स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०२९

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
अग्नितीर्थं ततो गच्छेत्सागरस्य तटे शुभे ॥
यत्राऽसौ वाडवो मुक्तः सरस्वत्या वरानने ॥ १ ॥
दक्षिणे सोमनाथस्य सर्वपापप्रणाशनम् ॥
तीर्थं त्रैलोक्यविख्यातं पद्मकं नाम नामतः ॥ २ ॥
धन्वंतरशते प्रोक्तं सोमेशाज्जलमध्यगम्॥
कुण्डं पापहरं प्रोक्तं शतहस्तप्रमाणतः ॥
तत्र स्नानं प्रकुर्वीत विगाह्य निधिमंभसाम् ॥ ३ ॥
आदौ कृत्वा तु वपनं सोमे श्वरसमीपतः ॥
शंकरं मनसा ध्यायन्केशांस्तत्र परित्यजेत् ॥
समुत्तार्य ततः केशान्भूयः स्नानं समाचरेत् ॥ ४ ॥
यत्किंचित्कुरुते पापं मनुष्यो वृत्तिकर्शितः ॥
तदेव पर्वतसुते सर्वं केशेषु तिष्ठति ॥ ५ ॥
तस्मात्सर्वप्रयत्नेन केशांस्तत्र विनिक्षिपेत् ॥
तदेव सोमनाथाग्रे कृत्वा तु द्विगुणं फलम्॥ ६ ॥
अग्नितीर्थसमीपस्थं कपर्द्दिद्वारमध्यगम् ॥
तत्रैव द्विगुणं ज्ञेयमन्यत्रैकगुणं स्मृतम् ॥ ७ ॥
क्षुरकर्म न शस्तं स्याद्योषितां तु वरानने ॥
सभर्तृकाणां तत्रैव विधिं तासां शृणुष्व मे ॥ ८ ॥
सर्वान्केशान्समुद्धृत्य च्छेदयेदंगुलद्वयम् ॥
ततो देवान्विधानेन तर्प्पयेत्पितृदेवताः॥९॥
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥ 7.1.29.१० ॥
गंगायां भास्करे क्षेत्रे मातापित्रोर्गुरौ मृते ॥
आधाने सोमपाने च वपनं सप्तसु स्मृतम् ॥ ११ ॥
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥
नासौ तत्फलमाप्नोति वपनाद्यच्च लभ्यते ॥ १२ ॥
विना मन्त्रेण यस्तत्र देवि स्नानं समाचरेत् ॥
समाप्नोति क्वचिच्छ्रेयो मुक्त्वैकं पर्ववासरम्॥ १३ ॥
विना मंत्रं विना पर्व क्षुरकर्म विना नरैः ॥
कुशाग्रेणापि देवेशि न स्प्रष्टव्यो महोदधिः ॥ ॥ १४ ॥
एवं स्नात्वा विधानेन दत्त्वाऽर्घ्यं च महोदधौ ॥
संपूज्य पुष्पगंधैश्च वस्त्रैः पुण्यानुलेपनैः ॥ १५ ॥
हिरण्मयं यथाशक्त्या निक्षिपेत्तत्र कंकणम् ॥ १६ ॥
एवं कृत्वा विधानं तु स्पर्शयेल्लवणोदधिम् ॥
मन्त्रेणानेन देवेशि ततः सांनिध्यतां व्रजेत् ॥ १७ ॥
ॐ नमो विष्णुगुप्ताय विष्णुरूपाय ते नमः ॥
सांनिध्ये भव देवेश सागरे लवणाम्भसि ॥ १८ ॥
अग्निश्च रेतो मृडया च देहो रेतोधा विष्णुरमृतस्य नाभिः ॥
एतद्ब्रुवन्पार्वति सत्यवाक्यं ततोऽवगाहेत्तु पतिं नदीनाम् ॥ १९ ॥
ॐ नमो रत्नगर्भाय मन्त्रेणानेन भामिनि ॥
