स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०२२
ईश्वर उवाच ॥ ॥
दक्षेणैवमनुज्ञातः शोचन्कर्म स्वकं तदा ॥
दुःखशोकपरीतात्मा प्रभासं क्षेत्रमागतः ॥ १ ॥
स गत्वा दक्षिणं तीरं सागरस्य समीपतः ॥
ददर्श पर्वतं तत्र कृतस्मरमिति श्रुतम् ॥ २ ॥
यक्षविद्याधराकीर्णं किन्नरैरुपशोभितम् ॥
चंदनागुरुकर्पूरैरशोकैस्तिलकैः शुभैः ॥ ३ ॥
कल्हारैः शतपत्रैश्च पुष्पितैः फलितैः शुभैः ॥
आम्रजम्बूकपित्थैश्च दाडिमैः पनसैस्तथा ॥४॥
निंबुजम्बीरनागैश्च कदलीखंडमंडितैः ॥
क्रमुकैर्नागवल्ल्याद्यैः शालैस्तालैस्तमालकैः ॥ ५ ॥
बीजपूरकखर्जूरैर्द्राक्षामधुरपाटलैः ॥
बिल्वचंपकतिंद्वाद्यैः कदंबककुभैस्तथा ॥ ६ ॥
धवाशोकशिरीषाद्यैर्नानावृक्षैश्च शोभितम् ॥
कामं कामफलैर्वृक्षैः पुष्पितैः फलितैः शुभैः ॥ ७ ॥
हंसकारंडवाकीर्णं चक्रवाकोपशोभितम् ॥
कोकिलाभिः शुकैश्चैव नानापक्षिनिनादि तम् ॥ ८ ॥
जातिस्मराः पक्षिणश्च व्याजह्रुर्मानुषीं गिरम् ॥
गंधर्वकिंनरयुगैः सिद्धविद्याधरोरगैः [। ९ ॥
क्रीडद्भिर्विविधैर्दिव्यैः शोभितं पर्वतोत्तमम् ॥
देवगंधर्वनृत्यैश्च वेणुवीणानिनादितम् ॥ 7.1.22.१० ॥
वेदध्वनितघोषेण यज्ञहोमाग्निहोत्रजैः ॥
समावृतं सर्वमाज्यगंधिभिरुच्छ्रितम् ॥ ११ ॥
शोभितं चर्षिभिर्दिव्यैश्चातुर्विद्यैर्द्विजोत्तमैः ॥
अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ १२ ॥
भृगुश्चैव मरीचिश्च भरद्वाजोऽथ कश्यपः ॥
मनुर्यमोंऽगिरा विष्णुः शातातपपराशरौ ॥ १३ ॥
आपस्तंबोऽथ संवर्तः कात्यः कात्यायनो मुनिः ॥
गौतमः शंखलिखितौ तथा वाचस्पतिर्मुनिः ॥ १४ ॥
जामदग्न्यो याज्ञवल्क्य ऋष्यशृंगो विभांडकः ॥
गार्ग्यशौनकदाल्भ्याश्च व्यास उद्दालकः शुकः ॥ १५ ॥
नारदः पर्वतश्चैव दुर्वासा उग्रतापसः ॥
शाकल्यो गालवश्चैव जाबालिर्मुद्गलस्तथा ॥ १६ ॥
विश्वामित्रः कौशिकश्च जह्नुर्विश्वावसुस्तथा ॥
धौम्यश्चैव शतानन्दो वैशंपायनजिष्णवः ॥ १७ ॥
शाकटायनवार्द्धिक्यावग्निको बादरायणः ॥
वालखिल्या महात्मानो ये च भूमण्डले स्थिताः ॥ १८ ॥
ते सर्वे तत्र तिष्ठंति पर्वते तु कृतस्मरे ॥
तेजस्विनो ब्रह्मपुत्रा ऋषयो धार्मिकाः प्रिये ॥ १९ ॥
ज्वलंतस्तपसा सर्वे निर्द्धूमा इव पावकाः ॥
मासोपवासिनः केचित्केचित्पक्षोपवासिनः ॥ 7.1.22.२० ॥
त्रैरात्रिकाः सांतपना निराहारास्तथा परे ॥
