स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०३३

विकिस्रोतः तः

॥ देव्युवाच ॥ ॥
पितुर्वधामर्षसुजात मन्युना यद्यत्कृतं कर्म पुरा महर्षिणा ॥
दधीचिपुत्रेण सुरप्रसाधिना सर्वं श्रुतं तद्धि मया समाधिना ॥ १ ॥
पुनःपुनर्वै विबुधैः समानं यद्वृत्तमासीत्किमपि प्रधानम् ॥
कार्यं हि तत्सर्वमनुक्रमेण विज्ञातुमिच्छामि कुतूहलेन ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
उक्तो यदासौ विबुधैः समस्तैरापः पुरा त्वं भुवि भक्षयस्व ॥
यतोऽमराणां प्रथमं हि जाता आपोऽग्रजाः सर्वसुरासुरेभ्यः ॥ ३ ॥
तेनैवमुक्तस्तु महात्मना तदा प्रदर्शयध्वं मम ता यतः स्थिताः ॥
पीत्वा सुराः सर्वमहं पुरस्तात्कृत्यं करिष्ये सुरभक्षणं हि ॥ ४ ॥
तत्रापि नेतुं यदि मां समर्था यत्रासते वारिचयाः समेताः ॥
अतोऽन्यथा नाहमलीकवादी प्राणे प्रयाते मुनिवाक्यकारी ॥ ५ ॥
आहोक्ते पुंडरीकाक्ष और्वं हि वाडवं तदा ॥
त्वां प्रापयिष्ये यत्रापः केन यानेन वाडव ॥ ६ ॥
॥ वाडव उवाच ॥ ॥
नाहं हयादिभिर्यानैर्गंतुं तत्र समुत्सहे ॥
कुमारीकरसंपर्कमेकं मुक्त्वा मतं हि मे ॥ ७ ॥
॥ विष्णुरुवाच ॥ ॥
एतत्ते सुलभं यानं तां कन्यामानयाम्यहम् ॥
या त्वां नेतुं समर्था स्यादपां स्थानं सुनिश्चितम् ॥ ८ ॥
॥ ईश्वर उवाच ॥ ॥
सुरभीशापसंतप्ता प्रागुपात्तदशाफला ॥
सरस्वती यानभूता तस्य सा विष्णुना कृता ॥ ९ ॥
ततोऽब्रवीद्विभुर्गंगां पार्श्वतः समुपस्थिताम् ॥
एनं वह्निं महाभागे वेगान्नय महोदधिम्॥
नान्या शक्ता समानेतुं त्वां विना लोकपावनि ॥ 7.1.33.१० ॥
॥ गङ्गोवाच ॥ ॥
नास्ति मे भगवञ्छक्ति रौर्वं वोढुं जगत्पते॥
रौद्ररूपी महानेष दहत्येवानलो भृशम् ॥ ११ ॥
ततस्तु यमुनां प्राह सिन्धुं तस्या ह्यनन्तरम् ॥
अन्या नदीश्च विविधाः पृथक्पृथगुदारधीः ॥ १२ ॥
अशक्तास्ताः समानेतुं पृष्टाश्च सुरसत्तमैः ॥
ततः सरस्वतीं प्राह देवदेवो जनार्द्दनः ॥
त्वमेव व्रज कल्याणि प्रतीच्यां लवणोदधौ ॥ १३ ॥
एवं कृते सुराः सर्वे भविष्यन्ति भयोज्झिताः ॥
अन्यथा वाडवेनैते दह्यंते स्वेन तेजसा ॥ १४ ॥
तस्मात्त्वं रक्ष विबुधाने तस्मात्तुमुलाद्भयात् ॥
मातेव भव सुश्रोणि सुराणामभयप्रदा ॥ १५ ॥
एवमुक्ता हि सा तेन विष्णुना प्रभविष्णुना ॥
आह नाहं स्वतन्त्रास्मि पिता मे ध्रियते चिरात् ॥ १६ ॥
तस्याहं कारिणी नित्यं कुमारी च धृतव्रता ॥
कालत्रयेप्यस्वतन्त्रा श्रूयते विबुधैः सुता ॥ १७ ॥
