स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०७६

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्यैव देवदेवस्य समीपस्थं विराजते ॥
लिंगद्वयं महापुण्यं लकुलीशप्रतिष्ठितम् ॥ १ ॥
लकुले श्वरनामास्ति तस्य लिंगद्वयस्य वै ॥
तद्दृष्ट्वा देवदेवस्य लिंगद्वयमनुत्तमम् ॥ २ ॥
मुच्यते सकलात्पापादाजन्ममरणांतिकात् ॥
तत्र शुक्लचतुर्द्दश्यां मासि भाद्रपदे प्रिये ॥ ३ ॥
उपवासपरो भूत्वा यः करोति प्रजागरम् ॥
मूर्त्तिमंतं तु संपूज्य लकुलीशं महाप्रभम् ॥ ४ ॥
ततः संपूज्य विधिना तत्र लिंगद्वयं पृथक् ॥
सम्यक्पूजाविधानेन स्तुतिमंत्रैरनुक्रमात् ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्ये कलकलेश्वरसमीपवर्ति लकुलीशलिंगद्वयमाहात्म्यवर्णनंनाम षट्सप्ततितमोऽध्यायः॥७६॥