स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०८०

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वदिग्भागे लिंगं पातकनाशनम् ॥
गौतमेश्वरनामाढ्यं दैत्यसूदनपश्चिमे ॥ १ ॥
धनुषां पंचके देवि संस्थितं सर्वकामदम् ॥
शल्येनाराधितं यद्वै मद्रराजेन भामिनि ॥ २ ॥
ततः कृतं तपश्चोग्रं समाराध्य महेश्वरम् ॥
अन्योऽप्येवं नरो यस्तु तं समाराधयिष्यति ॥ ३ ॥
स प्राप्स्यति परां सिद्धिं यथा शल्यो महामनाः ॥
चैत्र शुक्लचतुर्द्दश्यां स्नापयेत्पयसा तु यः ॥ ४ ॥
गंधोदकेन च ततः पूजयेत्कुसुमोत्तमैः ॥
तथैव विधिवद्भक्त्या सोऽश्वमेधफलं लभेत् ॥ ५ ॥
वाचा कृतं च यत्पापं मनसा कर्मणाऽथ वा ॥
तत्सर्वं नश्यते देवि तस्य लिंगस्य दर्शनात् ॥ ६ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्यवर्णनंनामाशीतितमोऽध्यायः ॥ ८० ॥ ॥