स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०४३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे लिंगं सूर्यप्रतिष्ठितम् ॥
सोमेशात्पश्चिमे भागे धनुषां सप्तके स्थितम्॥
आदित्येश्वरनामानं सर्वपातकनाशनम् ॥ १ ॥
त्रेतायुगे महादेवि समुद्रेण महात्मना ॥
रत्नैः संपूजितं लिंगं वर्षाणामयुतं प्रिये ॥ २ ॥
तेन रत्नेश्वरंनाम सांप्रतं प्रथितं क्षितौ ॥
पंचामृतेन संस्नाप्य पंचरत्नैः प्रपूजयेत् ॥३॥
ततो राजोपचारेण पूजयेद्विधिवन्नरः ॥
एवं कृते महादेवि मेरुदानफलं लभेत् ॥४॥
सर्वेषां चैव यज्ञानां दानानां नात्र संशयः ॥५॥
तीर्थानां चापि सर्वेषां यच्चान्यत्सुकृतं भुवि ॥
उद्धरेत्पितृवर्गं च मातृवर्गं च मानवः ॥ ६ ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
क्षालयेच्चैव तत्सर्वं दृष्ट्वा रत्नेश्वरं नरः ॥ ७ ॥
धेनुदानं प्रशंसंति तस्मिन्स्थाने महर्षयः ॥
धेनुदस्तारयेन्नूनं दश पूर्वान्दशापरान् ॥ ८ ॥
देवस्य दक्षिणे भागे यो जपेच्छतरुद्रियम् ॥
संपूज्य विधिवल्लिंगं न स भूयः प्रजायते ॥९॥
एवं संक्षेपतः प्रोक्तमादित्येशमहोदयम् ॥
श्रुत्वाऽवधार्य यत्नेन मुच्यते कर्मबंधनैः ॥ 7.1.43.१० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आदित्येश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