स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०२०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

॥ ईश्वर उवाच ॥ ॥
अथ दैत्यावताराणां क्रमो हि कथ्यते पुनः ॥
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ ॥ १ ॥
तथा शत सहस्राणि यानि कानि द्विसप्ततिम् ॥
अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत्॥२॥
सौत्येऽहन्यतिरात्रस्य कश्यपस्याश्वमेधिके ॥३॥
उपक्षिप्ता सनं यत्तु होतुरर्थे हिरण्मयम् ॥
निषसाद स गर्तो(?)ऽत्र हिरण्यकशिपुस्ततः ॥ ४ ॥
शतवर्षसहस्राणां तपश्चक्रे सुदुश्चरम् ॥
दशवर्षसहस्राणि दित्या गर्भे स्थितः पुरा ॥ ५ ॥
हिणयकशिपोर्दैत्यैः श्लोको गीतः पुरातनः ॥
राजा हिरण्यकशिपुर्यां यामाशां निरीक्षते ॥ ६ ॥
तस्यां तस्यां दिशि सुरा नमश्चक्रुः सहर्षिभिः १।
पर्याये तस्य राजाभूद्बलिर्वर्षार्बुदं पुनः ॥ ७ ॥
षष्टिं चैव सहस्राणि त्रिंशच्च नियुतानि च ॥
बले राज्याधिकारस्तु याव त्कालं बभूव ह ॥ ८ ॥
प्रह्लादो निगृहीतोऽभूत्तावत्कालं तथा सुरैः १।
इंद्रादयस्ते विख्याता असुराञ्जघ्नुरोजसा ॥ ९ ॥
दैत्यसंस्थमिदं सर्वमा सीद्दशयुगं किल ॥
असपत्नं ततः सर्वमष्टादशयुगं पुनः ॥ 7.1.20.१० ॥
त्रैलोक्यमिदमव्यग्रं महेंद्रेण तु पालितम् ॥
त्रेतायुगे तु दशमे कार्त्तवीर्यो महाबलः ॥ ११ ॥
 पंचाशीतिसहस्राणि वर्षाणां वै नराधिपः ॥
स सप्तरत्नवान्सम्राट् चक्रवर्ती बभूव ह ॥ १२ ॥
द्वीपेषु सप्तसु स वै खड्गी चर्मी शरासनी ॥
रथी राजा सानुचरो योगाच्चौरानपश्यत ॥ १३ ॥
प्रणष्टद्रव्यता यस्य स्मरणान्न भवेन्नृणाम् ॥
चतुर्युगे त्वतिक्रांते मनौ ह्येकादशे प्रभौ ॥ १४ ॥
अर्द्धावशिष्टे तस्मिंस्तु द्वापरे संप्रवर्तिते ॥
मानवस्य नरिष्यंतो ह्यासीत्पुत्रो मदः किल ॥। ॥ १५ ॥
नवमस्तस्य दायादस्तृणबिंदुरिति स्मृतः ॥
त्रेतायुगमुखे राजा तृतीये संबभूव ह ॥ १६ ॥
तस्य कन्या त्विलविला रूपे णाप्रतिमाऽभवत् ॥
पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ १७ ॥
ऋषिरैलविलो यस्यां विश्रवाः समपद्यत ॥
तस्य पत्न्यश्च तिस्रस्तु पौलस्त्यकुलमंडनाः ॥ १८ ॥
बृहस्पतेः शुभा कन्या नाम्ना वै वेदवर्णिनी ॥
पुष्पोत्कटा च वीका च उभे माल्यवतः सुते ॥ १९ ॥
केकसी मालिनः कन्या तस्यां देवि शृणु प्रजाः ॥
ज्येष्ठं वैश्रवणं तस्य सुषुवे वरवर्णिनी ॥ 7.1.20.२० ॥
अष्टदं(?) हरिच्छ्मश्रुं शंकुकर्णं विलोहितम् ॥
श्वपादं ह्रस्वबाहुं च पिंगलं शुचिभूषणम् ॥ २१ ॥
त्रिपादं तु महाकायं स्थूलशीर्षं महाहनुम् ॥
एवंविधं सुतं दृष्ट्वा विरूपं रूपतस्तदा ॥ २२॥
तदा दृष्ट्वाब्रवीत्तं तु कुबेरोऽयमिति स्वयम्॥
कुत्सायां क्वितिशब्दोयं शरीरं वेरमुच्यते ॥ २३ ॥
कुबेरः कुशरीरत्वान्नाम्ना तेन च सोंकितः ॥
तस्य भार्य्याऽभवद्वृद्धिः पुत्रस्तु नलकूबरः ॥ २४ ॥
कैकस्यजनयत्पुत्रं रावणं राक्षसाधिपम् ॥
शंकुकर्णं दशग्रीवं पिगलं रक्तमूर्द्धजम्॥ २५ ॥
वसुपादं विंशद्भुजं महाकायं महाबलम् ॥
कालांजननिभं चैव दंष्ट्रिणं रक्तलोचनम् ॥ २६ ॥
राक्षसेनौजसा युक्तं रूपेण च बलेन च ॥
निसर्गाद्दारुणः क्रूरो रावणाद्रावणः स्मृतः ॥२७॥
हिरण्यकशिपुस्त्वासीत्स राजा पूर्वजन्मनि ॥
चतुर्युगानि राजा तु तथा दश स राक्षसः ॥२८॥
पंच कोटीस्तु वर्षाणां संख्यताः संख्याया प्रिये ॥
नियुतान्येकषष्टिं च संख्यावद्भिरुदाहृतम् ॥ २९ ॥
षष्टिं चैव सहस्राणि वर्षाणां स हि रावणः ॥
देवतानामृषीणां च घोरं कृत्वा प्रजागरम् ॥ 7.1.20.३० ॥
त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात् ॥
रामं दाशरथिं प्राप्य सगणः क्षयमेयिवान् ॥ ३१ ॥
योऽसौ देवि दशग्रीवः संबभूवारिमर्द्दनः ॥
दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः ॥३२॥
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥
रावणं कुंभकर्णं च कन्यां शूर्पणखां तथा ॥३३॥
विभीषणं चतुर्थं च कैकस्यजनयत्सुतान् ॥
मनोहरः प्रहस्तश्च महापार्श्वः खरस्तथा ॥३४॥
पुष्पोत्कटायास्ते पुत्राः कन्या कुम्भीनसी तथा ॥
त्रिशिरा दूषणश्चैव विद्युज्जिह्वश्च राक्षसः॥
कन्यैका श्यामिका नाम वीकायाः प्रसवः स्मृतः॥३५॥
इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा नव ॥
विभीषणो विशुद्धात्मा दशमः परिकीर्तितः ॥३६॥
पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ॥
भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा ॥ ॥३७॥
अनपत्यः क्रतुस्त्वस्मिन्स्मृतो वैवस्वतेंतरे ॥
अत्रेः पत्न्यो दशैवासन्सुन्दर्यश्च पतिव्रताः ॥३८॥
भद्राश्वस्य घृताच्यंता जज्ञिरे दश चाप्सराः ॥३९॥
भद्रा शूद्रा च मद्रा च नलदा जलदा तथा ॥
उर्णा पूर्णा च देवेशि या च गोपुच्छला स्मृता॥7.1.20.४०॥
तथा तामरसा नाम दशमी रक्तकोटिका ॥
एतासां च महादेवि ख्यातो भर्त्ता प्रभाकरः ॥ ४१ ॥
स्वर्भानुना हते सूर्ये पतितेस्मिन्दिवो महीम् ॥
तमोऽभिभूते लोकेस्मिन्प्रभा येन प्रवर्त्तिता ॥! ॥ ४२ ॥
स्वस्ति तेस्त्विति चैवोक्तः पतन्निह दिवाकरः ॥
ब्रह्मर्षेर्वचनात्तस्य न पपात यतः प्रभुः ॥ ४३ ॥
ततः प्रभाकरेत्युक्तः प्रभुरेवं महर्षिभिः ॥
भद्रायां जनयामाम् सोमं पुत्रं यशस्विनम् ॥ ४४ ॥
त्विषिमान्धर्मपुत्रस्तु सोमो देवो वरस्तु सः ॥
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाचरः॥ ।४५॥
पिता सोमस्य वै देवि जज्ञेऽत्रिर्भगवानृषिः ॥
तत्रात्रिः सर्वलोकेशं भृत्वा स्वे नयने स्थितः ॥ ४६ ॥
कर्मणा मनसा वाचा शुभान्येव समा चरत् ॥
काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः ॥४७॥
सुदुस्तरं नाम तपस्तेन तप्तं महत्पुरा ॥
त्रीणि वर्षसहस्राणि दिव्यानि सुरसुंदरि ॥ ४८ ॥
तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्य ह ॥
सोमत्वं वपुरापेदे महाबुद्धेस्तु वै शुभे ॥ ४९ ॥
ऊर्द्ध्वमाचक्रमे तस्य सोमसंभावितात्मनः ॥
नेत्राभ्यां सोमः सुस्राव दशधा द्योतयन्दिशः ॥ 7.1.20.५० ॥
तद्गर्भं विधिना दृष्टा दिशोदश दधुस्तदा ॥
समेत्य धारयामासुर्न च धर्तुमशक्नुवन् ॥ ॥ ५१ ॥
स ताभ्यः सहसैवेह दिग्भ्यो गर्भश्च शाश्वतः ॥ पपात भावयँल्लोकाञ्छीतांशुः सर्वभावनः ॥ ५२ ॥
यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः ॥
ततस्ताभ्यः स शीतांशुर्निपपात वसुंधराम् ॥ ५३ ॥
पतितं सोममालोक्य ब्रह्मा लोकपितामहः॥
रथमारोपयामास लोकानां हितका म्यया ॥ ५४ ॥
स तदैव मया देवि धर्मार्थं सत्यसंगरः ॥
युक्तो वाजिसहस्रेण सितेन सुरसुंदरि ॥ ५५ ॥
तस्मिन्निपतिते देवि पुत्रेत्रेः परमात्म नि ॥
तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः ॥ ५६ ॥
तथैवांगिरसः सर्वे भृगोश्चैवात्मजास्तथा ॥
ऋग्भिस्तु सामभिश्चैव तथैवांगिरसैरपि ॥ ॥ ५७ ॥
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ॥
आप्यायमानं लोकांस्त्रीन्भासयामास सर्वशः ॥ ५८ ॥
स तेन रथमुख्येन सागरांतां वसुंधराम् ॥
त्रिःसप्तकृत्वोतियशाश्चकाराभिप्रदक्षिणम् ॥ ५९ ॥
तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत ॥
ओषध्यस्ताः समुत्पन्नास्ते जसाऽज्वलयन्पुनः ॥ 7.1.20.६० ॥
ताभिर्धिनोत्ययं लोकं प्रजाश्चैव चतुर्विधाः ॥
ओषध्यः फलपाकांताः कणाः सप्तदश स्मृताः ॥ ६१ ॥
व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः ॥ ६२ ॥
प्रियंगुः कोविदारश्च कोरदूषाः सतीनकाः ॥
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः ॥ ॥ ६३ ॥
आढक्यश्चणकाश्चैव कणाः सप्तदश स्मृताः ॥
इत्येता ओषधीनां च ग्राम्याणां जातयः स्मृताः ॥ ६४ ॥
ओषध्यो यज्ञियाश्चैव ग्राम्या रण्याश्चतुर्द्दश ॥
व्रीहयश्च यवाश्चैव गोधूमास्त्वणवस्तिलाः ॥ ६५ ॥
प्रियंगुषष्ठा इत्येते सप्तमास्तु कुलत्थकाः ॥
श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः ॥ ६६ ॥
ऊरुविन्दा मर्कटकास्तथा वेणुयवाश्च ये ॥
ग्राम्यारण्यास्तथा ह्येता ओषध्यस्तु चतुर्दश ॥ ६७ ॥
तृणगुल्मलता वीरुद्वल्लीगुच्छादि कोटिशः ॥
एतेषामधिपश्चन्द्रो धारयत्यखिलं जगत् ॥ ६८ ॥
ज्योत्स्नाभिर्भगवान्सोमो जगतो हितकाम्यया ॥
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ॥ ६९ ॥
बीजौषधीनां विप्राणां मंत्राणां च वरानने ॥
सोऽभिषिक्तो महातेजा राजा राज्ये निशाकरः ॥ 7.1.20.७० ॥
त्रीँल्लोकान्भावयामास स्वभासा भास्वतां वरः॥
तं सिनी च कुहूश्चैव द्युतिःपुष्टिः प्रभा वसुः॥७१॥
कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे॥
सप्तविंशतिरिंदोस्तु दाक्षायण्यो महाव्रताः॥७२॥
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः॥
स तत्प्राप्य मह्द्राज्यं सोमः सोमवतां वरः ॥ ७३ ॥
समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान् ॥ ७४ ॥
सदस्यस्तस्य भगवान्हरिर्नारायणः प्रभुः ॥
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ ७५ ॥
दक्षिणामददात्सोमस्त्रीँल्लोकांस्तु वरानने ॥
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै शुभे ॥ ॥ ७६ ॥
प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ॥
अतिराजति राजेन्द्रो दशधा भावयन्दिशः ॥ ७७ ॥
तेन तत्प्राप दुष्प्राप्यमैश्वर्य्यमकृता त्मभिः ॥
स एवं वर्त्तते चन्द्रश्चात्रेय इति विश्रुतः ॥ ७८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चन्द्रोत्पत्तिवर्णनंनाम विंशोऽध्यायः ॥ २० ॥