केचित्पुष्प फलाहाराः शीर्णपर्णाशिनस्तथा ॥ २१ ॥
केचिद्गोमयभक्षाश्च जलाहारास्तथा परे ॥
साग्निहोत्राः सुविद्वांसो मोक्षमार्गार्थचिन्तकाः ॥ २२ ॥
इति हासपुराणादिश्रुतिस्मृतिविशारदाः ॥
एते चान्ये च बहवो मार्कंडेयपुरोगमाः ॥ २३ ॥
प्रभासं क्षेत्रमासाद्य संस्थिता कृतपर्वते ॥
एवं कृतस्मरस्तत्र सर्वदेवनिषेवितः ॥
मन्वंतरेस्मिन्यो देवि निर्दग्धो वडवाग्निना ॥ २४ ॥
तं दृष्ट्वा पर्वतं रम्यं दृष्ट्वा चैव महोदधिम् ॥
प्रदक्षिणं ततश्चक्रे सप्तकृत्वो निशाकरः ॥
गिरेः प्रदक्षिणां कृत्वा गतो यत्र महेश्वरः ॥ २५ ॥
समीपे तु समुद्रस्य स्पर्शलिंगस्वरूपवान् ॥
प्रसादयामास विभुं प्रसन्नेनांतरात्मना ॥ २६ ॥
मरणं वेति संध्याय शरणं वा महेश्वरम् ॥
वरं शापाभिघातार्थं मृत्युं वा शंकरान्मम ॥ २७ ॥
इति सोमो मतिं कृत्वा तपसाऽऽ राधयञ्छिवम् ॥
यावद्वर्षसहस्रं तु फलमूलाशनोऽभवत् ॥ २८ ॥
पूर्णे वर्षसहस्रे तु चतुर्थे वरवर्णिनि ॥
तुतोष भगवान्रुद्रो वाक्यं चेदमुवाच ह ॥ ॥२९॥
परितुष्टोऽस्मि ते चंद्र वरं वरय सुव्रत॥
किं ते कामं करोम्यद्य ब्रूहि यत्स्यात्सुदुर्ल्लभम्॥7.1.22.३०॥।
एवं प्रत्यक्षमापन्नं दृष्ट्वा देवं वृषध्वजम्॥
प्रणम्य तं यथाभक्त्या स्तुतिं चक्रे निशाकरः ॥ ३१ ॥
॥ चंद्र उवाच ॥ ॥
ॐ नमो देवदेवाय शिवाय परमात्मने ॥
अप्रमेयस्वरूपाय ब्यक्ताव्यक्तस्वरूपिणे ॥ ३२ ॥
त्वं पतिर्योगिनामीश त्वयि सर्वं प्रतिष्ठितम् ॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः प्रजापतिः ॥ ३३ ॥
चतुर्विंशत्यधिकं च भुवनानां शतद्वयम् ॥
तस्योपरि परं ज्योतिर्जागर्ति तव केवलम् ॥३४ ॥
कल्पांत आदिवाराहमुक्तब्रह्मांडसंस्थितौ ॥
आधारस्तंभभूताय तेजोलिंगाय ते नमः ॥ ३५ ॥
नमोऽनामयनाम्ने ते नमस्ते कृत्तिवाससे ॥
नमो भैरवनाथाय नमः सोमेश्वराय ते ॥ ३६ ॥
इति संज्ञाभिरेताभिः स्तुत्याभिरमृतेश्वरः ॥
भूतैर्भव्यैर्भविष्यैश्च स्तूयसे सुरसत्तमैः ॥ ३७ ॥
आद्यो विरंचिनामाभूद्ब्रह्मा लोकपितामहः ॥
मृत्युञ्जयेति ते नाम तदाऽभूत्पार्वतीपते ॥ ३८ ॥
द्वितीयोऽभूद्यदा ब्रह्मा पद्मभूरिति विश्रुतः ॥
तदा कालाग्निरुद्रेति तव नाम प्रकीर्तितम् ॥ ३९ ॥
तृतीयोऽभूद्यदा ब्रह्मा स्वयंभूरिति विश्रुतः ॥
अमृतेशेति ते नाम कीर्तितं कीर्तिवर्द्धनम् ॥7.1.22.४० ॥
चतुर्थोऽभूद्यदा ब्रह्मा परमेष्ठीति विश्रुतः ॥
