स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०११

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
इति प्रोक्ता तदा देवि विस्मयोत्फुल्ललोचना ॥
रोमांचकञ्चुका सुभ्रूः पुनः पप्रच्छ भूसुराः ॥१॥
॥ देव्युवाच ॥ ॥
धन्याऽहं कृतपुण्याऽहं तपः सुचरितं मया ॥
यदेष क्षेत्र महिमा महादेवान्मया श्रुतः ॥२॥
भगवन्देवदेवेश संसारार्णवतारक ॥
पृष्टं तु यन्मया पूर्वं तत्सर्वं कथितं हर ॥ ३ ॥
पुनश्च देवदेवेश त्वद्वाक्यामृतरंजिता ॥
न तृप्तिमधिगच्छामि देवदेव महेश्वर ॥ ४ ॥
किंचित्प्रष्टुमनाश्चास्मि प्रभासक्षेत्रविस्तरम् ॥
तन्मे कथय कामेश दयां कृत्वा जगत्प्रभो ॥ ॥ ५ ॥
॥ ईश्वर उवाच ॥ ॥
पृथिव्या मध्यगर्भस्थं जंबूद्वीपमिति स्मृतम् ॥
तच्च वै नवधा भिन्नं वर्षभेदेन सुन्दरि॥६॥
तस्याद्यं भारतं वर्षं तच्चापि नवधा स्मृतम् ॥
नवयोजनसाहस्रं दक्षिणोत्तरमानतः ॥ ७ ॥
अशीतिश्च सहस्राणि पूर्वपश्चायतं स्मृतम् ॥
उत्तरे हिमवानस्ति क्षीरोदो दक्षिणे स्मृतः ॥ ८ ॥
एतस्मिन्नंतरे देवि भारतं क्षेत्रमुत्तमम् ॥
कृतं त्रेता द्वापरं च तिष्यं युगचतुष्टयम् ॥ ९ ॥
अत्रैवैषा युगावस्था चतुर्वर्णश्च वै जनः ॥
चत्वारि त्रीणि च द्वे च तथैवैक शरच्छतम् ॥ 7.1.11.१० ॥
जीवन्त्यत्र नरा देवि कृतत्रेतादिषु क्रमात् ॥
यदेतत्पार्थिवं पद्मं चतुष्पत्रं मयोदितम् ॥ ११ ॥
वर्षाणि भारताद्यानि पत्राण्यस्य चतुर्द्दिशम्॥
भारतं केतुमालं च कुरु भद्राश्वमेव च॥१२॥
भारतं नाम यद्वर्षं दाक्षिणात्यं मयोदितम्॥
दक्षिणापरतो यस्य पूर्वेण च महोदधिः ॥
हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः ॥ १३॥
तदेतद्भारतं वर्षं सर्वबीजं वरानने ॥
तत्कर्मभूमिर्नान्यत्र संप्राप्तिः पुण्यपापयोः ॥ १४ ॥
देवानामपि देवेशि सदैवैष मनोरथः ॥
अपि मानुष्यमाप्स्यामो भारते प्रत्युत क्षितौ ॥ १५ ॥
भद्राश्वेऽश्वशिरा विष्णुर्भारते कूर्मसंस्थितः ॥
वराहः केतुमाले च मत्स्यरूपस्तथोत्तरे ॥ १६ ॥
तेषु नक्षत्रविन्यासाद्विषयाः समवस्थिताः ॥
चतुर्ष्वपि महादेवि विग्रहो नव पादकः ॥ १७ ॥
भारतो यो महादेवि कूर्मरूपेण संस्थितः ॥
नक्षत्रग्रहविन्यासं तस्य ते कथयाम्यहम् ॥ १८ ॥
प्राङ्मुखो भगवान्देवो कूर्मरूपी व्यवस्थितः ॥
आक्रम्य भारतं वर्षं नवभेदमिदं प्रिये ॥ १९ ॥
नवधा संस्थितस्यास्य नक्षत्राणि निबोध मे ॥
कृत्तिका रोहिणी सौम्यं तृतीयं कूर्मपृष्ठिगम् ॥ 7.1.11.२० ॥
रौद्रं पुनर्वसुः पुष्यं नक्षत्रत्रितयं मुखे ॥