कंकणं प्रक्षिपेत्तत्र ततः स्नायाद्यदृच्छया ॥7.1.29.२०॥
ततश्च तर्पयेद्देवान्मनुष्यांश्च पितामहान्॥
तिलमिश्रेण तोयेन सम्यक्छ्रद्धासमन्वितः॥२१॥
आजन्मशतसाहस्रं यत्पापं कुरुते नरः॥
सकृत्स्नात्वा व्यपोहेत सागरे लवणाम्भसि॥२२॥
वृषभस्तत्र दातव्यः प्रवृत्ते क्षुरकर्मणि॥
आत्मप्रकृतिदानं च पीतवस्त्रं तथैव च॥२३॥
अनेन विधिना तत्र सम्यक्स्नानं समाचरेत् ॥
स्पर्शयेद्वाडवं तेजश्चान्यथा दोषभाग्भवेत् ॥ २४ ॥
वरः शापश्च तस्यायं पुरा दत्तो यथा द्विजैः ॥। २५ ॥
॥ देव्युवाच ॥ ॥
कुत्र कुत्र महादेव जलस्नानाद्विशुध्यति ॥
किमर्थं सागरे दोषः प्राप्यते कौतुकं महत् ॥ २६ ॥
यत्र गंगादयः सर्वा नद्यो विश्रांतिमागताः ॥
यत्र विष्णुः स्वयं शेते यत्र लक्ष्मीः स्वयं स्थिता ॥ २७ ॥
किमर्थं वरशापं तु तस्य दत्तं द्विजैः पुरा ॥
सर्वं विस्तरतो ब्रूहि महान्मे संशयोऽत्र वै ॥ २८ ॥
॥ ईश्वर उवाच ॥ ॥
दीर्घसत्रं पुरा देवि प्रारब्धं सुरसत्तमैः ॥
प्रभासं तीर्थमासाद्य सम्यक्छ्रद्धा समन्वितैः ॥ २९ ॥
ततः सत्रावसाने तु दत्त्वा दानमनेकधा ॥
सर्वस्वं ब्राह्मणेन्द्राणां प्रभासक्षेत्रवासिनाम् ॥ 7.1.29.३० ॥
तावदन्ये द्विजास्तत्र दक्षिणार्थं समागताः ॥
देशीयास्तत्र वास्तव्याः शतशोऽथ सहस्रशः ॥ ३१ ॥
प्रार्थनाभङ्गभीताश्च ततो देवाः सवासवाः ॥
प्रणष्टास्तान्सुरान्दृष्ट्वा ब्राह्मणाश्चानुवव्रजुः ॥ ३२ ॥
खेचरत्वं पुरा देवि ह्यासीदग्रभुवां महत् ॥
तेन यांति द्रुतं सर्वे यत्र यत्र सुरालयाः ॥ ३३ ॥
एवं सर्वत्रगामित्वं तेषां वीक्ष्य दिवौकसः ॥
प्रविष्टाः सागरं भीता ऊचुर्वाक्यं च तं पुनः ॥ ३४ ॥
शरणं ते वयं प्राप्ता ब्राह्मणेभ्यो भयं गताः ॥
नास्ति वित्तं च दानार्थं तस्माद्रक्ष महोदधे ॥ ३५ ॥
एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः ॥
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम्॥
विशेषतश्च देवानां रक्षणं बहुपुण्यदम्॥ ३६ ॥
॥ समुद्र उवाच ॥ ॥
ब्राह्मणेभ्यो न भीः कार्या कथंचित्सुरसत्तमाः ॥
अहं वो रक्षयिष्यामि प्रविशध्वं ममोदरे ॥ ३७ ॥
ततस्ते विबुधाः सर्वे तस्य वाक्येन हर्षिताः ॥
प्रविष्टा गह्वरां कुक्षिं तस्यैव भय वर्ज्जिताः ॥ ३८ ॥
समुद्रोऽपि महत्कृत्वा निजरूपं च भूरिशः ॥
जलजाञ्जीवसंघातान्धृत्वा तीरसमीपतः ॥ ३९ ॥