अनामयेति देवेश तव नाम स्मृतं तदा ॥ ४१ ॥
पंचमोऽभूद्यदा ब्रह्मा सुरज्येष्ठ इति श्रुतः ॥
कृत्तिवासेति ते नाम बभूव त्रिपुरांतक ॥४२॥
षष्ठश्चाभूद्यदा ब्रह्मा हेमगर्भ इति स्मृतः ॥
तदा भैरवनाथेति तव नाम प्रकीर्तितम् ॥ ४३ ॥
अधुना वर्त्तते योऽसौ शतानंद इति श्रुतः ॥
आदिसोमेन यश्चासौ वामनेत्रोद्भवेन ते ॥ ४४ ॥
प्रतिष्ठार्थं तु लिंगस्य आनीतश्चाष्टवार्षिकः ॥
बालरूपी तदा तेन सोमनाथेति कीर्तितम् ॥ ४५ ॥
तदाप्रभृति सोमानां लक्षाणां द्वितयं गतम् ॥१४॥
सहस्रद्वितयं चैव शतं चैव षडुत्तरम् ॥ ४६ ॥
सप्तमोऽहं महादेव आत्रेय इति विश्रुतः ॥
प्राचेतसेन दक्षेण शप्तस्त्वां शरणं गतः ॥
रक्ष मां देवदेवेश क्षयिणं पापरोगिणम्॥ ४७ ॥
इति संस्तुवतस्तस्य चंद्रस्य करुणाकरः ॥
तुतोष भगवान्रुद्रो वाक्यं चेदमुवाच ह ॥ ४८ ॥
परितुष्टोऽस्मि ते चंद्र वरं वरय सुव्रत ॥
कि ते कामं करोम्यद्य ब्रूहि यत्स्यात्सुदुर्ल्लभम् ॥ ४९ ॥
मम नामानि गुह्यानि मम प्रियतराणि च ॥
पठिष्यंति नरा ये तु दास्ये तेषां मनोगतम् ॥ 7.1.22.५० ॥
अतीता ये चंद्रमसो भविष्यंति च येऽधुना ॥
तेषां पूज्यमिदं लिंगं यावदन्योऽष्टवार्षिकः ॥ ५१ ॥
आः परं चतुर्वक्त्रो ब्रह्मा यो भविता यदा ॥
प्राणनाथेति देवस्य तदा नाम भविष्यति ॥ ५२ ॥
प्राणास्तु वायवः प्रोक्तास्तदाराधननाम तत् ॥
प्राणनाथेति संप्रोक्तं मेऽधुना तद्भविष्यति ॥ ५३ ॥
तस्मादग्नीशनामेति कालरुद्रेत्यनंतरम् ॥
तारकेति ततो नाम भविष्यत्येव कीर्तितम् ॥ ५४ ॥
मृत्युञ्जयेति देवस्य भविता तदनंतरम् ॥
त्र्यंबकेशस्त्वितीशेति भुवनेशेत्यनन्तरम् ॥ ५५ ॥
भूतनाथेति घोरेति ब्रह्मेशेत्यथ नामकम् ॥
भविष्यं पृथिवीशेति आदिनाथेत्यनंतरम् ॥ ५६ ॥
कल्पेश्वरेति देवस्य चंद्रनाथेत्यनन्तरम् ॥
नाम देवस्य यद्भावि सांप्रतं ते प्रकाशितम् ॥ ५७ [।
इत्येवमादि नामानि स्वसंख्यातानि षोडश ॥
गतानि संभविष्यंति कालस्यानंतभावतः ॥ ५८ ॥
एकैकं वर्तते नाम ब्रह्मणः प्रलयावधि ।।
ततोन्यज्जायते नाम यथा नामानुरूपतः ॥ ५९ ॥
अथ किं बहुनोक्तेन रहस्यं ते प्रकाशितम् ॥
वत्स यत्कारणेनेह तपस्तप्तं त्वयाऽखिलम् ॥
तन्मे निःशेषतो ब्रूहि दास्ये तुष्टोऽस्मि ते वरम् ॥ 7.1.22.६० ॥
॥ चन्द्र उवाच ॥ ॥
अहं शप्तस्तु दक्षेण कस्मिंश्चित्कारणांतरे ॥
