स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०२३

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ईश्वर उवाच ॥ ॥
ततः शांतमना भूत्वा चंद्रमा विस्मयान्वितः ॥
शंभुभक्त्या परीतात्मा प्रभासक्षेत्रमास्थितः ॥ १ ॥
पूर्वोक्तं यत्तु देवेन स तथा कृतवान्विभुः ॥
गत्वा सागरमध्ये तु गृहीत्वा लिंगमुत्तमम् ॥ २ ॥
विश्वकर्म्माणमाहूय सहितं परिचारकैः ॥
आदिदेश स्वयं सोमस्त्वष्टारं देवशिल्पिनम्॥ ३ ॥
॥ चंद्र उवाच ॥ ॥
विश्वकर्मन्निदं लिंगं मम दत्तं तु शंभुना ॥
गृहाण त्वं महाबाहो युक्तस्थाने निवेशय ॥ ४ ॥
रक्षस्व तावद्गन्तास्मि स्वकीयं भवनं विभो ॥
यज्ञार्थमानयिष्यामि यज्ञोपकरणानि च ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्त्वा च तदा चंद्रश्चंद्र लोकं जगाम ह॥
गत्वा तत्र महादेवि चंद्रलोकंमहाप्रभम्॥६॥
कोटियोजनविस्तीर्णं सदामृतमयं शुभम्॥
तत्राहूय महादेवि प्रतीहारं सुमेधसम् ॥ ७ ॥
मंत्रिणं हेमगर्भांगं बृहस्पतिसमं धिया ॥
यज्ञोपस्करसंभारं सर्वमादाय सत्वराः ॥ ८ ॥
प्रभासक्षेत्रं गच्छंतु ममादेशपरायणाः ॥
साग्निभिर्ब्राह्मणैः सार्द्धं गच्छंतु क्षेत्रमुत्तमम् ॥ ९ ॥
शीघ्रं संपाद्यतां सर्वं यथा यज्ञः प्रवर्तते ॥
सर्वेषामेव विप्राणां चंद्रलोकनिवासिनाम् ॥ 7.1.23.१० ॥
पृथक्पृथग्विमानं तु देयं तेषां महाधनम् ॥
गवां च दशलक्षाणां सवत्सानां पयोमुचाम् ॥ ११ ॥
हेमभारैर्भूषितानां कामधेनूपमत्विषाम्॥
अश्वानां श्यामकर्णानां सपादं लक्षमेव च ॥ १२ ॥
दंतिनामयुतं चैव घंटाभरणशोभितम् ॥
सहस्राणि च चत्वारि रथानां वातरंहसाम् ॥ १३ ॥
लक्षं तु करभाणां च मणिमाणिक्यसंयुतम् ॥
सैन्यानां कोटिरेका तु चतुरंगबलान्विता ॥ १४ ॥
अग्निशौचानि वस्त्राणि ब्राह्मणार्थं तथैव च ॥
विभूषणानि दिव्यानि ऋत्विगर्थं शुभानि च ॥ १५ ॥
नानाभक्ष्याणि भोज्यानि पानानि विविधानि च ॥
लक्षं कर्मकराणां तु दासीनां लक्षमेव च ॥ ॥ १६ ॥
दारुवंशावधि प्रोक्तं यत्किंचित्स्वं मदाज्ञया ॥
अन्यद्यद्ब्राह्मणा ब्रूयुस्तत्सर्वं तत्र नीयताम् ॥ १७ ॥
देवानां दानवानां तु यक्षगंधर्वरक्ष साम् ॥
सप्तद्वीपक्षितीशानां सप्तपातालवासिनाम् ॥ १८ ॥
नानानृपसहस्राणां घोषणा क्रियतां मुहुः ॥
सर्वेषां घोषणा कार्या प्रभासागमनं प्रति ॥ १९ ॥
इत्युक्त्वा मंत्रिणं तत्र चंद्रमास्त्वरयाऽन्वितः ॥
ब्रह्मलोकं स गतवान्यज्ञार्थं ब्रह्मणोंतिकम् ॥ 7.1.23.२० ॥
सोऽपि चंद्रमसो मंत्री हेमगर्भो महाप्रभः ॥
सोमाज्ञां शिरसा कृत्वा यज्ञसंभारसंभृतः ॥२१॥
प्रभासं क्षेत्रमागत्य यज्ञार्थं यत्नवानभूत् ॥
तथैव चाह्वयांचक्रे भूर्भुवःस्वर्निवासिनः ॥ ॥ २२ ॥
श्रुत्वा तु घोषणां सर्वे शीघ्रं तत्र समाययुः॥
रवियोजनपर्यंतं क्षेत्रमालोक्य तत्र तत् ॥२३॥
ब्राह्मणांश्च समाहूय सोमाध्यक्षं उवाच तान् ॥
यज्ञांगं सर्वमानीतं मया सोमाज्ञया द्विजाः ॥
अनंतरं तु यत्कृत्यं भवद्भिस्तद्विधीयताम् ॥ २४ ॥
इत्युक्ता ब्राह्मणाः सर्वे तपोनिर्धूतकल्मषाः ॥
तत्रैव ददृशुः सर्वे त्वष्टारं देवशिल्पिनम् ॥ २५ ॥
तं दृष्ट्वा तु द्विजाः सर्वे लिंगं दृष्ट्वा समीपतः ॥
कथमेतदिति प्रोचुर्विश्वकर्मन्ब्रवीहि नः ॥
कस्मादत्र स्थितस्त्वं वै शिल्पिकोटिसमन्वितः ॥ २६ ॥
॥ विश्वकर्म्मोवाच ॥ ॥
अहं सोमनियुक्तस्तु युक्तोऽस्मि लिंगरक्षणे ॥
तदाज्ञापालने यत्नः क्रियतेऽतो मया द्विजाः ॥ २७ ॥
॥ ईश्वर उवाच ॥ ॥
एवं श्रुत्वा यदा विप्रा ज्ञात्वा सर्वं तु कारणम् ॥
चरिता यज्ञकार्यार्थं ततश्चक्रुरुप क्रमम् ॥ २८ ॥
तत्र योजनपर्यंतं देवानां यजनं शुभम् ॥
तद्देवयजनं कृत्वा पत्नीशालां च चक्रिरे ॥ २९ ॥
हविर्द्धानं सदश्चैव उत्तरा वेदिरेव च ॥
ब्रह्मणः सदनाग्नीध्रीत्येवं स्थानानि चक्रिरे ॥ 7.1.23.३० ॥
तत्र योजनपर्यंतं यज्ञयूपांश्च मंडपान् ॥
विश्वकर्मा चकाराशु कुंडानि विविधानि च ॥ ३१ ॥
सहस्रसंख्यया तत्र कुण्डानां मंडपावधि ॥
तत्र ते ब्राह्मणाः सर्वे प्रतिष्ठायज्ञकोविदाः ॥ ३२ ॥
नानाभरणरत्नैश्च ब्राह्मणाः समलंकृताः ॥
चक्रुः सर्वे यथन्यायं शास्त्रं दृष्ट्वा पुनःपुनः ॥ ३३ ॥
वृक्षांस्तथौषधीर्दिव्या समित्पुष्पकुशादिकान् ॥
होमद्रव्यादिकं सर्व माज्यं प्राज्यं नवं पयः ॥ ३४ ॥
तथान्यदपि यत्किंचिद्यज्ञोपकरणं स्मृतम् ॥
वर्द्धनीकलशाद्यं च सर्वं हेममयं शुभम् ॥ ३५ ॥
चक्रुः सर्वं यथान्यायं प्रतिष्ठामखमादृताः ॥
तत्र विप्रगणो हृष्टो भक्ष्यभोज्यादितर्पितः ॥ ३६ ॥
वेदध्वनितनिर्घोषैर्दिवं भूमिं च संस्पृशन् ॥
सुशुभे मंडपस्तत्र पताकाभिरलंकृतः ॥ ३७ ॥
दिव्यसिंहासनोपेतो मुक्तादामपरिष्कृतः ॥
दिव्यचन्दनमालाभिः कल्पपल्लवतोरणैः ॥ ३८ ॥
दिव्यगन्ध सुगन्धाद्यैः स्वर्गस्थानमिवाभवत् ॥
चतुर्दशविधस्तत्र भूतग्रामः समागतः ॥ ३९ ॥
स्थावरः सर्पजातिश्च पक्षिजातिस्तथैव च ॥
मृगसंज्ञश्चतुर्थश्च पश्वाख्यः पञ्चमः स्मृतः ॥ 7.1.23.४० ॥
षष्ठश्च मानुषः प्रोक्तः पैशाचः सप्तमः स्मृतः ॥
अष्टमो राक्षसः प्रोक्तो नवमो यज्ञ एव च ॥ ४१ ॥
गांधर्वशाक्रसौम्याश्च प्राजापत्यस्तथैव च ॥
ब्राह्मश्चेति समाख्यातश्चतुर्दशविधो गणः ॥ ४२ ॥
विश्वेदेवास्तथा साध्या मरुतो वसवस्तथा ॥
लोकपालास्तथाष्टौ च नक्षत्राणि ग्रहैः सह ॥ ४३ ॥
ब्रह्माण्डे देवता याश्च ताः सर्वास्तत्र चागताः ॥
हृष्टाः प्रभासके क्षेत्रे प्रारब्धे यज्ञकर्म्मणि ॥ ४४ ॥
घृतक्षीरवहा नद्यो दधिपायसकर्दमाः॥
पक्वान्नानां फलानां च राशयः पर्वतोपमाः ॥ ४५ ॥
दृश्यन्ते विविधाकारास्तस्मिन्यज्ञमहोत्सवे ॥
जगु(?)स्तत्रैव गन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ४६ ॥
भक्ष्यभोज्यैश्च विविधैः कामपानादिभिस्तथा ॥
तृप्ता देवाश्च मुनयो भूतग्रामाश्चतुर्दश ॥ ४७ ॥
एवं संभारसहितं यज्ञांगं सर्वमेव हि ॥
प्रगुणीकृत्य सचिवो मुक्त्वा तत्रैव रक्षकान् ॥
सोमस्याह्वाननार्थं च ब्रह्मलोकं जगाम ह ॥ ४८ ॥
॥ ईश्वर उवाच ॥ ॥
स दृष्ट्वा ब्रह्मणः पार्श्वे स्थितं सोममहाप्रभम् ॥
प्रणम्य दण्डवद्भूमौ सोमं ब्रह्माणमेव च ॥ ४९ ॥
कृतांजलिपुटो भूत्वा उवाच नतकंधरः ॥
॥ हेमगर्भ उवाच ॥ ॥
भगवन्भवदादेशाद्यज्ञांगं सर्वमेव हि ॥ 7.1.23.५० ॥
तत्र प्राभासिके क्षेत्रे मया ते प्रगुणीकृतम् ॥
तत्र ब्रह्मर्षयः सर्वे तथा राजर्षयोऽपरे ॥ ५१ ॥
त्वन्मार्गप्रेक्षकाः सर्वे सन्तिष्ठन्ते समाकुलाः ॥
अनन्तरं तु यत्कृत्यं तद्भवान्कर्तुमर्हति ॥ ५२ ॥
॥ ॥ ईश्वर उवाच ॥ ॥
इत्युक्तस्तु तदा चन्द्रः समुद्रस्य सुतेन वै ॥
प्रहस्योवाच ब्रह्माणं चन्द्रमा लोकसाक्षिणम् ॥ ५३ ॥
भगवन्सर्वदेवेश ममानुग्रहकाम्यया ॥
प्रतिष्ठायज्ञकामस्य ममातिथ्यं कुरु प्रभो ॥ ५४ ॥
अद्य मे सफलं जन्म सफलं च तपः प्रभो ॥
देवत्वमद्य मे ब्रह्मंस्त्वत्प्रसादाद्भविष्यति ॥ ५५ ॥
मया च तपसोग्रेण प्राप्तं लिंगमुमापतेः ॥
तत्प्रतिष्ठाविधिं सर्वं तद्भवान्कर्त्तुमर्हति ॥ ५६ ॥
॥ ब्रह्मोवाच ॥ ॥
अवश्यं तव कर्त्तास्मि प्रतिष्ठां शंकरात्मिकाम् ॥
त्वदाराधनलिंगे तु सोमेशेऽतिविशेषतः ॥ ५७ ॥
ये केचिद्भवितारो वा अतीता ये निशाकराः ॥
तेषां सोमान्वयानां च सर्वेषामाद्यदैवतम् ॥ ५८ ॥
