स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०२१

विकिस्रोतः तः
Jump to navigation Jump to search

॥ देव्युवाच ॥ ॥
श्रुतं सर्वमशेषेण चन्द्रस्योत्पत्ति कारणम् ॥
चिह्नं यथाऽभवत्तस्य सांप्रतं तत्प्रकीर्त्तय ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
ब्रह्मणस्तु पुरा देवि दक्षो नाम सुतोऽभवत् ॥
प्रजाः सृजेति उद्दिष्टः पूर्वं दक्षः स्वयंभुवा ॥ २ ॥
षष्टिं दक्षोऽसृजत्कन्या वैरिण्यां वै प्रजापतिः ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥ ३ ॥
सप्त विशतिं सोमाय चतस्रोऽरिष्टनेमिने ॥
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते ॥ ४ ॥
द्वे चैवांगिरसे तद्वत्तासां नामानि विस्तरात् ॥
शृणु त्वं देवि मातॄणां प्रजाविस्तरमादितः ॥ ५ ॥
मरुत्वती वसुर्जामी लंबा भानुररुन्धती ॥
संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनि ॥ ६ ॥
धर्म पत्न्यः समाख्याता दक्षः प्राचेतसो ददौ ॥
अदितिर्दितिर्दनुस्तद्वदरिष्टा सुरसैव च ॥ ७ ॥
सुरभिर्विनता चैव नाम्ना क्रोधवशा त्विला ॥
कद्रूस्त्विषा वसुस्तद्वत्तासां पुत्रान्वदामि वै ॥ ८ ॥
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत् ॥
मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा ॥ ९ ॥।
भानोस्तु भानवस्तेन मुहूर्त्तायां मुहूर्त्तकाः ॥
लंबाया घोषनामानो नागवीथिस्तु जामिजा ॥ 7.1.21.१० ॥
संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः ॥
आपो ध्रुवश्च सोमश्च धरश्चैवानलोऽनिलः ॥११॥
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥
आपस्य पुत्रा वैदंड्यः श्रमः शान्तो ध्वनिस्तथा ॥। ॥ १२ ॥
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥
सोमस्य भगवाञ्छर्वो ध्रुवश्च गृहबोधनः ॥ १३ ॥
हुतहव्यवहश्चैव धरस्य द्रविण स्मृतः ॥
मनोजवोऽनिलस्यासीदविज्ञातगतिस्तथा ॥ १४ ॥
देवलो भगवान्योगी प्रत्यूषस्याभवन्सुताः ॥
बृहस्पतेस्तु भगिनी भुवना ब्रह्मवादिनी ॥ १५ ॥
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ॥
विश्वकर्मा सुतस्तस्य शिल्पकर्त्ता प्रजापतिः ॥ १६ ॥
तुषितानां तु साध्यानां नामान्येतानि वच्मि ते ॥
मनोऽनुमन्ता प्राणश्च नरोऽपानश्च वीर्यवान् ॥ १७ ॥
भक्तिर्भयोऽनघश्चैव हंसो नारायणस्तथा ॥
विभुश्चैव प्रभुश्चैव साध्या द्वादश कीर्तिताः ॥ १८ ॥
कश्यपस्य प्रवक्ष्यामि सन्ततिं वरवर्णिनि ॥
अंशो धाता भगस्त्वष्टा मित्रोऽथ वरुणो र्यमा ॥ १९ ॥
विवस्वान्सविता पूषा ह्यंशुमान्विष्णुरेव च ॥