ततश्चक्र उपायं स ब्राह्मणानां निपातने ॥
मत्स्यानामामिषं पक्त्वा महान्नेन च गोपितम् ॥ 7.1.29.४० ॥
अथोवाच द्विजान्सर्वान्प्रणिपत्य कृतांजलिः ॥
प्रसादः क्रियतां विप्रा मुहूर्त्तं मम सांप्रतम्॥ ४१ ॥
आतिथ्यग्रहणादेव दीनस्य प्रणतस्य च ॥
युष्मदर्थं मया सम्यगेतत्पाकं समावृतम् ॥
क्रियतां भोजनं भूयो गंतव्यमनु नाकिनाम् ॥ ४२ ॥
अथ ते ब्राह्मणा मत्वा समुद्रं श्रद्धयान्वितम् ॥
बाढमित्येव तं प्रोच्य बुभुजुः स्वर्णभाजने ॥ ४३ ॥
न व्यजानंत तन्मांसं गुप्तं स्वादु क्षुधार्द्दिताः ॥ ४४ ॥
ततस्तृप्ताश्च ते विप्रा ब्राह्मणा विगतक्षुधः ॥
आशीर्वादं ददुः सर्वे ब्राह्मणाः शंसित व्रताः ॥ ४५ ॥
भोजनांतो ब्राह्मणानां प्राणांतः क्षत्रजन्मनाम् ॥
आशीविषाणां सर्पाणां कोपो ज्ञेयो मृतावधिः ॥
प्रेरयामास देवान्वै गम्यतामित्युवाच तान् ॥४६॥
ततो देवाः सगंधर्वा गच्छंतः शीघ्रगा वियत् ॥
गच्छतस्तांस्ततो दृष्ट्वा ब्राह्मणास्तत्र वंदिता ॥ ४७ ॥
दक्षिणार्थं समुत्पेतुः सुरानुद्दिश्य पृष्ठतः ॥ ४८ ॥
ततः प्रपतिता भूमौ द्विजास्ते सहसा पुनः ॥
अभक्ष्यभक्षणात्ते वै ब्राह्मणा मांसभक्षणात्॥ ४९ ॥
निष्कृतिं तां परिज्ञाय समुद्रस्य रुषान्विताः ॥
ददुः शापं महादेवि रौद्रं रौद्रवपुर्द्धराः ॥ 7.1.29.५० ॥
यस्मादभक्ष्यं मांसं वै ब्राह्मणानां परं स्मृतम् ॥
त्वयोपहृतमस्माकं सुगुप्तं भक्ष्यसंयुतम् ॥ ५१ ॥
एकतः सर्वमांसानि मत्स्यमांसं तथैकतः ॥
एकतः सर्वपापानि परदारास्तथैकतः ॥ ५२ ॥
एवं वयं विजानन्तो यदि मांसस्य दूषणम् ॥
तथापि वंचिताः सर्वे अपरीक्षितकारिणः ॥ ५३ ॥
यस्मात्पापमते क्रूरं त्वया वै वञ्चिता वयम् ॥
मांसस्य भक्षणात्तस्मादपेयस्त्वं भविष्यसि ॥ ५४ ॥
अस्पृश्यस्त्वं द्विजेंद्राणामन्येषां च नृणां भुवि ॥
तवोदकेन ये मर्त्त्याः करिष्यंति कुबुद्धयः ॥ ५५ ॥
स्नानं ते नरकं घोरं प्रयास्यंति न संशयः ॥
कृतघ्नानां च ये लोका ये लोकाः पापकर्मिणाम् ॥ ५६ ॥
तांस्तवोदक संस्पर्शाल्लप्स्यंते मानवा भुवि ॥ ५७ ॥
॥ ईश्वर उवाच ॥ ॥
एवं शप्तः समुद्रस्तैर्ब्राह्मणैर्वरवर्णिनि ॥
ततो वर्षसहस्रं तु ह्यस्पृश्यः संबभूव ह ॥ ५८ ॥
ततस्त्रासाकुलो भूत्वा सर्वांस्तानिदमब्रवीत् ॥
देवकार्यमिदं विप्रा मया कृतमबुद्धिना ॥ ५९ ॥
बुभूषता परं धर्मं शरणागतसंभवम् ॥
कामात्क्रोधाद्भयाल्लोभाद्यस्त्यजेच्छरणागतम् ॥ 7.1.29.६० ॥
