स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०१४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१३ स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्
अध्यायः ०१४
वेदव्यासः
अध्यायः ०१५ →

॥ देव्युवाच ॥ ॥
यदेतद्भवता प्रोक्तं माहात्म्यं सूर्यदैवतम्॥
तन्मे विस्तरतो ब्रूहि देवदेव जगत्पते ॥ १ ॥
कथमर्कस्थलो भूतः प्रभासक्षेत्रभूषणः ॥
पूजनीयो महादेवः सम्यग्यात्राफलेप्सुभिः ॥ २ ॥
के मंत्राः किं विधानं तु केषु पर्वसु पूजयेत्॥
जैगीषव्येश्वरो भूत्वा ह्यभूत्सिद्धेश्वरः कथम् ॥
तन्मे कथय देवेश विस्तरात्सर्वमेव हि ॥ ३ ॥
पाताले विवरं तत्र योगिन्यस्तत्र किं पुरा ॥
तथा मातृगणश्चैव कथमेतदभूत्पुरा ॥ ४ ॥
एतत्सर्वमशेषेण दयां कृत्वा जगत्पते ॥
ममाचक्ष्व विरूपाक्ष यद्यहं ते प्रिया हर ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
साधु पृष्टं त्वया देवि कथयामि समासतः ॥
सिद्धेश्वरो ह्यभूद्येन जैगीषव्येश्वरो हरः ॥ ६ ॥
पूजाविधानं विस्तीर्य तन्मे निगदतः शृणु ॥
आसीदस्मिन्कृते देवि सर्व ज्ञानविशारदः ॥ ७ ॥
पुत्रः शतकलाकस्य जैगीषव्य इति श्रुतः ॥
प्रभासक्षेत्रमासाद्य स चक्रे दुश्चरं तपः ॥ ८ ॥
अतिष्ठद्वायुभक्षश्च वर्षाणां शतकं किल ॥
अम्बुभक्षः सहस्रं तु शाकाहारोऽयुतं तथा ॥ ९ ॥
चांद्रायणसहस्रं च कृतं सांतपनं पुनः ॥
शोषयित्वा मिताहारो दिग्वासाः समपद्यत ॥ 7.1.14.१० ॥
पूर्वे कल्पे स्वयं भूतं महोदयमिति श्रुतम् ॥
स लिंगं देवदेवस्य प्रतिष्ठाप्यार्चयन्नपि ॥ ११ ॥
भस्मशायी भस्मदिग्धो नृत्त गीतैरतोषयत् ॥
जपेन वृषनादैश्च तपसा भावितः शुचिः ॥ १२ ॥
तमेवं तोषयाणं तु भक्त्या परमया युतम् ॥
भगवांश्च तमभ्येत्य इदं वचनमब्रवीत् ॥ १३ ॥
जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा ॥
तुष्टोऽस्मि वरदश्चाहं ब्रूहि यत्ते मनोगतम् ॥ १४ ॥
स एवमुक्तो देवेन देवं दृष्ट्वा त्रिलोचनम्॥
प्रणम्य शिरसा पादाविदं वचनमब्रवीत् ॥ १५ ॥
॥ जैगीषव्य उवाच ॥ ॥
भगवन्देवदेवेश मम तुष्टो यदि प्रभो ॥
ज्ञानयोगं हि मे देहि यः संसारनिकृन्तनम्॥ १६ ॥
भगवन्नान्यदिच्छामि योगात्परतरं हितम् ॥
त्वयि भक्तिश्च नित्यं मे देव्यां स्कन्दे गणेश्वरे ॥ ॥ १७ ॥
न च व्याधिभयं भूयान्न च तेजोऽपमानता ॥
अनुत्सेकं तथा क्षांतिं दमं शममथापि च ॥ १८ ॥
एतान्वरान्महादेव त्वदिच्छामि त्रिलोचन ॥ १९ ॥
॥ ईश्वर उवाच ॥ ॥
अजरश्चामरश्चैव सर्वशोकविवर्जितः ॥
महायोगी महावीर्यो योगैश्वर्यसमन्वितः॥7.1.14.२०॥

24a
प्रभावाच्चास्य क्षेत्रस्य गुह्यस्य मम शाश्वतम् ॥
योगाष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत् ॥ २१ ॥
भविष्यसि मुनिश्रेष्ठ योगाचार्यः सुविश्रुतः ॥ २२ ॥
यश्चेदं त्वत्कृतं लिगं नियमेनार्चयिष्यति ॥
सर्वपापविनिर्मुक्तो योगं दिव्यमवाप्स्यति ॥ २३ ॥
जैगीषव्यगुहां चेमां प्राप्य योगं करोति यः ॥
स सप्तरात्राद्युक्तात्मा संसारं संतरिष्यति ॥ २४ ॥
मासेन पूर्वजातिं च जन्मातीतं च वेत्स्यति ॥
एकरात्रात्तनुं शुद्धां द्वाभ्यां तारयते पितॄन्॥
त्रिरात्रेण व्यतीतेन त्वपरान्सप्त तारयेत् ॥ २५ ॥
पुनश्च तव विप्रर्षे अजेयत्वं च योगिभिः ॥
इच्छतो दर्शनं चैव भविष्यति च ते मम ॥ २६ ॥
इति देवो वरान्दत्त्वा तत्रैवांतरधीयत ॥
एतत्कृतयुगे वृत्तं तव देवि प्रभाषितम् ॥ २७ ॥
त्रेतायुगे महादेवि द्वापरेऽपि तथैव च ॥
कलियुगप्रवेशे तु वालखिल्या महर्षयः ॥ २८ ॥
अस्मिन्प्राभासिके क्षेत्रे सूर्यस्थलसमीपतः ॥
आराधयंतो देवेशं गुहामध्यनिवासिनम् ॥ २९ ॥
अष्टाशीतिसहस्राणि ऋषयश्चोर्द्धरेतसः ॥
वर्षायुतं तपस्तप्त्वा सिद्धिं जग्मुस्तदात्मिकाम्॥7.1.14.३०॥
ततः सिद्धेश्वरं लिंगं कलौ ख्यातं वरानने ॥
यदा सोमेन संयुक्ता कृष्णा शिवचतुर्दशी ॥
तदैव तस्य देवस्य दर्शनं देवि दुर्ल्लभम् ॥ ३१ ॥
ब्रह्मांडं सकलं दत्त्वा यत्पुण्यमुपजायते ॥
तत्पुण्यं लभते देवि सिद्धलिंगस्य पूजनात् ॥ ३२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरोत्पत्तिवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