स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०६९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ देव्युवाच ॥ ॥
गौरीश्वरेति विख्यातं यत्त्वया लिंगमुत्तमम् ॥
कुत्र तिष्ठति तल्लिंगं पूजितं यत्फलं लभेत् ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि माहात्म्यं पापनारानम् ॥
गौरीश्वरस्य देवस्य सर्वकामप्रदस्य वै ॥ २ ॥
इदं तपोवनं देवि ख्यातं गौर्या महाप्रभम् ॥
धनुषां पचपंचाशत्समंतात्परिमंडलम् ॥३॥
तत्र मध्ये स्थिता देवी एकपादा तपोन्विता ॥
तस्या उत्तरतो देवि किंचिदीशानसंस्थितम्॥ ॥४ ॥
धनुषां चतुरंते च लिंगं पापभयापहम् ॥
यस्तत्पूजयते भक्त्या लिंगं भक्तियुतो नरः ॥
कृष्णाष्टम्यां विशेषेण स मुक्तः पातकैर्भवेत् ॥ ५ ॥
गोदानं चात्र शंसंति सुवर्णं द्विजपुंगवे ॥
अन्नदानं विशेषेण सर्वपापप्रशांतये ॥ ६ ॥
गोघ्नो वा ब्रह्महा वाऽपि तथा दुष्कृतकर्मकृत् ॥
सर्व पापैः प्रमुच्येत तस्य लिंगस्य दर्शनात् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभास क्षेत्रमाहात्म्ये गौरीश्वरमाहात्म्यवर्णनंनामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