स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०४५

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि अंगारेश्वरमुत्तमम् ॥
स्थापितं भूमिपुत्रेण सोमेशादीश गोचरे ॥ १ ॥
त्रिपुरं दग्धुकामस्य पुरा मम वरानने ॥
क्रोधादश्रु विनिष्क्रांतं लोचनत्रितयेन तु ॥२॥
तच्च भूमौ निपतितं ततो भूभिसुतोऽभवत् ॥
स प्रभासं ततो गत्वा बाल्यात्प्रभृति शंकरम् ॥ ३ ॥
तपसाऽऽराधयामास बहून्वर्षगणान्प्रिये ॥
तस्य तुष्टो महादेवः सुप्रीतात्मा वरं ददौ ॥ ४ ॥
सोऽब्रवीद्यदि मे देव तुष्टोसि वृषभध्वज ॥
ग्रहत्वं देहि सर्वेश न चान्यं वरमुत्सहे ॥ ५ ॥
स तथेति प्रतिज्ञाय पुनस्तं वाक्यमब्रवीत् ॥
इहागत्य नरो यो मां पूजयिष्यति भक्तितः ॥ ६ ॥
न भविष्यति वै पीडा तावकी तस्य कुत्रचित् ॥
पुष्पाणि रक्तवर्णानि मध्वाज्याक्तानि भूरिशः ॥ ७ ॥
होमयिष्यति यो भक्त्या लक्षमेकं तदग्रतः ॥
पंचोपचारविधिना त्वां तु संपूज्य यत्नतः ॥ ८ ॥
तस्य जन्मावधिर्नैव तव पीडा भविष्यति ॥।
तथा विद्रुमदानेन लप्स्यते फलमीप्सितम् ॥ ९ ॥
एवमुक्त्वा स भगवानत्रैवांतरधीयन ॥
भौमोऽपि ग्रहमध्यस्थो विमानेन विराजते ॥7.1.45.१०॥
एवं संक्षेपतः प्रोक्तं भौममाहात्म्यमुत्तमम्॥
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽगारेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशोध्यायः ॥ ४५ ॥