योऽसौ सोमेश्वरो देव आदौ भैरवनामभृत् ॥
मन्वन्तरान्तरेऽतीते प्रतिष्ठेऽहं पुनःपुनः ॥५९॥
यदा प्राभासिकं क्षेत्रे गतोऽहं चाष्टवार्षिकः ॥
आहूतः पूर्वमिन्द्रेण भैरवस्य प्रतिष्ठिते ॥7.1.23.६०॥।
तत्प्रभृत्येव मे नाम बालरूपी निगद्यते ॥
अन्येषु सर्वतीर्थेषु वृद्धरूपी वसाम्यहम् ॥६१॥
प्रभासे तु पुनश्चंद्र बाल्याप्रभृति संवसे ॥
ब्रह्माण्डे यानि तीर्थानि ब्राह्मणास्तेषु ये स्मृताः ॥६२॥
तेषामाद्यो निशानाथ प्रभासेऽहं व्यवस्थितः ॥
कल्पेकल्पे निशानाथ मम नामांतरं भवेत्॥६३॥
स्वयंभूः प्रथमे नाम द्वितीये पद्मभूः स्मृतः॥
तृतीये विश्वकर्त्तेति बालरूपी तुरीयके ॥६४॥
एषामेव परीवर्तो नाम्नां भावि पुनःपुनः ॥
परार्द्धद्वयपर्यंतं प्रभासे संस्थितस्य मे ॥६५॥
आदिसोमेन तत्रैव शंभोर्नेत्रोद्भवेन वै ॥
प्रभासे तु तपस्तप्त्वा प्रत्यक्षीकृतईश्वरः ॥६६॥
ततो ददौ वरं तुष्टः पूर्वचन्द्रस्य शूलधृक् ॥
यस्मादाराधितोऽहं ते सोम भक्त्या चिरन्तनम् ॥६७॥
तस्मात्सोमेशनामैवमस्मिँल्लिंगे भविष्यति ॥
यावद्ब्रह्मा शतानन्दः प्रकृतौ न प्रलीयते ॥ ६८ ॥
ये केचिद्भवितारो वै रात्रिनाथा निशाकराः ॥
ते मदाराधनं चात्र करिष्यंति पुनःपुनः ॥६९॥
इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ॥
तस्मिन्काले मया सोम आद्यं लिंगं प्रतिष्ठितम् ॥7.1.23.७॥।
तदाप्रभृति सोमानां लक्षाणां द्वितयं गतम् ॥
सहस्रद्वितयं चैव शतं चैकं षडुत्तरम्॥७१॥
सप्तमस्त्वं महावाहो वर्त्तसे सोम सांप्रतम् ॥
एतावन्त्येव लिंगानि प्रतिष्ठां प्रापितानि मे ॥ ७२ ॥
एष एवाधुना सोऽहं तदाराधनजं फलम् ॥
प्रतिष्ठातास्मि भद्रं ते सोम कृत्य ममैव तत्॥ ७३ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्त्वा भगवान्ब्रह्मा वेदविद्यासमन्वितः ॥
सर्वदेवमयो देवैः सहितस्तीर्थसंयुतः ॥ ७४ ॥
सनत्कुमारप्रमुखै र्योगीन्द्रैर्ऋषिभिः सह ॥
बृहस्पतिं समाहूय पुरस्कृत्य पुरोधसम् ॥ ७५ ॥
हंसयानं समारुह्य कोटिब्रह्मर्षिभिः सह ॥
आगतः सोमराजेन तदा ब्रह्मा जगत्पतिः ॥ ७६ ॥
प्राभासिके महातीर्थे यत्र दारुवनं स्मृतम् ॥
ऋषितोया नदी यत्र महापातकनाशिनी ॥ ७७ ॥
अस्मिंस्तीर्थे प्रभासे तु ब्रह्मभागः स उच्यते ॥
त्रिदैवतमिदं क्षेत्रं मया ते कथितं प्रिये ॥ ७८ ॥
तत्रागत्व चतुर्वक्त्रो ब्राह्मभागेऽतिनिर्मले ॥
मुनीनाकारयामास उन्नत स्थानवासिनः ॥ ७९ ॥