पित्रादेशं विना नाहं पदमेकमपि क्वचित् ॥
गच्छामि तस्मात्कोऽप्यन्य उपायश्चिंत्यतां हरे ॥ १८ ॥
तत्स्वरूपं विदित्वैवं समभ्येत्य पितामहम् ॥
तमब्रवीद्वासुदेवो देवकार्यमिदं कुरु ॥ १९ ॥
नान्यथा शक्यते नेतुं वाडवोऽग्निर्महाबलः ॥
अदृष्टदोषां मुक्त्वेमां कुमारीं तनयां तव ॥ 7.1.33.२० ॥
तच्छ्रुत्वा विष्णुना प्रोक्तं कुमारीं तनयां तदा ॥
शिरस्याधाय सस्नेहमुवाच प्रपितामहः ॥ २१ ॥
याहि देवि सुरान्सर्वान्रक्ष त्वं भयमागतान् ॥
विनिक्षिप त्वं नीत्वैनं वाडवं लवणांभसि ॥
पितुर्वाक्यं हि सा श्रुत्वा प्रोवाच श्रुतिलक्षणा ॥२२॥
॥ सरस्वत्युवाच ॥ ॥
एषास्मि प्रस्थिता तात तव वाक्या दसंशयम्॥
रौद्रोऽयं वाडवो वह्निस्तनुं मे भक्षयिष्यति ॥ २३ ॥
प्राप्तं कलियुगं रौद्रं सांप्रतं पृथिवीतले ॥
लोकः पापसमाचारः स्पर्शयिष्यति मां प्रभो ॥२४॥
ततो दुःखतरं किं स्याद्यत्पापैः सह संगमः॥२५॥
॥ ब्रह्मोवाच ॥ ॥
यदि पापजनाकीर्णं न वांछसि धरातलम् ॥
पातालतलसंस्था त्वं नय वह्निं महोदधौ॥२६॥
यदातिश्रमसंयुक्ता वह्निना दह्यसे भृशम्॥
तदा विभिद्य वसुधां प्रत्यक्षा भव पुत्रिके॥२७॥
कृत्वा वक्त्रं विशालाक्षि प्राची भव सुमध्यमे॥
ततो यास्यंति तीर्थानि त्वां श्रांतां चारुहासिनीम्॥२८॥
तानि सर्वाणि चागत्य साहाय्यं ते वरानने॥
करिष्यंति त्रयस्त्रिंशत्कोट्यो वै मम शासनात्॥२९॥
गच्छ पुत्रि न संतापस्त्वया कार्यः कथंचन॥
अरिष्टं व्रज पंथानं मा सन्तु परिपंथिनः॥7.1.33.३०।
॥ ईश्वर उवाच॥
एवमुक्ता तदा तेन ब्रह्मणाथ सरस्वती॥
त्यक्त्वा भयं हृष्टमनाः प्रयातुं समुपस्थिता॥३१॥
तस्याः प्रयाणसमये शंखदुंदुभिनिःस्वनैः ॥
मंगलानां च निर्घोषैर्जगदापूरितं शुभैः ॥ ३२ ॥
सितांबरधरा देवी सितचंदनगुंठिता ॥
शारदांबुदसंकाशा तारहारविभूषिता ॥ ३३ ॥
संपूर्णचंद्रवदना पद्मपत्रायतेक्षणा ॥
कीर्तिर्यथा महेंद्रस्य पूरयन्ती दिशो दश ॥ ३४ ॥
स्वतेजसा द्योतयंती सर्वमाभासयज्जगत् ॥
अनुव्रजंती गंगा वै तयोक्ता वरवर्णिनि ॥ ३५ ॥
द्रक्ष्यामि त्वां पुनरहं कुत्र वै वसतीं सखि ॥
एवमुक्ता तया गंगा प्रोवाच स्निग्धया गिरा ॥ ३६ ॥
यदैव वीक्षसे प्राचीदिशि प्राप्स्यसि मां तदा ॥
सुरैः परिवृता सर्वैस्तत्राहं तव सुवृते ॥ ३७ ॥
दर्शनं संप्रदास्यामि त्यज शोकं शुचिस्मिते ॥
तामापृच्छ्य ततो गंगां पुनर्दर्शनमस्तु ते ॥ ३८ ॥
गच्छ स्वमालयं भद्रे स्मर्त्तव्याऽहं त्वयाऽनघे ॥