एते सहस्रकिरणा आदित्या द्वादश स्मृताः ॥ 7.1.21.२० ॥
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ।।
हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः ॥ २१ ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ॥
एते रुद्राः समाख्याता एकादश गणेश्वराः ॥ २२ ॥
दितिः पुत्रद्वयं लेभे कश्यपाद्बलगर्वितम् ॥
हिरण्यकशिपुं श्रेष्ठं हिरण्याक्षं तथानुजम् ॥ २३ ॥
हिरण्यकशिपोर्दैत्यैः श्लोकोगीतः पुरातनैः ॥२४॥
राजा हिरण्यकशिपुर्यांयामाशां निरीक्षते ॥
तस्यां तस्यां दिशि सुरा नमश्चक्रुर्महर्षिभिः ॥
हिरण्यकशिपोः पुत्राश्चत्वारः सुमहाबलाः ॥ २५ ॥
प्रह्लादः पूर्वजस्तेषामनुह्रादस्ततः परः ॥
ह्रादश्चैव ह्रदश्चैव पुत्राश्चैते प्रकीर्तिताः ॥ २६ ॥
उभौ सुन्दोपसुन्दौ तु ह्रदपुत्रौ बभूवतुः ॥
ह्रादस्य पुत्रस्त्वेकोऽभून्मूक इत्यभिविश्रुतः ॥ २७ ॥
मारीचः सुंदपुत्रस्तु ताडकायामजायत ॥
दण्डके निहतः सोऽयं राघवेण वलीयसा ॥ २८ ॥
मूको विनिहतश्चापि कैराते सब्यसाचिना ॥
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥ २९ ॥
तिस्रः कोट्यस्तु विख्याता निहताः सव्यसाचिना॥
गवेष्ठी कालनेमिश्च जंभो वल्कल एव च ॥ 7.1.21.३० ॥
जृंभः षष्ठोनुजस्तेषां स्मृताः प्रह्रादसूनवः ॥
शुंभश्चैव निशुंभश्च गवेष्ठिनः सुतौ स्मृतौ ॥३१॥
धनुकश्चासिलोमा च शुंभपुत्रौ प्रकीर्तितौ ॥
विरोचनस्य पुत्रस्तु बलिरेकः प्रतापवान् ॥ ३२ ॥
हिरण्याक्षसुताः पंच विक्रांताः सुमहाबलाः ॥
अन्धकः शकुनिश्चैव कालनाभस्तथैव च ॥ ३३ ॥
महानाभश्च विक्रांतो भूतसंतापनस्तथा ॥
शतं शतसहस्राणि निहतास्तारकामये ॥ ३४ ॥
इति संक्षपतः प्रोक्ता कश्यपान्वयसंततिः ॥
यया व्याप्तं जगत्सर्वं सदेवासुरमानुषम् ॥ ३५ ॥
अथ याः कन्यका दत्ताः सप्तविंशतिरिंदवे ॥
तासां मध्ये महादेवि प्रिया तस्य च रोहिणी ॥ ३६ ॥
अथ नक्षत्रनाथस्य तासां मध्येतिवल्लभा ॥
बभूव रोहिणी देवी प्राणेभ्योऽपि गरीयसी ॥ ३७ ॥
सर्वास्ताः संपरित्यज्य रोहिण्या सहितो रहः ॥
रेमे कामपरीतात्मा वनेषूपवनेषु च ॥
रमणीयेषु देशेषु कन्दरेषु गुहासु च ॥ ३८ ॥
अथ ता दुःखसंपन्नाः पत्न्यः शेषा यशस्विनि ॥
जग्मुश्च शरणं दक्षं वचनं चेदमब्रुवन् ॥ ३९ ॥
सोमः सर्वा तिक्रम्य रोहिण्या सह मोदते ॥
संवत्सरसहस्रं तु क्रीडमानो यथासुखम् ॥ 7.1.21.४० ॥
अवशिष्टास्तु षड्विंशन्मलिना विगतश्रियः ॥
पाणिग्रहणमारभ्य रोहिण्या सह चंद्रमाः ॥ ४१ ॥
संवत्सरसहस्रं तु जानात्येकां स शर्वरीम् ॥
परित्यक्ता वयं तात शशिना दोषवर्जिताः ॥ ४२ ॥
स रेमे सह रोहिण्या अस्माकमसुखप्रदः ॥
अस्माकं दुःखदग्धानां श्रेयोऽतो मरणं भवेत् ॥ ४३ ॥
तासां तद्वचनं श्रुत्वा दुःखार्तानां प्रजापतिः ॥
ब्रह्मतेजः समायुक्तः पुत्रीस्नेहेन कर्षितः ॥
जगाम यत्र ऋक्षेशो वचनं चेदमब्रवीत् ॥ ४४ ॥
समं वर्त्तस्व कन्यासु मामकासु निशाकर ॥
अन्यथा दोषभागी त्वं भविष्यसि न संशयः ॥ ४५ ॥
तस्य तद्वचनं श्रुत्वा लज्जयावनतः स्थितः ॥
बाढमित्येव ऋक्षेंद्रो दक्षस्य पुरतोऽब्रवीत् ॥ ४६ ॥
अद्यप्रभृति विप्रर्षे समं वर्त्तयितास्म्यहम्॥
पुत्रीभिस्तव सत्यं वै शपेऽहं शपथेन ते ॥ ४७ ॥
एवं प्रतिज्ञासंयुक्ते निशानाथे तदांबिके ॥
सर्वा रूपेण संयुक्तास्तस्य कन्या निवेदिताः ॥ ४८ ॥
दक्षः स्वभवनं गत्वा निर्वृतिं परमां गतः ॥
चन्द्रोऽपि पूर्ववद्देवि रोहिण्यां निरतोऽभवत् ॥ ४९ ॥
संपरित्यज्य ताः सर्वाः कामोपहतमानसः ॥
अथ भूयस्तु ताः सर्वा दक्षं वचनमब्रुवन् ॥ 7.1.21.५० ॥
मलिनास्ताः कृशांग्यश्च दीनाः सर्वा विचेतसः ॥
ततो दृष्ट्वा तथारूपं दक्षो मोहमुपागतः ॥ ५१ ॥
लब्धसंज्ञः पुनः सोऽपि क्रोधोद्भूततनूरुहः ॥
उवाच सर्वाः स्वाः पुत्रीः किमित्थं मलिनांबराः ॥
किमिदं निष्प्रभाः सर्वाः कथयध्वं ममानघाः ॥ ५२ ॥
असुरान्सानुगांश्चैव ये चान्ये सुरसत्तमाः ॥
अद्य शापहतान्पुत्र्यः करिष्यामि न संशयः ॥ ५३ ॥
एवमुक्तास्तु दक्षेण सर्वास्ताः समुदैरयन् ॥ ५४ ॥
न चास्माकं निशानाथ ऋतुमात्रमपि प्रभो ॥
प्रयच्छति पुनस्तेन युष्मत्पार्श्वं समागताः ॥ ५५ ॥
अनादृत्य तु ते वाक्यं रोहिण्यां निरतो रहः ॥
रेमे कामपरीतात्मा अस्माकं शोकवर्द्धनः ॥ ५६ ॥
तासां तद्वचनं श्रुत्वा दक्षः कोपमुपागतः ॥
गत्वा चंद्रं महादेवि शशाप प्रमुखे स्थितम्॥ ५७ ॥
अनादृत्य हि मे वाक्यं यस्मात्त्वं रोहिणीरतः ॥
संत्यज्य पुत्रीश्चास्माकं शेषा दोषेण वर्जिताः ॥
तस्माद्यक्ष्मा शरीरं ते ग्रसिष्यति न संशयः॥ ॥ ५८ ॥
एतस्मिन्नेव काले तु यक्ष्मा पर्वतपुत्रिके ॥
दक्षेण तु समादिष्टस्तस्य कायं समाविशत् ॥ ५९ ॥
यक्ष्मणा ग्रस्तकायोऽसौ क्षयं याति दिनेदिने ॥ 7.1.21.६० ॥
एवं सोमस्तु दक्षेण कृतशापो गतप्रभः ॥
पपात वसुधां देवि निश्चेष्टो रोहिणीयुतः ॥ ६१ ॥
लब्ध्वसंज्ञो मुहूर्तेन रोहिणीवाक्य मब्रवीत् ।६२।
देवि कार्यं किमधुना त्वत्पित्रा शापितो ह्यहम्॥
क्षयकुष्ठेन संयुक्तः किं करोम्यधुना प्रिये॥६३॥
एवमुक्ता रोहिणी तु बाष्पव्याकुललोचना॥
दक्षशापहतं दृष्ट्वा सोमं वचनमब्रवीत्॥६४॥
येन शापस्तु ते दत्तस्तमेव शरणं व्रज॥
