स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०४८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिंगं शुक्रप्रतिष्ठितम्॥
सर्वपापहरं देवि विभूतीश्वरपश्चिमे॥१॥
नातिदूरे स्थितं तत्र स्वयं शुक्रेण निर्मितम्॥
यत्र संजीवनीं प्राप्तो विद्यां रुद्रप्रभावतः ॥२॥
संतप्य तु महाघोरं तपोवर्षसहस्रकम् ॥
संप्रसाद्य विरूपाक्षं योऽवाप ग्रहतां सुधीः ॥३॥
ग्रस्तेन शंभुना येन देवकार्यार्थसिद्धये ॥
तत्रोदरगतेनैव तपस्तप्तं सुदुष्करम्॥ ४॥
वर्षाणामयुतं साग्रं तुष्टिं नीतो महेश्वरः ॥
निष्कासितस्ततः शीघ्रं शुक्र मार्गेण शंभुना ॥५॥
ततः शुक्रेति नामाभूद्भार्गवस्य महात्मनः ॥
तदाराधयते लिंगं यः कृत्वा निश्चलं मनः ॥६॥
मृत्युंजयं जपेल्लक्षं स समीहितमाप्नुयात्॥७॥
तं दृष्ट्वा त्वथवा स्पृष्ट्वा जन्मादिमरणान्तकात्॥
मुच्यते पातकान्मृत्योः प्रसादात्तस्य भामिनि॥८॥
मृतसंजीवनार्थं यदैश्वर्यमणिमादिकम्॥
प्राप्नुयान्नात्र संदेहो यस्य भक्तिः सुनिश्चला ॥९॥
पंचामृतेन संस्नाप्य देवं शुकप्रतिष्ठितम्॥
सुगन्धपुष्पैः संपूज्य शौक्रीं पीडां स नाप्नुयात् ॥7.1.48.१०॥
इति सर्वं समासेन माहात्म्यं शुक्रदैवतम् ॥
कथितं तव सुश्रोणि श्रुतं पापभयापहम् ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शुक्रेश्वरमाहात्म्यवर्णनंनामाष्टचत्वारिंशोध्यायः ॥ ४८ ॥