स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०७०

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि वरुणेश्वरमुत्तमम् ॥
गौरीतपोवनाग्नेय्यां धनुषां विंशतौ स्थितम् ॥
लिंगं महाप्रभावं हि वरुणेन प्रतिष्ठितम् ॥ १ ॥
पूर्वं पीतो यदा देवि समुद्रः कुम्भजन्मना ॥
तदा कोपेन सन्तप्तो वरुणः सरितां पतिः ॥ २ ॥
कामिकं तु समाज्ञाय क्षेत्रं प्राभासिकं तदा ॥
तत्रातपद्देवि तपः स वै परमदुश्चरम् ॥ ३ ॥
प्रतिष्ठाप्य महालिंगं संपूजयति भक्तितः ॥
वर्षाणामयुतं साग्रं पूजितो वृषभध्वजः ॥ ४ ॥
ततः प्रसन्नो देवेशि निजगंगाजलेन तु ॥
पूरयामास तं रिक्तं समुद्रं यादसांपतिम् ॥ ५ ॥
छंदयामास तं लिंगं वरदानैरनेकधा ॥
तत्प्रभृत्येव ते सर्वे समुद्राः परिपूरिताः ॥ ६ ॥
वरुणेश्वरनामेति तल्लिंगं तत्प्रभृत्यभूत् ॥ ७ ॥
को ह्यर्थो बहुभिर्लिंगैर्दृष्टैर्वा सुरसुन्दरि ॥
वरुणेशेन दृष्टेन सर्वतीर्थफलं लभेत् ॥ ८ ॥
अष्टम्यां च चतुर्दश्यां तद्दध्ना स्नापयेद्यदि ॥
स ब्राह्मणश्चतुर्वेदो जायते नात्र संशयः ॥ ९ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये वरानने ॥
मूकांधबधिरा बालाः स्त्रियश्चैव नपुंसकाः ॥ 7.1.70.१० ॥
दृष्ट्वा गच्छंति ते देवि स्वर्गं धर्मपरायणाः ॥
स्नानं जाप्यं बलिं होमं पूजां स्तोत्रं च नर्तनम् ॥
तस्मिन्स्थाने तु यः कुर्यात्तत्सर्वं चाक्षयं भवेत् ॥ ११ ॥
हैमं पद्मं मौक्तिकं च दानं तत्रैव दापयेत् ॥
सम्यग्यात्राफलापेक्षी स्वर्गापेक्षी तथा नरः ॥ १२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वरुणेश्वरमाहात्म्यवर्णनंनाम सप्ततितमोऽध्यायः ॥ ॥ ७० ॥