पितामहो देव स्वेन पालय सर्वदा ॥ ४४ ॥
॥ इति खड्गमन्त्रः ॥ ॥
एवं संपूज्य विधिना तं खङ्गं ब्राह्मणोत्तमैः ॥
भ्रामयेन्नगरे रात्रौ नान्दीघोषपुरःसरम् ॥ ४५ ॥
सर्वसैन्येन संयुक्तस्तत्र ब्राह्मणपुंगवैः ॥
एवं कृत्वा विधानं तु पुनर्योगेश्वरीं नयेत् ॥
उच्चार्य मन्त्रमेवं वै खङ्गं तस्यै समर्पयेत् ॥ ४६ ॥
अञ्जनेन समालेख्य चन्दनेन विलेपितम् ॥
बिल्वपत्रकृतां मालां तस्यै देव्यै निवेदयेत् ॥ ४७ ॥
दुर्गे दुर्गार्तिहे देवि सर्व दुर्गतिनाशिनि ॥
त्राहि मां सर्वदुर्गेषु दुर्गेऽहं शरणं गतः ॥ ४८ ॥
दत्त्वैवमर्घ्यं देवेशि तत्र खङ्गं च जागृयात् ॥
नित्यं संपूज्य विधिना अष्टम्यां यावदेव हि ॥ ४९ ॥
तद्रात्रौ जागरं कृत्वा प्रभाते ह्यरुणोदये ॥
पातयेन्महिषान्मेषानग्रतो गतकंधरान् ॥ 7.1.83.५० ॥
शतमर्धशतं वापि तदर्धार्धं यथेच्छया ॥
सुरासवभृतैः कुंभैस्तर्पयेत्परमेश्वरीम् ॥ ५१ ॥
कापालिकेभ्यस्तद्देयं दासीदासजने तथा ॥
ततोऽपराह्नसमये नवम्यां स्यन्दने स्थिताम् ॥ ५२ ॥
योगेशीं भ्रामयेद्राष्ट्रे स्वयं राजा स्वसैन्यवान् ॥
नदद्भिः शंखपटहैः पठद्भिर्बटुचारणैः ॥ ५३ ॥
भूतेभ्यश्च बलिं दद्यान्मंत्रेणानेन भामिनि ॥
सरक्तं सजलं सान्नं गन्धपुष्पाक्षतैर्युतम् ॥ ५४ ॥
त्रीन्वाराँस्तु त्रिशूलेन दिग्विदिक्षु क्षिपेद्बलिम् ॥
बलिं गृह्णन्त्विमे देवा आदित्या वसवस्तथा ॥ ५५ ॥
मरुतोऽथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥
सौम्या भवंतु तृप्ताश्च भूताः प्रेताः सुखावहाः ॥ ५६ ॥
य एवं कुर्वते यात्रां ब्राह्मणाः क्षेत्रवासिनः ॥
न तेषां शत्रवो नाग्निर्न चौरा न विनायकाः ॥
विघ्नं कुर्वंति देवेशि योगेश्वर्याः प्रसादतः ॥ ५७ ॥
सुखिनो भोगभोक्तारः सर्वातंकविवर्जिताः ॥
भवन्ति पुरुषा भक्ता योगेश्वर्या निरंतरम् ॥ ५८ ॥
इत्येष ते समाख्यातो योगेश्वर्या महोत्सवः ॥
पठतां शृण्वतां चैव सर्वाशुभविनाशनः ॥ ५९ ॥
शूलाग्रभिन्नमहिषासुरपृष्ठपीठामुत्खातखड्ग रुचिरांगदबाहुदंडाम् ॥
अभ्यर्च्य पंचवदनानुगतं नवम्यां दुर्गां सुदुर्गगहनानि तरंति मर्त्याः ॥ 7.1.83.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये योगेश्वरीमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