स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०४७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवं गुरुनिषेवितम्॥
उमायाः पूर्वदिग्भागे सिद्धेशाग्नेयगोचरे ॥ १ ॥
संस्थितं तु महल्लिंगं देवाचार्य प्रतिष्ठितम् ॥
आराध्य परया भक्त्या लिंगं वर्षसहस्रकम् ॥ २ ॥
तोषयामास देवेशं भवं शर्वमुमापतिम् ॥
प्राप्तवानखिलान्कामानप्राप्यानकृतात्मभिः ॥ ३ ॥
देवानां चैव पूज्यत्वं प्राप्य ज्ञानमथैश्वरम्॥
ग्रहत्वं च तथा प्राप्य मोदते दिवि सांप्रतम् ॥ ४ ॥
तं दृष्ट्वा मानवो भक्त्या न दुर्गति मवाप्नुयात्॥
बृहस्पतिकृतं लिंगं ये पश्यंति नरोत्तमाः ॥ ५ ॥
बृहस्पतिकृता पीडा नैव तेषां हि जायते ॥
तत्र शुक्लचतुर्दश्यां गुरुवारे तथा प्रिये ॥ ॥ ६ ॥
संपूज्य विधिवल्लिंगं सम्यग्राजोपचारतः ॥
अथवा भक्तिभावेन प्राप्नुयात्परमं पदम् ॥ ७ ॥
स्नानं पलसहस्रेण पंचामृतरसेन यः ॥
करोति भक्त्या मर्त्यो वै मुच्यते स ऋणत्रयात् ॥८॥
मातृकात्पैतृकाद्देवि तथा गुरुसमुद्भवात् ॥
सर्वपापविशुद्धात्मा निर्द्वंद्वो मुक्तिमाप्नुयात् ॥ ९ ॥
एवं संक्षेपतः प्रोक्तं माहात्म्यं गुरुदैवतम् ॥
शृणुयाद्यस्तु भावेन तस्य प्रीतो गुरुर्भवेत् ॥ 7.1.47.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वृहस्पतीश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥॥ ॥