स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०१२

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
या संज्ञा सा स्मृता राज्ञी छाया या सा तु निक्षुभा ॥
राजृ दीप्तौ स्मृतो धातू राजा राजति यः सदा ॥ १ ॥
अधिकं सर्वभूतेभ्यस्तस्माद्राजा स उच्यते ॥
राजपत्नी तु सा यस्मात्तस्माद्राज्ञी प्रकीर्तिता ॥ २ ॥
क्षुभ संचलने धातुर्निश्चला तेन निक्षुभा ॥
भवंति ह्यथवा यस्मात्स्वांगीयाः क्षुद्विवर्जिताः ॥ ३ ॥
छाया तां विशते दिव्या स्मृता सा तेन निक्षुभा ॥
सांप्रतं वर्तते योऽयं मनुर्लोके महामते ॥ ४ ॥
तस्यान्ववाये जातस्तु शंखचकगदाधरः ॥
यमस्तु मात्रा संशप्तो हीनपादो धरातले ॥ ५ ॥
प्रभासक्षेत्रमासाद्य चचार विपुलं तपः ॥
वर्षाणामयुतं साग्रं लिंगं पूजितवान्प्रिये ॥ ६ ॥
तुष्टश्चाहं ततस्तस्य वराणां च शतं ददौ ॥
अद्यापि तत्र देवेशि यमेश्वरमिति श्रुतम् ॥
यमद्वितीयायां दृष्ट्वा यमलोकं न पश्यति ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरोत्पत्तिवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