यमुनापि तथा चैवं गायत्री सुमनोरमा ॥ ३९ ॥
सावित्रीसहिताः सर्वाः सख्यः संप्रेषितास्तदा ॥
ततो विसृज्य तां देवी नदी भूत्वा सरस्वती ॥ 7.1.33.४० ॥
हिमवंतं गिरिं प्राप्य प्लक्षात्तत्र विनिर्गता ॥
अवतीर्णा धरापृष्ठे मत्स्यकच्छपसंकुला ॥ ४१ ॥
ग्राहडिंडिमसंपूर्णा तिमिनक्रगणैर्युता ॥
हसंती च महादेवी फेनौघैः सर्वतो दिशम्॥४२॥
पुण्यतो यवहा देवीस्तूयमाना द्विजातिभिः ॥
वाडवं वह्निमादाय हयवेगेन निःसृता ॥ ४३ ॥
भित्त्वा वेगाद्धरापृष्ठं प्रविष्टाथ महीतलम्॥
यदायदाभवच्छ्रांता दह्यते वाडवाग्निना ॥
तदातदा मर्त्यलोके याति प्रत्यक्षतां नदी ॥ ४४ ॥
ततस्तु जायते प्राची संतप्ता वाडवेन तु ॥
ततो वै यानि तीर्थानि कीर्त्तितानि पुरातनैः ॥ ४५ ॥
दिव्यांतरिक्षभौमानि सांनिध्यं यांति भामिनि ॥
ततश्चाश्वासिता तैः सा सरस्वती पुनर्नदी ॥
पातालतलमा साद्य जगाम मकरालयम् ॥ ४६ ॥
खदिरामोदमासाद्य तत्र सा वीक्ष्य सागरम् ॥
गंतुं प्रवृत्ता तं वह्निमादाय सुरसुंदरि ॥४७॥
निरूढभारमात्मानं देवादेशाद्विचिंत्य सा ॥
प्रहृष्टा सुमनास्तस्मात्प्रवृत्ता दक्षिणामुखी ॥ ४८ ॥
एतस्मिन्नेव काले तु ऋषयो वेदपारगाः ॥
चत्वारश्च महादेवि प्रभासं क्षेत्रमाश्रिताः ॥ ४९ ॥
हरिणश्चाथ वज्रश्च न्यंकुः कपिल एव च ॥
तपस्तप्यंति तत्रस्थाः स्वाध्यायासक्तमानसाः ॥ 7.1.33.५० ॥
पृथक्पृथक्समाहूताः स्नानार्थं तैः सरस्वती ॥
सागरः सम्मुखस्तस्याः सहसा सम्मुपस्थितः ॥ ५१ ॥
ततः सा चिन्तयामास कथं मे सुकृतं भवेत् ॥
शापभीता च सा साध्वी पंचस्रोतास्तदाऽभवत् ॥ ५२ ॥
एकैकं तोषयामास तमृषिं वरवर्णिनि ॥
ततोऽस्याः पंच नामानि जातानि पृथिवीतले ॥ ५३ ॥
हरिणी वज्रिणी न्यंकुः कपिला च सरस्वती ॥
पानावगाहनान्नृणां पंचस्रोताः सरस्वती ॥ ५४ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
एषां संयोगजं चान्यन्नराणां पंचमं हि यत् ॥ ५५ ॥
एतत्पंचविधं पुंसां पंचधाऽवस्थिता सती ॥
नाशयेत्पातकं घोरं सखीभिः सहिता नदी॥५६॥
ब्रह्महत्यां महाघोरां प्रतिलोमा सरस्वती ॥
पानावगाहनान्नृणां नाशयत्यखिलं हि सा ॥ ५७ ॥
प्रमादान्मदिरापानदोषेणोपहतात्मनाम् ॥
तद्व्यपोहाय कपिला द्विजानां वहते नदी ॥ ५८ ॥
उपवासाज्जपाद्धोमात्स्नानात्पानाद्द्विजन्मनाम् ॥
सप्ताहान्नाशयेत्पापं तत्तद्भावेन चेतसा॥५९॥
स्वयं तेऽपि विशुध्यंति यथोक्तविधिकारिणः ॥
न्यंकुं नदीं समासाद्य महतः पातकात्कृतात् ॥ 7.1.33.६० ॥
स्नानोपासनपानेन वज्रिणी गुरुतल्पगम् ॥
नाशयत्यखिलं पुंसां पापं भूरिभयंकरम् ॥ ६१ ॥
संयोगजस्य पापस्य हरणाद्धरिणी स्मृता ॥
नदी पुण्यजलोपेता सप्ताहमवगाहनात् ॥ ६२ ॥
एवमेतानि पापानि सर्वाणि सुरसुंदरि ॥
नदी नाशयते तथ्यं पंचस्रोता सरस्वती ॥ ६३ ॥
ततोऽपश्यत्पुनश्चारु सा देवी पथि संस्थितम् ॥
पर्वतं सागरस्यांते रोद्धुं मार्गमिव स्थितम् ॥ ६४ ॥
ब्रह्माण्डमानदण्डोऽयं पुरतो गिरिसत्तमः ॥
व्रजन्त्याः सुरकार्येण मम विघ्नकरः स्थितः ॥ ॥ ६५ ॥
उच्चैस्तरं महाशैलमवलोक्य सरस्वती ॥
अथ वेगेन रुद्धेन गिरिणा विस्मिता सती ॥ ६६ ॥
एवं संचिन्तयेद्यावन्मनसा तन्म हाद्भुतम् ॥
तावन्मंगलशब्देन प्रतिबुद्धः कृतस्मरः ॥ ६७ ॥
गिरिशृंगद्वंद्वचरं ददर्श पुरुषं च सा ॥
तामाह देवीं स नगो मार्गो नास्तीह सुव्रते ॥ ६८ ॥
अन्यत्र क्वापि गच्छ त्वं यत्र तेऽभिमतं शुभे ॥
आहैवमुक्ते सा देवी नरं नगशिरःस्थितम् ॥ ६९ ॥
देवादेशात्समायाता न निरोध्या गिरे त्वया ॥
एवमुक्ते गिरिः प्राह तां देवीं सुमनोरमाम् ॥ 7.1.33.७० ॥
पर्वतोऽहं त्वया भद्रे किं न ज्ञातः कृतस्मरः ॥
त्वत्स्पर्शनान्न दोषोस्ति कुमारी त्वं यतोऽनघे ॥ ७१ ॥
अतस्त्वां वरये देवि भार्या मे भव सुव्रते ॥ ७२ ॥
॥ सरस्वत्युवाच ॥ ॥
पिता मे ध्रियते यस्मात्तेन नाहं स्वयंवरा ॥
तव भार्या भविष्यामि मार्गं यच्छ ममाधुना ॥ ७३ ॥
एवमुक्तो गिरिः प्राह अनिच्छंतीं महाबलात् ॥
उद्वाहयिष्ये त्वां भद्रे कस्त्राता स्ति तवाधुना ॥ ७४ ॥
सा तं मनोभवाक्रान्तं मत्वा दिव्येन चक्षुषा ॥
आह नास्ति मम त्राता त्वामेव शरणं गता ॥ ७५ ॥
त्वयोद्वाह्या यद्य वश्यमहमेवं महाबल ॥
अस्नातां नोद्वह विभो स्नानं कर्त्तुं च देहि मे ॥ ७६ ॥
तामुवाच ततः शैलः स्वसंपदभिमानवान् ॥
सौख्यदं पश्य सुभगे मयि संपूर्णवैभवम् ॥ ७७ ॥
द्वंद्वानि यत्र गायंति किंनराणां मनोरमम् ॥
श्रूयते च सुनिध्वानं तंत्रीवाद्यमथापरम् ॥ ७८ ॥
तत्र तालास्तमालाश्च पिप्पलाः पनसास्तथा ॥
सदैव फलपुष्पाश्चा दृश्यंते सुमनोरमाः ॥७९॥
कुटजैः कोविदारैश्च कदंबैः कुरबैस्तथा ॥
मत्तालिकुलघुष्टैश्च भूधरो भाति सर्वतः ॥ 7.1.33.८० ॥
हरांगरागवद्भाति क्वचित्कुटजकुड्मलैः ॥
क्वचित्तु कर्णिकारैश्च विष्णोर्वासःसमप्रभः ॥ ८१ ॥
तमालदलसंछन्नः क्वचिद्वैवस्वतद्युतिः॥
क्वचिद्धातुविलिप्तांगो गणाध्यक्षवपुर्नगः ॥ ८२ ॥
चतुर्मुख इवाभाति हरितालवपुः क्वचित् ॥
क्वचित्सप्तच्छदैर्विष्णोर्वपुषा भात्ययं गिरिः॥ ८३ ॥
क्वचित्कात्यायनीप्रख्यः प्रियंगुसुसमाकुलः ॥
क्वचित्केसरसंयुक्तैरनलाभो विभात्यसौ ॥ ८४ ॥
वृत्तैः सपुलकैः स्निग्धैः स्त्रीणामिव पयोधरैः ॥
दुष्प्राप्यैरल्पपुण्यानां क्वचिदाभाति बिल्वकैः ॥ ८५ ॥
सिंहैर्व्याघ्रैर्मृगैर्नागैर्वराहैर्वानरैस्तथा ॥
क्वचित्क्वचिदसौ भाति परस्परमनुव्रतैः ॥ ८६ ॥
शूलिकोद्भिन्नमाकाशमिव कुर्वद्भिरुच्चकैः ॥
एवमुक्ते प्रत्युवाच शारदा तं नगोत्तमम् ॥ ८७ ॥
यदि मां त्वं परिणये रुदंतीमेकिकां तथा ॥
गृहाण वाडवं हस्ते यावत्स्नानं करोम्यहम् ॥ ८८ ॥
एवमुक्ते स जग्राह त नगेद्रोऽपवर्जिम् ॥
कृतस्मरस्तत्संस्पर्शात्क्षणाद्भस्मत्वमागतः ॥ ८९ ॥
ततः प्रभृति ते तस्य पाषाणा मृदुतां गताः ॥
गृहदेवकुलार्थाय गृह्यंते शिल्पिभिः सह ॥ 7.1.33.९० ॥
दग्ध्वा कृतस्मरं देवी पुनरादाय वाडवम् ॥
समुद्रस्य समीपे सा स्थिता हृष्टतनूरुहा ॥ ९१ ॥
तत्रस्था सा महादेवी तमाह वडवानलम् ॥
पश्य वाडव गर्जन्तं सागरं पुरतः स्थितम् ॥ ९२ ॥
गर्जंतं सोऽपि तं दृष्ट्वा प्रसर्पंतं च वीचिभिः ॥
तामाह किमिदं भद्रे भीतो मे लवणोदधिः ॥ ९३ ॥
प्रहस्योवाच सा बाला को न भीतस्तवानल ॥
भक्ष्यस्ते विहितो यस्मात्तव देवैर्महाबल ॥ ९४ ॥
स तस्यास्तद्वचः श्रुत्वा संप्रहृष्टस्तु पावकः ॥
दास्यामि ते वरं भद्रे यथेष्टं प्रार्थयस्व नः ॥९५॥
तेनैवमुक्ता सा देवी वाडवेनाग्निना तदा ॥
सस्मार कारणात्मानं विष्णुं कमललोचनम् ॥ ९६ ॥
दृष्टोसावात्महृत्संस्थस्तया देवो जनार्द्दनः ॥
स्मृतमात्रः सरस्वत्या परस्त्रिभुवनेश्वरः ॥९७॥
मनोदृष्ट्या विलोक्याह सा तमंतःस्थमच्युतम् ॥
वाडवो यच्छति वरमहं तं प्रार्थयामि किम्॥९८॥
ततस्तेन हृदिस्थेन प्रोक्ता देवी सरस्वती ॥
प्रार्थनीयो वरो भद्रे सूचीवक्त्रत्वमादरात् ॥ ९९ ॥
ततस्त्वभिहितो देव्या यदि मे त्वं वरप्रदः ॥
ततः सूचीमुखो भूत्वा त्वं पिबापो महाबल ॥ 7.1.33.१०० ॥
एवमुक्तेन तत्तेन सूचीवेधसमं कृतम् ॥
घटिकापूरणं यद्वत्पपौ तद्वदनं जलम् ॥ १०१ ॥
एवं स वाडवो वह्निः सुराणां भक्षणोद्यतः ॥
वंचितो विष्णुना याति मेधामाधाय यत्नतः ॥ १०२ ॥
सर्गमेतं नरः पुण्यं वाच्यमानं शृणोति यः ॥
स विष्णु लोकमासाद्य तेनैव सह मोदते ॥१०३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सर स्वतीवृत्तांतवडवानलवचनवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ छ ॥