आश्लेषाख्यं तथा पैत्रं फाल्गुनी प्रथमा प्रिये ॥ २१ ॥
नक्षत्रत्रितयं पादमाश्रितं पूर्वदक्षिणम् ॥
फाल्गुनी चोत्तरा हस्तं चित्रा चर्क्षत्रयं स्मृतम् ॥ २२ ॥
कूर्मस्य दक्षिणे कुक्षौ चर्क्षपादं तथाऽपरम् ॥
स्वाती विशाखा मैत्रं च नैर्ऋते त्रितयं स्मृतम् ॥ २३ ॥
ऐंद्रं मूलं तथाषाढा पृष्ठे तु त्रितयं स्मृतम् ॥
आषाढा श्रवणं चैव धनिष्ठा चात्र शब्दिता ॥ २४ ॥
नक्षत्रितयं पादे वायव्ये तु यशस्विनि ॥
वारुणं चैव नक्षत्रं तथा प्रोष्ठपदाद्वयम् ॥ २५ ॥
कूर्मस्य वामकुक्षौ तु त्रितयं संस्थितं प्रिये ॥
रेवती चाश्विदैवत्यं याम्यं चर्क्षमिति त्रयम् ॥
ईशपादे समाख्यातं शुभाशुभफलं शृणु ॥ २६ ॥
यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्धैन्यतो भयम् ॥
तद्देशस्य महादेवि तथोत्कर्षे शुभागमः ॥ २७ ॥
एष कूर्मो मयाख्यातो भारते भगवानिह ॥
नारायणो ह्यचिंत्यात्मा यत्र सर्वं प्रतिष्ठितम् ॥ २८ ॥
मेषवृषौ हृदो मध्ये मुखे च मिथुनादिकौ ॥
प्राग्दक्षिणे तथा पादे कर्कसिंहौ व्यवस्थितौ ॥ २९ ॥
सिंहकन्यातुलाश्चैव कुक्षौ राशित्रयं स्मृतम् ॥
धटोऽध वृश्चिकाश्चोभौ पादे दक्षिणपश्चिमे ॥ 7.1.11.३० ॥
पुच्छे तु वृश्चिकश्चैव सधनुश्च व्यवस्थितः ॥
वायव्ये वामपादे च धनुर्ग्राहादिकं त्रयम् ॥ ३१ ॥
कुम्भ मीनौ तथा चास्य उत्तरां कुक्षिमाश्रितौ ॥
मीनमेषौ महादेवि पादे पूर्वोत्तरे स्थितौ ॥ ३२ ॥
कूर्म्मदेशांस्तथर्क्षाणि देशेष्वेतेषु वै प्रिये ॥
राशयश्च तथर्क्षेषु ग्रहा राशिव्यवस्थिताः ॥ ३३ ॥
तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ॥
तत्र स्नानं प्रकुर्वंति दानं होमादिकं तथा ॥ ३४ ॥
स एष वैष्णवः पादो देवि मध्ये ग्रहोऽस्य यः ॥
नारायणाख्योऽचिंत्यात्मा कारणं जगतः प्रभुः ॥ ३५ ॥
भौमशुक्रबुधेंद्वर्कबुधशुक्रमहीसुताः ॥
गुरुमंदासुराचार्या मेषादीनामधीश्वराः ॥ ३६ ॥
एवंविधो महादेवि कूर्मरूपी जनार्द्दनः ॥
तस्य नैऋतपादे तु सौराष्ट्र इति विश्रुतः ॥ ३७ ॥
स चैवं नवधा भिन्नः पुरभेदेन सुंदरि ॥
तस्य यो नवमो भागः सागरस्य च सन्निधौ ॥ ३८ ॥
प्रभास इति विख्यातो मम देवि प्रियः सदा ॥
योजनानां दशद्वे च विस्तीर्णः परिमण्डलम् ॥ ३९ ॥
मध्येस्य पीठिका प्रोक्ता पंचयोजनविस्तृता ॥
तन्मध्ये मद्ग्रहं देवि तिष्ठत्युदधिसंनिधौ ॥ ॥ 7.1.11.४० ॥
तस्य मध्ये महादेवि लिंगरूपो वसाम्यहम् ॥ ४१ ॥
कृतस्मरात्पश्चिमतो धनुषां च शतत्रये ॥
वसामि तत्र देवेशि त्वया सह वरानने ॥ ४२ ॥
