स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०४०

विकिस्रोतः तः
Jump to navigation Jump to search

ईश्वर उवाच॥
ततो गच्छेन्महादेवि श्वेतकेतुप्रतिष्ठितम्॥
लिंगं महाप्रभावं तु भीमेनाराधितं पुरा॥१॥
केदारेश्वरसांनिध्ये नातिदूरे व्यवस्थितम्॥
पूजयते त्तद्विधानेन क्षीरस्नानादिभिः क्रमात् ॥
यात्राफलमभिप्रेप्सुः प्रेत्य स्वर्गफलाय वै ॥ २ ॥
॥ देव्युवाच ॥ ॥
श्वेतकेतोस्तु यद्देव लिंगं प्रोक्तं त्वया मम ॥
तस्य जातं कथं देव नाम भीमेश्वरेति च ॥ ३ ॥
कथं विनिर्मितं पूर्वं तस्मिन्दृष्टे तु किं फलम् ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
आसीत्त्रेतायुगे पूर्वं राजा स्वायंभुवेंतरे ॥
श्वेतकेतुरिति ख्यातो राजर्षिः सुमहातपाः ॥ ५ ॥
स प्रभासं समागत्य प्रतिष्ठाप्य महे श्वरम् ॥
तपस्तेपे सुविपुलं सागरस्य तटे शुभे ॥ ६ ॥
पंचाग्निसाधको ग्रीष्मे वर्षास्वाकाशगस्तथा ॥
हेमंते जलमध्यस्थो नव वर्षाणि पंच च ॥ ७ ॥
ततश्चतुर्द्दशे देवि तपसा नियमेन च ॥
तुष्टेनोक्तो मया देवि वरं वरय सुव्रत ॥ ८ ॥
श्वेतकेतुरथोवाच भक्तिं देहि सुनिश्चलाम् ॥
स्थानेऽस्मिन्स्थीयतां देव यदि तुष्टोऽसि मे प्रभो ॥ ९ ॥
एवमस्त्वित्यथोक्त्वाऽहं तस्यांतर्द्धानमागतः ॥
ततः कालांतरेऽतीते श्वेतकेतुर्महाप्रभः ॥ 7.1.40.१० ॥
समाराध्य त्विदं लिंगं प्राप्तः स्थानं महोदयम् ॥
ततो जातं नाम तस्य श्वेतकेत्वीश्वरं श्रुतम् ॥ ११ ॥
अग्नितीर्थे महापुण्ये सर्वपातकनाशने ॥
ततः कलियुगे प्राप्ते भ्रातृभिश्च समन्वितः ॥ १२ ॥
तीर्थयात्राप्रसंगेन यदा प्रभासमागतः ॥
भीमसेनो महाबाहुर्वायुपुत्रो ममांशजः ॥ १३ ॥
तल्लिंगं पूजयामास कृत्वा जागेश्वरं निजम् ॥
मत्वा तीर्थं महापुण्यं सागरस्य समीपतः ॥ १४ ॥
तदा प्रभृति भीमेशं पुनर्नामाऽभवच्छुभम् ॥
दृष्टमात्रेण तेनैव सकृल्लिंगेन भामिनि ॥ १५ ॥
अन्यजन्मकृतान्येव पापानि सुबहून्यपि ॥
नाशमायांति सर्वाणि तथैवामुष्मिकाणि तु ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भीमेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥ ४० ॥