आयांतं वेधसं दृष्ट्वा देवर्षिगुरुसंयुतम् ॥
ते सर्वे पूजयामासुः संस्तवैर्वेदसंमितैः ॥ 7.1.23.८० ॥
अथोवाच द्विजान्सर्वान्ब्रह्मा लोकपितामहः ॥
चिरमाराध्य सोमेन सोमेशं पापनाशनम् ॥ ८१ ॥
तस्मिन्प्रसन्ने सोमेन लब्धं लिङ्गमनुत्तमम् ॥
प्रतिष्ठार्थं तु देवस्य आयाता द्विजसत्तमाः ॥ ८२ ॥
यथा मया सदा कार्या प्रतिष्ठा शंकरात्मिका ॥
भवद्भिः परिकार्या सा मम भागसमाश्रयैः ॥ ८३ ॥
यतः कोपेन भवतां लिंगं प्रपतितं भुवि ॥
प्रतिष्ठा तस्य कर्तव्या युष्माभिर्वै न संशयः ॥ ८४ ॥
॥ ईश्वर उवाच ॥ ॥
गृहीत्वाऽथ मुनीन्सर्वान्ब्रह्मा लोकपिता महः ॥
आनीतः सोमराजेन तदा ब्रह्मा जगत्पतिः ॥ ८५ ॥
प्राभासिके महातीर्थे सावित्र्या सहितः प्रभुः ॥
कारयामास कुण्डानां मण्डपानां शतंशतम् ॥ ८६ ॥
एकैके मण्डपे तत्र चक्रे सप्तदशर्त्विजः॥
गुरुणा प्रेरितो ब्रह्मा तत्र देवपुरोधसा ॥ ८७ ॥
पार्श्वे स्थितस्तदा ब्रह्मा विधानैर्वेद भाषितैः ॥
दीक्षयामास सोमं तु रोहिण्या सहितं विभुम् ॥ ८८ ॥
पत्नीं च रोहिणीं कृत्वा सर्वलक्षणसंयुताम् ॥
मृगचर्मधरां देवीं क्षौमवस्त्रावगुंठिता म् ॥८९ ॥
पत्नीशालां समानीता ऋत्विग्भिर्वेदपारगैः ॥
चंद्रमा दीक्षया युक्त ऋषिगंधर्वसंस्तुतः ॥ 7.1.23.९० ॥
औदुंबरेण दंडेन संवृतो मृगचर्मणा ॥
अतीव तेजसा युक्तः शुशुभे सदसि स्थितः ॥ ९१ ॥
ततो ब्रह्मा महादेवि सर्वलोकपितामहः ॥
ऋत्विजां वरणं चक्रे वेदोक्तविधिना तदा ॥ ९२ ॥
गुरुर्होता वृतस्तत्र वसिष्ठोऽध्वर्युरेव च ॥
तत्रोद्गाता मरीचिस्तु ब्रह्मत्वे नारदः कृतः ॥ ९३ ॥
सनत्कुमारसंयुक्ताः सदस्यास्तत्र वै कृताः ॥
वस्त्रैराभरणैर्युक्ता मुकुटैरंगुलीयकैः ॥ ९४ ॥
भूषिता भूषणौघेन तस्मिन्यज्ञे तदर्त्विजः ॥
चतुर्षु तज्ज्ञाश्चत्वार एवं ते षोडशर्त्विजः ॥ ९५ ॥
प्रस्तोता कश्यपस्तत्र प्रतिहर्ता तु गालवः ॥
सुब्रह्मण्यस्तथा गर्गः सदस्यः पुलहः कृतः ॥ ९६ ॥
होता शुक्रः समाख्यातो नेष्टा क्रथ उदाहृतः ॥
मैत्रावरुणो दुर्वासा ब्राह्मणाच्छंसी कौशिकः ॥ ९७ ॥
अच्छावाकश्च शाकल्यो ग्रावस्थः क्रतुरेव च ॥
प्रस्थाता प्रतिपूर्वो यः शालंकायन एव च ॥ ॥ ९८ ॥
अग्नीध्रश्च मनुस्तत्र उन्नेता त्वंगिराः कृतः ॥
एवमाद्यान्मण्डपेषु कृत्वा तानृत्विजः प्रभुः ॥ ९९ ॥
अन्येषु मण्डपेष्वेव प्रत्येकमृत्विजः कृताः ॥