सत्याद्वापि स विज्ञेयो महापातककारकः ॥
युष्मद्भीत्या समायाताः स्वर्गिणः शरणं मम ॥ ६१ ॥
ते मया रक्षिताः सम्यग्यथाशक्त्या ह्युपायतः ॥
शोषयिष्येऽहमात्मानं यस्माच्छप्तः प्रकोपतः ॥ ६२ ॥
भवद्भिर्नोत्सहे स्थातुं जनस्पर्शविनाकृतः ॥
एवमुक्त्वा ततो देवि समुद्रः सरितांपतिः ॥
आत्मानं शोषयामास दुःखेन महता स्थितः ॥६३॥
ततो देवगणाः सर्वे स्थलाकारं महार्णवम् ॥
शनैःशनैः प्रपश्यंतो भयेन महताऽन्विताः ॥ ६४ ॥
ऊचुर्गत्वा तु लोकेशं देवदेवं पितामहम् ॥
अस्मत्कृते द्विजैः शप्तः सागरो ब्राह्मणोत्तमैः ॥ ६५ ॥
स शोषयति चात्मानं दुःखेन महतान्वितः ॥
समुद्राज्जलमादाय प्रवर्षंति बलाहकाः ॥ ६६ ॥
ततः संजायते सस्यं सस्याद्यज्ञा भवंति च ॥
यज्ञैः संजायते तृप्तिः सर्वेषां त्रिदिवौकसाम् ॥ ६७ ॥
एवं तस्य विनाशेन नाशोऽस्माकं भविष्यति ॥
तस्मात्त्वं रक्ष तं गत्वा यथा शोषं न गच्छति ॥ ६८ ॥
यथा तुष्यंति विप्रास्ते तथा नीतिर्विधीयताम् ॥ ६९ ॥
देवानां वचनाद्ब्रह्मा गत्वा सागरसन्निधौ ॥
समुद्रार्थे ययाचे तान्ब्राह्मणान्क्षेत्रवासिनः ॥ 7.1.29.७० ॥
॥ ब्रह्मोवाच ॥ ॥
प्रसादः क्रियतामस्य सागरस्य द्विजोत्तमाः ॥
यथा पवित्रतां याति मद्वाक्यात्क्रियतां तथा ॥ ७१ ॥
प्रदास्यति स युष्मभ्यं रत्नानि विविधानि च ॥ ७२ ॥
यूयं भविष्यथात्यंतं भूमिदेवा इति क्षितौ ॥
नाम्ना मद्वचनान्नूनं सत्यमेतन्मयोदितम् ॥ ७३ ।
॥ ब्राह्मणा ऊचुः ॥ ॥
नान्यथा कर्तुमिच्छामस्तव वाक्यं जगत्पते ॥
न च मिथ्याऽऽत्मनो वाक्यं प्रमाणं चात्र वै भवान् ॥ ७४ ॥
तन्नो वाक्यात्सुरश्रेष्ठ हितं वा यदि वाहितम् ॥
परं स्याज्जगतां श्रेयः सर्वेषां च दिवौकसाम् ॥
तथा कुरु जगन्नाथ अस्माकं हितकारणम् ॥ ७६ ॥
अथोवाच नदीनाथं ब्रह्मा लोकपितामहः॥
मा शोषय त्वमात्मानं हितं वाक्यं शृणुष्व मे ॥ ७६ ॥
नान्यथा शक्यते कर्त्तुं द्विजानां वचनं हि तत् ॥
ब्राह्मणाः कुपिता नूनं भस्मीकुर्युः स्वतेजसा ॥ ७७ ॥
देवान्कुर्युरदेवांश्च तस्मात्तान्नैव कोपयेत् ॥
यस्मादेव तव स्पर्शस्त्रिधा मेध्यो भविष्यति ॥ ७८ ॥
पर्वकाले च संप्राप्ते नदीनां च समागमे ॥
सेतुबंधे तथा सिंधौ तीर्थेष्वन्येषु संयुतः ॥ ७९ ॥
इत्येवमादिसर्वेषु मध्येऽन्यत्र न कर्मणि ॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥
तत्फलं तव तोयस्य स्पर्शादेव भविष्यति ॥7.1.29.८०॥