तन्मे स्थानं महादेवि कैलासादपि वल्लभम् ॥
गोचर्ममात्रं तत्रापि महागोप्यं वरानने ॥ ४३ ॥
अकथ्यं देवदेवेशि तव स्नेहात्प्रकाशितम् ॥
एतत्प्राभासिकं क्षेत्रं प्रभया दीपितं मम ॥ ४४ ॥
तेन प्रभासमित्युक्तमादिकल्पे वरानने ॥
द्वितीये तु प्रभा लब्धा सर्वैर्देवैः सवासवैः ॥ ४५ ॥
मम प्रभाभा देवेशि तेन प्राभासिकं स्मृतम् ॥
प्रभाववन्तो देवेशि यत्र संति महासुराः ॥ ४६ ॥
अथवा तेन लोकेषु प्रभासमिति कीर्त्यते ॥
प्रथमं भासते देवि सर्वेषां भुवि तेजसाम् ॥
तीर्थानामादितीर्थं यत्प्रभासं तेन कीर्त्तितम् ॥ ॥। ४७ ॥
प्रकृष्टं भानुरथवा भासितो विश्वकर्मणा ॥
यत्र साक्षात्प्रभापातो जातः प्राभासिकं ततः ॥ ४८ ॥
अथवा दक्षसंशप्तेनेन्दुना निष्प्रभेणच ॥
तत्र देवि प्रभा लब्धा तेन प्राभासिकं स्मृतम् ॥
प्रोद्दधे भारती देवी ह्यौर्वाग्निं वडवानलम् ॥ ४९ ॥
अथवा तेन देवेशि प्रभासमिति कीर्त्यते ॥
प्रकृष्टा भारती ब्राह्मी विप्रोक्ता श्रूयतेऽध्वनि ॥
सदा यत्र महादेवि प्रभासं तेन कीर्तितम् ॥ 7.1.11.५० ॥
प्रोल्लसद्वीचिभिर्भाति सर्वदा सागरः प्रिये ॥
तेन प्रभास नामेति त्रिषु लोकेषु विश्रुतम् ॥ ५१ ॥
प्रत्यक्षं भास्करो यत्र सदा तिष्ठति भामिनि ॥
तेन प्रभास नामेति प्रसिद्धिमगमत्क्षितौ ॥ ५२ ॥
प्रकृष्टं भाविनां सर्वं कामं तत्र ददाम्यहम् ॥
तेन प्रभासनामेति तीर्थं त्रैलोक्यविश्रुतम् ॥ ५३ ॥
कल्पभेदेन नामानि तथैव सुरसुन्दरि ॥
निरुक्तभेदैर्बहुधा भिद्यंते कारणैः प्रिये ॥
प्रभासमिति यन्नाम दातव्यं निश्चलं स्मृतम् ॥ ५४ ॥
अप्तत्त्वे संस्थितं देवि विष्णोराद्यकलेवरे ॥
इति ते कथितं देवि संक्षेपात्क्षेत्रकारणम् ॥ ५५ ॥
पुनस्ते कथयाम्यद्य यत्पृच्छसि वरानने ॥
तद्ब्रूहि शीघ्रं कल्याणि यत्ते मनसि वर्तते ॥ ५६ ॥
॥ देव्युवाच ॥ ॥
अस्मिन्कल्पे यथा जातं क्षेत्रं प्राभासिकं हर ॥
तन्मे विस्तरतो ब्रूहि उत्पत्तिं कारणं तथा ॥ ५७ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि यथावत्क्षेत्रकारणम् ॥
यच्छ्रुत्वा मानवो भक्त्या मुच्यते सर्वपातकैः॥ ५८ ॥
आदिक्षेत्रस्य माहात्म्यं रहस्यं पापनाशनम् ॥
कथयिष्ये वरारोहे तव स्नेहेन भामिनि ॥ ५९ ॥
अस्मिन्कल्पे तु यद्देवि आदावेव वरानने ॥
स्वायंभुवे मनौ तत्र ब्रह्मणः सृजतः पुरा ॥ 7.1.11.६० ॥
दक्षिणाल्लोचनाज्जातः पूर्वं सूर्य इति प्रिये ॥
ततः कालान्तरे तस्य भार्ये द्वे च बभूवतुः ॥ ६१ ॥
तयोस्तु राज्ञी द्यौर्ज्ञेया निक्षुभा पृथिवी स्मृता ॥