मण्डपानां शतेष्वेव कृत्वा कुण्डान्यकल्पयत् ॥ 7.1.23.१०० ॥
एकैको मण्डपस्तत्र विंशहस्तप्रमाणतः ॥
अस्त्रेणाशोध्य भूमिं तु पंचगव्येन प्रोक्ष्य च ॥ १०१ ॥
चर्मणा चावगुंठ्यैव आलिख्यास्त्रेण पार्वति ॥
उल्लिख्य प्रोक्षणं कृत्वा खातं कृत्वा विधानतः ॥ १०२ ॥
अष्टौ कुंडानि संकल्प्य तथैकमण्डपे प्रिये ॥
लेपनं मण्डपे कृत्वा वज्राकरणमेव च ॥ १०३॥
चतुरस्रकार्मुकं च वर्तुलं कमलाकृति ॥
पूर्वां दिशं समा रभ्य कृत्वा तानि प्रयत्नतः ॥ १०४ ॥
चतुःकोणसमायुक्तं पूर्वे कुण्डं निवेश्य तु ॥
भगाकृति तथाऽऽग्नेय्यां दक्षिणे धनुराकृति ॥ ॥ १०५ ॥
नैर्ऋत्ये तु त्रिकोणं वै वर्तुलं पश्चिमेन तु ॥
षट्कोणं चैव वायव्ये पद्माकारं तथोत्तरे ॥ १०६ ॥
ऐशान्यामष्टकोणं तु मध्ये चैकं विधा नतः ॥
प्रत्येकं मण्डपं शुभ्रं स्तम्भैः षोडशभिर्युतम् ॥ १०७ ॥
ध्वजैः सतोरणैर्युक्तं चक्रे ब्रह्मा विधानतः ॥
न्यग्रोधं पूर्वतो न्यस्य दक्षे चोदुंबरं तथा ॥ १०८ ॥
अश्वत्थं पश्चिमे चैव पलाशं चोत्तरे क्रमात् ॥
बाहुदंडप्रमाणेन ध्वजांस्तत्र निवेश्य वै ॥ १०९ ॥
ऐन्द्र्यादौ पीतवर्णादि पताका परिकल्पिताः ॥
ततो ब्रह्मा ह्यग्निकुंडे चाग्निस्थापनमारभत् ॥ 7.1.23.११० ॥
स्वस्थाने ब्राह्मणांश्चैव जाप्ये चैव न्ययोजयत् ॥
श्रीसूक्तं पावमानं च सदा चैव च वाजिनम् ॥ १११ ॥
वृषाकपिं तथैन्द्रं च बह्वृचः पूर्वतोऽजपन् ॥
रुद्रान्पुरुषसूक्तं च क्रोकाध्यायं(?) च वैक्रियम् ॥११२॥
ब्राह्मणं पैत्र्यमैंद्रं च जपेरन्यजुषो यमे(?) ॥
देवव्रतं वामदेव्यं ज्येष्ठं साम रथंतरम् ॥ ११३ ॥
भेरुंडानि च सामानि च्छंदोगः पश्चिमेऽजपत् ॥
अथर्वाथर्वशिरसं स्कम्भस्तंभमथर्वणम् ॥ ११४ ॥
नीलरुद्रमथर्वाणमथर्वा चोत्तरेऽजपत् ॥
गर्भाधानादिकं सर्वं ततोऽग्नेरकरोद्विभुः ॥ ११५ ॥
पूर्णाहुतिं ततो दत्त्वा स्नानकर्म तथाऽरभत् ॥
पंचपल्लवसंयुक्तं मृत्तिकाभिः समन्वितम् ॥ ११६ ॥
कषायैः पंचगव्यैश्च पंचामृतफलैस्तथा ॥
तीर्थोदकैः समेतं तु मंत्रैः स्नानमथारभत् ॥ ११७ ॥
नेत्राण्युत्पाद्य देवस्य कृत्वा च तिलकक्रियाम् ॥
पृथिव्यां यानि तीर्थानि पाताले च विशेषतः ॥ ११८ ॥
स्वर्ग लोके च यान्येव तत्र तान्याययुस्तदा ॥
एतस्मिन्नन्तरे ब्रह्मा देवानां पश्यतां तदा ॥ ११९ ॥
भूमिं भित्त्वा विवेशाथ तत्र लिंगमपश्यत ॥
स्पर्शाख्यं तं तु संछाद्य मधुना दर्भमूलकैः ॥ 7.1.23.१२० ॥