गयाश्राद्धे तु यत्पुण्यं गोग्रहे मरणेन च ॥
तत्फलं तव तोयस्य स्पर्शादेव भविष्यति ॥ ८१ ॥
अपेयस्त्वं तथा भावि स्वादमात्रेण केवलम् ॥
गंडूषमपि पीतं च तोयस्याशुभनाशनम् ॥ ८२ ॥
भविष्यति नृणां लोके तव सौख्यविवर्द्धनम् ॥
पितॄणां तव तोयेन यः करिष्यति तर्पणम् ॥
पूर्वोक्तेन विधानेन तस्य पुण्यफलं शृणु ॥ ९३ ॥
यावत्त्वं तिष्ठसे लोके यावच्चद्रार्कतारकाः ॥
तवोदकामृतैस्तृप्तास्तावत्स्थास्यंति पूर्वजाः ॥ ८४ ॥
माघे मासि च यः स्नायान्नैरंतर्येण भावितः ॥
पौंडरीकफलं तस्य दिवसेदिवसे भवेत् ॥ ८९ ॥
यात्रायामथवान्यत्र पर्वकाले शशिग्रहे ॥
अत्र स्नास्यति यः सम्यक्सागरे लवणांभसि ॥
अश्वमेधसहस्रस्य फलं प्राप्स्यति मानवः ॥ ८६ ॥
श्रीसोमेशसमुद्रस्य अंतरे ये मृता नराः ॥
पापिनोऽपि गमिष्यंति स्वर्गं निर्धूतकल्मषाः ॥ ८७ ॥
एवं भविष्यति सदा तव मद्वचनाद्विभो ॥
प्रयच्छस्व द्विजेंद्राणां रत्नानि विविधानि च ॥ ८८ ॥
तेन तुष्टा वरं भूयः प्रदास्यंति तवेप्सितम् ॥ ८९ ॥
॥ ईश्वर उवाच ॥ ॥
पितामहवचः श्रुत्वा बाढमित्येव सागरः ॥
ब्राह्मणेभ्यः सुरत्नानि ददौ श्रद्धा समन्वितः ॥7.1.29.९०॥
ब्राह्मणैर्ब्रह्मणो वाक्यमशेषं समनुष्ठितम् ॥
क्षुरकर्म तथा कृत्वा स्नानं सर्वेऽपि चक्रिरे ॥ ९१ ॥
एवं पवित्रतां प्राप्तस्तीर्थत्वं लव णोदधिः ॥
तस्य मध्ये महादेवि लिंगानां पंचकोटयः ॥ ९२ ॥
अस्मिन्मन्वंतरे देवि अदृश्याः सागरे कृताः ॥
अग्निकुण्डं च तत्रैव तथान्यत्पद्मकं सरः ॥९३ ॥
मध्ये तु प्रावृतं सर्वमस्मिन्मन्वंतरे प्रिये ॥
चक्रमैनाकयोर्मध्ये दिशि दक्षिणमुच्यते ॥ ९४ ॥
शातकुम्भमये कुम्भे धनुषायुतविस्तृते ॥ ॥
तत्र कुंभस्य मध्यस्थो वडवानलसंज्ञितः ॥ ९५ ॥
सूचीवक्त्रो महाकायः स जलं पिबते सदा ॥
एतदंतरमासाद्य अग्नितीर्थं प्रचक्षते ॥ ९६ ॥
तस्य मध्ये महासारं वाडवं यत्र वै मुखम् ॥
श्रीसोमेशाद्दक्षिणतो धन्वंतरशतावधि ॥
उत्तरान्मानसात्पूर्वं यावदेव कृतस्मरम् ॥ ९७ ॥
एतद्गोप्यं वरारोहे न देयं यस्य कस्यचित् ॥
ब्रह्मघ्नोपि विशुध्येत श्रुत्वैतन्नात्र संशयः ॥ ९८ ॥
एवं शापो वरो दत्तः सागरस्य यथा द्विजैः ॥
पूर्वं रुष्टैस्ततस्तुष्टैस्तत्सर्वं कथितं मया ॥९९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये समुदस्यापेयताकारण वर्णनंनामैकोनत्रिंशोऽध्यायः ॥२९॥