यक्ष्मणा च क्षयं नीतस्तस्मात्त्वं त्रातुमर्हसि ॥ ६१ ॥
॥ शंभुरुवाच ॥ ॥
अधुना भोः समं पश्य सर्वास्ता दक्षकन्यकाः ॥
क्षयस्ते भविता पक्षं पक्षं वृद्धिर्भविष्यति ॥ ६२ ॥
पूर्वोचितां प्रभां सोम प्राप्स्यसे मत्प्रसादतः ॥
प्राचेतसस्य दक्षस्य तपसा हतपाप्मनः ॥ ६३ ॥
तस्यान्यथा वचः कर्तुं शक्यं नान्यैः सुरैरपि ॥
ब्राह्मणाः कुपिता हन्युर्भस्मीकुर्युः स्वतेजसा ॥ ६४ ॥
देवान्कुर्युरदेवांश्च नाशयेयुरिदं जगत् ॥
ब्राह्मणाश्चैव देवाश्च तेज एकं द्विधा कृतम् ॥ ६५ ॥
प्रत्यक्षं ब्राह्मणा देवाः परोक्षं दिवि देवताः ॥
न विना ब्राह्मणा देवैर्न देवा ब्राह्मणैर्विना ॥ ६६ ॥
एकत्र मन्त्रा स्तिष्ठन्ति तेज एकत्र तिष्ठति ॥
ब्राह्मणा देवता लोके ब्राह्मणा दिवि देवताः ॥
त्रैलोक्ये ब्राह्मणाः श्रेष्ठा ब्राह्मणा एव कारणम् ॥ ६७ ॥
पितुर्नियुक्ताः पितरो भवंति क्रियासु दैवीषु भवंति देवाः ॥
द्विजोत्तमा हस्तनिषक्ततोयास्तेनैव देहेन भवंति देवाः ॥ ६८ ॥
षट्क र्मतत्त्वाभिरतेषु नित्यं विप्रेषु वेदार्थकुतूहलेषु ॥
न तेषु भक्त्या प्रविशंति घोरं महाभयं प्रेतभवं कदाचित् ॥ ६९ ॥
यद्ब्राह्मणाः स्तुत्यतमा वदन्ति तद्देवता कर्मभिराचरंति ॥
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥ 7.1.22.७० [।
यथा रुद्रा यथा देवा मरुतो वसवोऽश्विनौ ॥
ब्रह्मा च सोमसूर्यौ च तथा लोके द्विजोत्तमाः ॥ ७१ ॥
देवाधीनाः प्रजाः सर्वा यज्ञाधीनाश्च देवताः ॥
ते यज्ञा ब्राह्मणाधीनास्तस्माद्देवा द्विजोत्तमाः ॥ ॥ ७२ ॥
ब्राह्मणानर्चयेन्नित्यं ब्राह्मणांस्तर्पयेत्सदा ॥
ब्राह्मणास्तारका लोके ब्राह्मणात्स्वर्गमश्नुते ॥ ७३ ॥
अभेद्यमच्छेद्यमनादिमक्षयं विधिं पुराणं परिपालयन्ति ॥
महामतिस्तानभिपूज्य वै द्विजान्भवेदजेयो दिवि देवराडिव ॥ ७९ ॥
शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा ॥
अपि वज्र सहस्रेण ब्राह्मणाशीः सुदुर्भिदा ॥ ७५ ॥
हुतेन शाम्यते पापं हुतमन्नेन शाम्यति ॥
अन्नं हिरण्यदानेन हिरण्यं ब्राह्मणाशिषा ॥ ७६ ॥
य इच्छेन्नरकं गंतुं सपुत्रपशुबांधव ॥
देवेष्वधिकृतं कुर्याद्ब्राह्मणेषु च गोषु च ॥ ७७ ॥
ब्राह्मणान्द्वेष्टि यो मोहाद्देवान्गाश्च मखान्यदि ॥
नैव तस्य परो लोको नाऽयं लोको दुरात्मनः ॥ ७८ ॥
अनिन्द्या ब्राह्मणा गावः कांचनं सलिलं स्त्रियः॥
पृथिवी तु षडेतानि यो निन्दति स पातकी ॥७९॥
अग्रं धर्मस्य राजानो मूलं धर्मस्य ब्राह्मणाः ॥
तस्मान्मूलं न हिंसीत मूले ह्यग्रं प्रतिष्ठितम् ॥ 7.1.22.८० ॥
फलं धर्मस्य राजानः पुष्पं धर्मस्य ब्राह्मणाः ॥
तस्मात्पुष्पं न हिंसीत पुष्पात्संजायते फलम् ॥ ८१ ॥
राजा वृक्षो ब्राह्मणास्तस्य मूलं पौराः पर्णं मन्त्रिणस्तस्य शाखाः ॥
तस्माद्राज्ञा ब्राह्मणा रक्षणीया मूले गुप्ते नास्ति वृक्षस्य नाशः ॥ ८२ ॥
आसन्नो हि दहत्यग्निर्दूराद्दहति ब्राह्मणः ॥
प्ररोहत्यग्निना दग्धं ब्रह्मदग्धं न रोहति ॥ ८३ ॥
ब्राह्मणानां च शापेन सर्वभक्षो हुताशनः ॥
समुद्रश्चाप्यपेयस्तु विफलश्च पुरंदरः ॥ ८४ ॥
त्वं चन्द्र राजयक्ष्मी च पृथिव्यामूषराणि च ॥
सूर्याचन्द्रमसोः पातः पुनरुद्धरणं तयोः ॥ ८५ ॥
वनस्पतीनां निर्यासो दानवानां पराजयः ॥
नागानां च वशीकारः क्षत्रस्योत्सादनं तथा ॥
देवोत्पत्ति विपर्यासो लोकानां च विपर्ययः ॥ ८६ ॥
एवमादीनि तेजांसि ब्राह्मणानां महात्मनाम् ॥
तस्माद्विप्रेषु नृपतिः प्रणमेन्नित्यमेव च ॥ ८७ ॥
परा मप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् ॥
ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ ८८ ॥
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥
एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत् ॥ ८९ ॥
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ॥
हूयमानश्च यज्ञेषु भूय एवाभिवर्द्धते ॥ 7.1.22.९० ॥
एवं यद्यप्य निष्टेषु वर्त्तते सर्वकर्मसु ॥
सर्वेषां ब्राह्मणः पूज्यो दैवतं परमं महत् ॥ ९१ ॥
क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणानां प्रभावतः ॥
ब्राह्मं हि परमं पूज्यं क्षत्रं हि ब्रह्मसंभवम् ॥ ९२ ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ॥
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ९३ ॥
यान्समाश्रित्य तिष्ठन्ति देवलोकाश्च सर्वदा ॥
ब्रह्मैव वचनं येषां को हिंस्यात्ताञ्जिजीविषुः ॥ ९४ ॥
म्रियमाणोऽप्याददीत न राजा ब्राह्मणात्करम् ॥
न च क्षुधा ऽस्य संसीदेद्ब्राह्मणो विषये वसन् ॥ ९५ ॥
यस्य राज्ञश्च विषये ब्राह्मणः सीदति क्षुधा ॥
तस्य तच्छतधा राष्ट्रमचिरादेव सीदति ॥ ९६ ॥
यद्राजा कुरुते पापं प्रमादाद्यच्च विभ्रमात् ॥