स ते शापाभिभूतस्य नूनं श्रेयो विधास्यति॥ ६५॥
लप्स्यसे तत्प्रसादात्त्वं प्रभां पूर्वोचितां शुभाम्॥ ६६॥
रोहिण्या वचनं श्रुत्वा गतो दक्षसमीपतः ॥
चंद्रः प्रोवाच विनयाद्वाष्प व्याकुललोचनः ॥ ६७ ॥
कुरुष्वानुग्रहं दक्ष प्रसन्नेनांतरात्मना ॥
कोपं त्यज महर्षे त्वं ममोपरि दयां कुरु ।१ ६८ ॥
त्वया क्रोधपरीतेन कारणे वाप्यकारणे ॥
अनुकंपां च मे कृत्वा कार्यं शापस्य मोक्षणम्॥ ६९ ॥
विदितं तु महाभाग शप्तोहं येन कर्मणा ॥
कुरुष्वानुग्रहं दक्ष मम दीनस्य याचतः ॥ 7.1.21.७० ॥
एवं विलपमानस्य सोमस्य तु महात्मनः ॥
अनुग्रहे मतिं कृत्वा इदं वचनमब्रवीत् ॥७१॥
॥ दक्ष उवाच ॥ ॥
मया शापहतः सोम त्रातुं शक्यो न दैवतैः॥
यद्यद्ब्रवीम्यहं सोम तत्तथेति न संशयः ॥ ७२ ॥
आयुः कर्म च वित्तं च विद्या निधनमेव च ॥
पूर्वसृष्टानि यान्येव संभवंति हि तानि वै ॥ ७३ ॥
असुराश्च सुराश्चैव ये चान्ये यक्षराक्षसाः ॥
सर्वेपि शक्ता न त्रातुं वर्जयित्वा महेश्वरम् ॥७४॥
एषां शापो मया दत्तोऽनुग्रहीष्य ति शंकरः॥
नान्यस्त्रातुं भवेच्छक्तो विना पशुपतिं भवम् ॥
तत्त्वं शीघ्रतरं गच्छ समाराधय शंकर ॥ ७५ ॥
न शक्तोऽन्यः पुनश्चंद्रः कर्तुं त्वां निर्मलं पुनः॥
वर्जयित्वा महादेवं शितिकंठमुमापतिम् ॥७६॥
दक्षस्य च वचः श्रुत्वा कृतांजलिपुटः स्थितः॥
प्रत्युवाच तदा सोमः प्रहष्टेनांतरात्मना॥७७॥
भगवन्यदि तुष्टोसि मम भक्तस्य सुव्रत ॥
अनुग्रहे कृता बुद्धिस्तदाचक्ष्व कुतः शिवः ॥ ७८ ॥
कस्मिन्स्थाने मया दक्ष द्रष्टव्योऽसौ महेश्वरः ॥
तत्स्थानानि चरिष्यामि यानि तानि वदस्व मे ॥ ७९ ॥
॥ दक्ष उवाच ॥ ॥
शृणु सोम प्रयत्नेन श्रुत्वा चैवावधारय ॥
वारुणीं दिशमाश्रित्य सागरानूपसन्निधौ ॥ 7.1.21.८० ॥
कृतस्मरस्यापरतो धन्वंतरशतत्रये ॥
लिंगं महाप्रभावं च स्वयंभूतं व्यवस्थितम् ॥ ८१ ॥
सूर्य्यबिंबसमप्रख्यं सर्प मेखलमंडितम्॥
कुक्कुटांडकमानं तद्भूमिमध्ये व्यवस्थितम् ॥ ८२ ॥
स्पर्शलिंगं हि तद्विद्धि तद्भक्त्या ज्ञास्यते भवान् ॥
तत्र संनिहितो देवः शंकरः परमेश्वरः ॥ ८३ ॥
गच्छ त्वं तपसोग्रेण आराधय सुरेश्वरम् ॥ ९४ ॥
प्रशस्य देवदेवेशमात्मानं निर्मलं कुरु ॥
यस्याशु वरदानेन प्राप्स्यसे रूपमुत्तमम् ॥ ८५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यासंहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरोत्पत्तिप्रसंगे दक्षेण स्वशापजन्ययक्ष्मरोगार्त्तस्य चंद्रस्य यक्ष्मकुष्ठरोगनिवृत्तये शिवाराधनोपदेशवर्णनंनामैकविंशोऽध्यायः ॥ २१ ॥