स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०५८

विकिस्रोतः तः
Jump to navigation Jump to search

ईश्वर उवाच ॥ ॥
अथ द्वितीयां ते वच्मि शक्तिं देवि क्रियात्मिकाम् ॥
प्रभासस्थां महादेवीं देवानां प्रीतिदायिनीम् ॥ १ ॥
सोमेशाद्वायवे भागे षष्टिधन्वतरे स्थिता ॥
तत्र पीठं महादेवि योगिनीगणवन्दितम् ॥ २ ॥
तस्मिन्स्थाने स्थितं देवि पातालविवरं महत् ॥
तस्मिन्महाप्रभे स्थाने रक्षारूपेण संस्थिताम् ॥ ३ ॥
पातालनिधि निक्षेपदिव्यौषधिरसायनम् ॥
क्षेत्रमध्ये स्थितं सर्वं तदर्चनरतो लभेत् ॥ ४ ॥
भैरवीति च तद्देव्याः पूर्वं नाम प्रकीर्त्तितम् ॥
अस्मिन्पुनश्चांतरे तु अष्टाविंशे चतुर्युगे ॥
त्रेतायुगमुखे राजा अजापालो बभूव ह ॥ ५ ॥
तेन चागत्य क्षेत्रेस्मिन्पंचवर्षशतानि च ॥
भैरवी पूजिता देवी व्याधिग्रस्तेन भामिनि ॥ ६ ॥
ततः प्रोवाच तं देवी संतुष्टा राजसत्तमम् ॥
अलं क्लेशेन राजर्षे तुष्टाहं तव भक्तितः ॥ ७ ॥
इत्युक्तः स तदा राजा कृताञ्जलिपुटः सुधीः ॥
प्रणम्योवाच तां देवीमानंदास्राविलेक्षणः ॥ ८ ॥
यदि तुष्टासि मे देवि वरार्हो यदि वाप्यहम् ॥
सर्वे रोगाः शरीरान्मे नाशं यांतु बहिः कृताः ॥ ९ ॥
एवमुक्ता तु सा देवी पुनः प्रोवाच तं नृपम् ॥
सर्वमेव महाराज यथोक्तं ते भविष्यति ॥ 7.1.58.१० ॥
इत्युक्ते तु तदा देव्या तस्य राज्ञः कलेवरात् ॥
निर्गता व्याधयस्तत्र अजारूपेण वै पृथक् ॥ ११ ॥
सहस्राणां तु पञ्चैव नियतं सार्द्धमेव च ॥
इति वृत्ते महादेव्या पुनः प्रोक्तो नराधिपः ॥१२ ॥
राजन्नेतानजारूपान्व्याधीन्पालय कृत्स्नशः ॥
किंकुर्वाणा भविष्यंति तवैवादेशकारिणः ॥ १३ ॥।
अजापालेति ते नाम ख्यातं लोके भविष्यति ॥
तव नाम्ना मम नाम अजापालेश्वरीति च ॥
भविष्यति धरापृष्ठे तच्च यावच्चतुर्युगम् ॥ ॥ १४ ॥
अष्टम्यां च चतुर्द्दश्यां योऽत्र मां पूजयिष्यति ॥
तस्याष्टगुणमैश्वर्यं दास्ये तुष्टा न संशयः ॥ १५ ॥
अश्वयुक्छुक्लाष्टम्यां च त्रिः कृत्वा तु प्रदक्षिणाम् ॥
सोमेशं मध्यतः कृत्वा संस्नाप्याभ्यर्च्य मां पृथक् ॥
तस्य वर्षत्रयं राजन्न भीः शोको भविष्यति ॥ १६ ॥
या तु वंध्या भवेन्नारी रोगिणी दुर्भगा तथा ॥
तयोक्ता नवमी कार्या ममाग्रे तुष्टिवर्द्धिनी ॥ १७ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्त्वा तु तदा देवी तत्रैवांतर्हिताऽभवत् ॥
प्रभासक्षेत्रमध्यस्थः स राजातुलविक्रमः ॥ १८ ॥
पालयामास धर्मात्मा तानजान्व्याधिरूपिणः ॥
औषधीर्विविधाकारास्तेषां याः पुष्टिहेतवः ॥ १९ ॥
तत्र वर्षशतं साग्रं पुष्टिं नीता अजाः पृथक् ॥
महानिधानसंस्थानमजापालेन निर्मिंतम्॥ 7.1.58.२० ॥
अथ तस्याः प्रसादेन स राजा पृथुविक्रमः ॥
सप्तद्वीपाधिपो जातः सूर्यवंशविभूषणः ॥ २१ ॥
॥ देव्युवाच ॥ ॥
अत्याश्चर्यमिदं देव अजा देव्याः समुद्भवम् ॥
पुनश्च श्रोतुमिच्छामि तस्य राज्ञोद्भुतं महत् ॥ २२ ॥
कथं राजा स देवेश सप्तद्वीपां वसुन्धराम्॥
शशास एक एवासौ कथं ते व्याधयः कृताः ॥ २३ ॥
॥ ईश्वर उवाच ॥ ॥
पुरा बभूव राजर्षिर्दिलीप इति विश्रुतः ॥
दीर्घो नाम सुतस्तस्य रघुस्तस्मादजायत ॥ २४ ॥