वसन्तो ब्राह्मणा राष्ट्रे श्रोत्रियाः शमयन्ति तत् ॥ ९७ ॥
पूर्वरात्रांतरात्रेषु द्विजैर्यस्य विधीयते ॥
स राजा सह राष्ट्रेण वर्धते ब्रह्मतेजसा ॥ ९८ ॥
ब्राह्मणान्पूजयेन्नित्यं प्रातरुत्थाय भूमिपः ॥
ब्राह्मणानां प्रसादेन दीव्यन्ति दिवि देवताः ॥ ९९ ॥
अथ किं बहुनोक्तेन ब्राह्मणा मामकी तनुः ॥
ये केचित्सागरांतायां पृथिव्यां कीर्तिता द्विजाः ॥
तदूपं देवदेवस्य शिवस्य परमात्मनः ॥ 7.1.22.१०० ॥
एतान्द्विषंति ये मूढा ब्राह्मणान्संशितव्रतान् ॥
ते मां द्विषंति वै नूनं पूजनात्पूजयन्ति माम्॥ १०१ ॥
न प्रद्वेषस्ततः कार्यो ब्राह्मणेषु विजानता ॥
प्रद्वेषेणाशु नश्यन्ति ब्रह्मशापहता नराः ॥ १०२ ॥
इत्येवं कथितश्चन्द्र ब्राह्मणानां गुणार्णवः ॥
कुरुष्वानन्तरं कार्य्यं यद्ब्रवीम्यहमेव ते ॥ १०३ ॥
शापस्यानुग्रहो दत्तो मया तव निशाकर ॥
न चान्यथा वचः कर्त्तुं शक्यं तेषां द्रिजन्मनाम् ॥ १०४ ॥
शापानुग्रहदैः सर्वै देवैरपि सवासवैः ।।
तस्माच्चन्द्र त्वया शोको नैव कार्यो विजानता ॥ १०८५ ॥
क्षयस्ते भविता पक्षं पक्षं वृद्धिर्भविष्यति ॥
अथान्यद्वचनं चन्द्र शृणु कार्यं यथा त्वया ॥ १०६ ॥
इदं यत्सागरोपांते तिष्ठते लिंगमुत्तमम् ॥
धरामध्यगतं तच्च देवानां दृष्टिगोचरम् ॥ १०७ ॥
कुक्कुटांडसमप्रख्यं सर्पमेखलमंडितम् ॥
ममाद्यं परमं तेजो न चान्यो वेद कश्चन ॥ १०८ ॥
इतः सागरमध्ये तु धनुषां च शतत्रये ॥
तिष्ठते तत्र लिंगं तु सुगुप्तं लक्षणान्वितम् ॥ १०९ ॥
आदिकल्पे महर्षीणां शापेन पतितं मम ॥
लिंगं सागरमध्ये तु तत्त्वं शीघ्रं समानय ॥ 7.1.22.११० ॥
स्पर्शाख्यं यत्र मे लिंगं तत्र स्थाने निवेशय ॥
निवेश्य तु प्रयत्नेन सहितो विश्वकर्मणा ॥ १११ ॥
ततो ब्रह्माणमाहूय समेतं तु मुनीश्वरैः ॥
प्रतिष्ठां कारय विभो इष्ट्वा तत्र महामखैः ॥ ११२ ॥
एवमुक्त्वा स भगवांस्तत्रैवांतरधीयत ॥
ततः प्रभां पुनर्लेभे रात्रिनाथो वरानने ॥ ११३ ॥
ततः प्रभृति तत्क्षेत्रं प्रभासमिति विश्रुतम् ॥
निष्प्रभस्य प्रभा दत्ता प्रभासं तेन चोच्यते ॥ ११४ ॥
दक्षस्य तु वृथा शापो न कृतस्तेन लांछनम् ॥
सोमः प्रभासते लोकान्वरं प्राप्य महेश्वरात् ॥
व्यक्तीभूतः स देवेशः सोमस्यैव महात्मनः ॥ ११५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमवरप्रदानवर्णनंनाम द्वाविंशोऽध्यायः॥ ॥ २२ ॥