तत्र ब्रह्मशिलां न्यस्य तस्या ऊर्ध्वं महाप्रभम् ॥
लिंगं प्रतिष्ठयामास कृत्वा निश्चलमा त्मवान् ॥ १२१ ॥
स्थित्वा च परमे तत्त्वे मंत्रन्यासमथाकरोत् ॥
एवं लिंगं प्रतिष्ठाप्य तत्र ब्रह्मा जगद्गुरुः ॥
पूजयामास विधिना वेदोक्तैर्मंत्र विस्तरैः ॥ १२२ ॥
मन्त्रन्यासे कृते तत्र ब्रह्मणा लोककर्तॄणा ॥
तत्र विप्रगणो हृष्टो जयशब्दादिमंगलैः ॥
निर्धूमश्चाभवद्वह्निः सूर्यकोटिसमप्रभः ॥ १२३ ॥
देवदुन्दुभयो नेदुः प्रसन्नाश्च दिगीश्वराः ॥
पुष्पवृष्टिः पपातोच्चैस्तस्मिन्यज्ञमहोत्सवे ॥ १२४ ॥
प्रतिष्ठाप्य ततो लिंगं श्रीसोमेशं पितामहः ॥
दापयामास विप्रेभ्यो भूरिशो यज्ञदक्षिणाम् ॥ १२५ ॥
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥
दक्षिणामददात्सोमस्त्रीँल्लोकान्ब्रह्मणे पुरा॥१२६॥
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यस्तथैव च ॥
ददौ हिरण्यं रत्नानि कोटिशो भूरिदक्षिणाः ॥ १२७ ॥
सोभिषिक्तो महातेजाः सर्वैर्ब्रह्मर्षिभिस्ततः ॥
त्रीँल्लोकान्भावयामास स्वभासा भासतां वरः ॥ १२८ ॥
तं सिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः॥
कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ १२९ ॥
प्राप्यावभृथमव्यग्रः कृत्वा माहेश्वरं मखम् ॥
कृतार्थः परिपूर्णश्च संबभूव निशापतिः ॥ 7.1.23.१३० ॥
ततस्तस्मै ददौ राज्यं प्राज्यं ब्रह्मा पितामहः ॥
बीजौषधीनां विप्राणामवन्नानां च वरानने ॥ १३१ ॥
तस्मिन्यज्ञे समाजग्मुर्ये केचित्पृथिवीश्वराः ॥
तेषां राज्यं धनं भोगान्ददौ स्वर्गं तथाऽक्षयम् ॥ १३२ ॥
ब्राह्मणान्भोजयामास स्वयमेवौषधीपतिः ॥
ददौ सर्वं तदा तेषां प्रभासक्षेत्रवासिनाम् ॥। ॥। १३३ ॥
हिरण्यादीन्यदाच्चैव महादानानि षोडश ॥
यो यदर्थयते तत्र सामान्यः प्राकृतो जनः॥
निजकर्मानुसारेण स लेभे च तदेव हि ॥१३४॥
एवं समर्थिते यज्ञे सर्वे देवाः सवासवाः ॥
स्थापयित्वा तु लिंगानि जग्मुः सर्वे यथागतम् ॥ १३६ ॥
चन्द्रमास्तु पुनर्देवि ब्रह्मणा सहितो विभुः ॥
लिंगमाराधयामास प्रभासे पापनाशने ॥ १३६ ॥
त्रिकालं पूजयामास धूपमाल्यानुलेपनैः ॥
तं प्रणम्य च देवेशि स्तौति नित्यं निशापतिः ॥ ॥ १३७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरप्रतिष्ठामाहात्म्यवर्णनं
नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ ॥ छ ॥