अजःपुत्रो रघोश्चापि तस्माद्यश्चातिवीर्यवान् ॥
स भैरवीं समाराध्य कृत्वा व्याधीनजागणान् ॥२५॥
पालयामास संहृष्टो ह्यजापालस्ततोऽभवत्॥
तस्मिन्काले बभूवाथ रावणो राक्षसेश्वरः॥२६॥
लंकास्थितः सुरगणान्नियुयोज स्वकर्मसु॥
अखंडमंडलं चन्द्रमातपत्रं चकार ह॥२७॥
इन्द्रं सेनापतिं चक्रे वायुं पांसुप्रमार्जकम्॥
वरुणं दूतकर्मस्थं धनदं धनरक्षकम्॥२८॥
यमं संयमनेऽरीणां युयुजे मन्त्रणे मनुम्॥
मेघाश्छर्दंति लिंपंति द्रुमाः पुष्पाणि चिक्षिपुः॥२९॥
सप्तर्षयः शांतिपरा ब्राह्मणाः शंसिनः प्रियः॥
नागा यामककक्षायां गन्धर्वा गीततत्पराः॥7.1.58.३॥।
प्रेक्षणीयेऽप्सरोवृंदं वाद्ये विद्याधरा वृताः॥
गंगाद्याः सरितः पाने गार्हपत्ये हुताशनः॥३१॥
विश्वकर्मांगसंस्कारे तेन शिल्पी नियोजितः॥
तिष्ठंति पार्थिवाः सर्वे पुरः सेवाविधायिनः॥३२॥
दृश्यंते भास्वरै रत्नैः प्रस्खलंतो विभूषणैः॥
तान्दृष्ट्वा रावणः प्राह प्रहस्तं प्रतिहारकम्॥३३॥
सेवां कर्त्तुं मम स्थाने ब्रूहि केऽत्र समागताः ॥
उवाच स प्रणम्याग्रे दण्डपाणिर्निशाचरः ॥ ३४ ॥
एष काकुत्स्थो मांधाता धुन्धुमारो नलोऽर्जुनः ॥
ययातिर्नहुषो भीमो राघवोऽयं विदूरथः ॥ ३५ ॥
एते चान्ये च बहवो राजान इह चागताः ॥
सेवाकरास्तव स्थाने नाजापाल इहो गतः ॥ ३६ ॥
रावणः कुपितः प्राह शीघ्रं दूत विसर्जय ॥
इत्युक्त्वा प्रहितो दूतो धूम्राक्षो नाम राक्षसः॥ ३७ ॥
धूम्राक्ष गच्छ ब्रूहि त्वमजापालं ममा ज्ञया ॥
सेवां कर्त्तुं ममागच्छ करं वा यच्छ पार्थिव ॥ ३८ ॥
अथवा चन्द्रहासेन त्वां करिष्ये विकंधरम् ॥
रावणेनैवमुक्तस्तु धूम्राक्षो गरुडो यथा ॥ ॥ ३९ ॥
संप्राप्तस्तां पुरीं रम्यां तव राजकुलं गतः ॥
ददर्शायांतमेकं स अजापालमजावृतम् ॥ 7.1.58.४० ॥
मुक्तकेशं मुक्तकच्छं स्वर्णकंबलधारिणम् ॥
यष्टिस्कंधं रेणुवृतं व्याधिभिः परिवारितम् ॥ ४१ ॥
निघ्नंतमिव शार्दूलं सर्वोपद्रवनाशनम् ॥
मह्यामालिख्य नामानि विनिघ्नंतं द्विषां गणम्॥ ४२ ॥
स्नातं भुक्तं निजस्थाने कृतकृत्यं मनुं यथा ॥
दृष्ट्वा हृष्टमनाः प्राह धूम्राक्षो रावणोदितम् ॥ ४३ ॥
अजापालोऽपि साक्षेपं प्रत्यु क्त्वा कारणोत्तरम् ॥
प्रेषयामास धूम्राक्षं ततः कृत्यं समादधे ॥ ४४ ॥
ज्वरमाकारयित्वा तु प्रोवाचेदं महीपतिः॥
गच्छ लंकाधिपस्थानमाचर त्वं यथोदितम् ॥ ४५ ॥
नियुक्तस्त्वजपालेन ज्वरो दिवि जगाम ह ॥
गत्वा च कंपयामास रावणं राक्षसेश्वरम् ॥ ४६ ॥
रावणस्तं विदित्वा तु ज्वरं परमदारुणम् ॥
प्रोवाच तिष्ठतु नृपस्तेन मे न प्रयोजनम् ॥ ४७ ॥
ततः स विज्वरो राजा बभूव धनदानुजः ॥
एवं तस्य चरित्राणि संति चान्यानि कोटिशः ॥ ४८ ॥
अजापालस्य देवेशि सूर्यवत्त्विट्किरीटिनः ॥
तेनैषाऽऽराधिता देवी अजापालेन धीमता ॥
सर्वरोगप्रशमनी सर्वो पद्रवनाशिनी ॥ ४९ ॥
पूजयेत्तां विधानेन भोगेप्सुर्यदि मानवः ॥
गंधैर्धूपैरलंकारैर्वस्त्रैरन्यैश्च भक्तितः ॥ 7.1.58.५० ॥
इति ते कथितं सर्वमजादेव्याः समुद्भवम् ॥
सर्वदुःखोपशमनं सर्वपातकनाशनम् ॥ ५१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनामाष्टपञ्चाशोऽध्यायः ॥ ५८ ॥