सौम्यमासस्य सप्तम्यां द्यौः सूर्येण च युज्यते ॥ ६२ ॥
माघमासे तु सप्तम्यां मह्या सह भवेद्रविः॥
भूश्चादित्यश्च भगवान्गच्छते संगमं तदा॥ ६३ ॥
ऋतुस्नाता मही तत्र गर्भं गृह्णाति भास्करात् ॥
द्यौर्जलं सूयते गर्भं वर्षास्वास्विह भूतले ॥६४॥
ततस्त्रैलोक्यवृत्त्यर्थं मही सस्यानि सूयते ॥
सस्योपयोगात्संहृष्टा जुह्वत्याहुतिभिर्द्विजाः ॥ ६५ ॥
स्वाहाकारस्वधाकारैर्यजंति पितृदेवताः ॥
निःक्षुधः कुरुते यस्माद्गर्भौषधिसुधाऽमृतैः ।1 ६६ ॥
मर्त्यान्पितॄंश्च देवांश्च तेन भूर्निक्षुभा स्मृता ॥
यथा राज्ञी च संजाता यस्य चेयं सुता मता ॥ ॥ ६७ ॥
अपत्यानि च यान्यस्यास्तानि वक्ष्याम्यशेषतः ॥
मरीचिर्ब्रह्मणः पुत्रो मारीचः कश्यपः स्मृतः ॥ ६८ ॥
तस्माद्धिरण्यकशिपुः प्रह्रादस्तस्य चात्मजः ॥
प्रह्रादस्य सुतो नाम्ना विरोचन इति स्मृतः ॥ ६९ ॥
विरोचनस्य भगिनी संज्ञा या जननी तु सा ॥
हिरण्यकशिपोः पौत्री दितेः पुत्रस्य सा स्मृता ॥ 7.1.11.७० ॥
सा विश्वकर्मणः पत्नी प्राह्लादी प्रोच्यते बुधैः ॥ ७१ ॥
अथ नाम्नातिरूपेति मरीचिदुहिता शुभा ॥
पत्नी ह्यंगिरसः सा तु जननी च बृहस्पतेः ॥ ७२ ॥
बृहस्पतेस्तु भगिनी विश्रुता ब्रह्मवादिनी ॥
प्रभासस्य तु सा पत्नी वसूनामष्टमस्य वै ॥ ७३ ॥
प्रसूता विश्वकर्माणं सर्वशिल्पवतां वरम् ॥
स चैव नाम्ना त्वष्टा तु पुनस्त्रिदशवार्द्धकिः ॥ ७४ ॥
देवाचार्यस्य तस्येयं दुहिता विश्वकर्मणः ॥
सुरेणुरिति विख्याता त्रिषु लोकेषु भामिनी ॥ ७५ ॥
प्रह्रादपुत्री या प्रोक्ता भार्या वष्टुस्तु सा स्मृता ॥
तस्यां स जनयामास पुत्रीस्ता लोकमातरः ॥ ७६ ॥
राज्ञी संज्ञा च द्यौस्त्वष्ट्री प्रभा सैव विभाव्यते ॥
तस्यास्तु वलया छाया निक्षुभा सा महीयसी ॥ ७७ ॥
सा तु भार्या भगवती मार्तंडस्य महात्मनः ॥
साध्वी पतिव्रता देवी रूपयौवनशालिनी ॥ ७८ ॥
न तु तां नररूपेण भार्यां भजति वै पुरा ॥
आदित्यस्येह तप्तत्वं महता स्वेन तेजसा ॥ ७९॥
गात्रेष्वप्रतिरूपेषु मासिकांतमिवाभवत् ॥
संज्ञा च रविणा दृष्टा निमीलयति लोचने ॥
यतस्ततः सरोषोऽर्कः संज्ञां वचनमब्रवीत् ॥ 7.1.11.८० ॥
॥ रविरुवाच ॥ ॥
मयि दृष्टे सदा यस्मात्कुरुषे नेत्रसंक्षयम् ॥
तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम् ॥ ८१ ॥
॥ ईश्वर उवाच ॥ ॥
ततः सा चपला दृष्टिं देवी चक्रे भयाकुला ॥
विलोलितदृशं दृष्ट्वा पुनराह च तां रविः ॥ ८२ ॥
॥ रविरुवाच ॥ ॥
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वया पुनः ॥
तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि ॥ ॥ ८३ ॥
॥ ईश्वर उवाच ॥ ॥
ततस्तस्यास्तु संजज्ञे भर्तृशापेन तेन वै ॥
यमश्च यमुना चेयं प्रख्याता सुमहानदी ॥
तृतीयं च सुतं जज्ञे श्राद्धदेवं मनुं शुभम् ॥ ८४ ॥
सापि संज्ञा रवेस्तेजो गोलाकारं महाप्रभम् ॥
असहन्ती च सा चित्ते चिन्तयामास वै तदा ॥ ८५ ॥
किं करोमि क्व यास्यामि क्व गतायाश्च निर्वृतिः ॥
भवेन्मम कथं भर्ता कोपमर्क्कश्च नेष्यति ॥ ८६ ॥
इति संचिन्त्य बहुधा प्रजापतिसुता तदा ॥
बहु मेने महाभागा पितृसंश्रयमेव च ॥ ८७ ॥
ततः पितृगृहं गन्तुं कृतबुद्धिर्यशस्विनी ॥
छायामयीमात्मतनुं प्रत्यंगमिव निर्मिताम् ॥ ८८ ॥
सम्मुखं प्रेक्ष्य तां देवीं स्वां छायां वाक्यमब्रवीत् ॥ ८९ ॥
॥ संज्ञोवाच ॥ ॥
अहं यास्यामि भद्रं ते स्वकं च भवनं पितुः ॥
निर्विकारं त्वया त्वत्र स्थेयं मच्छासनाच्छुभे ॥ 7.1.11.९० ॥
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ॥
संभाव्या नैव चाख्येयमिदं भगवते त्वया ॥ ९१ ॥
पृष्टयापि न वाच्यं ते तथैतद्गमनं मम ॥
तेनास्मि नामसंज्ञेति वाच्यसे तत्प्रतिष्ठया ॥ ९२ ॥
॥ छायोवाच ॥ ॥
आ केशग्रहणाद्देवि आ शापान्नैव कर्हिचित् ॥
आख्यास्यामि मतं तुभ्यं गम्यतां यत्र वांछितम् ॥ ९३ ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्ता सा तदा देवी जगाम भवनं पितुः ॥
ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम् ॥ ९४ ॥
बहुमानाच्च तेनापि पूजिता विश्वकर्मणा ॥
वर्षाणां च सहस्रं तु वसमाना पितुर्गृहे ॥
तस्थौ पितृगृहे सा तु किंचित्कालमनिंदिता ॥ ९५ ॥
ततस्तां प्राह चार्वंगीं पिता नातिचिरोषिताम् ॥
स्तुत्वा तु तनयां प्रेम्णा बहुमानपुरःसरम् ॥ ९६ ॥
॥ विश्वकर्मोवाच ॥ ॥
त्वामेव पश्यतो वत्से दिनानि सुबहून्यपि ॥
मुहूर्तार्द्धसमानि स्युः किं तु धर्मो विलुप्यते ॥ ९७ ॥
बांधवेषु चिरं वासो नारीणां न यशस्करः ॥
मनोरथा बांधवानां नार्या भर्तृगृहे स्थितिः ॥ ९८ ॥
सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण संयुता ॥
पितुर्गृहे चिरं कालं वस्तुं नार्हसि पुत्रिके ॥ ९९ ॥
तत्त्वं भर्तृगृहं गच्छ दृष्टोऽहं पूजितासि मे ॥
पुनरागमनं कार्यं दर्शनाय शुचिस्मिते ॥ 7.1.11.१०० ॥
॥ ईश्वर उवाच ॥ ॥
इत्युक्ता सा तदा पित्रा गच्छगच्छेति सा पुनः ॥
संपूजयित्वा पितरं वडवारूपधारिणी ॥ १०१ ॥
मेरोरुत्तरतस्तत्र वर्षं यद्धनुषाकृति ॥
उत्तराः कुरवो लोके प्रख्याता ये यशस्विनि ॥ १०२ ॥
तत्र तेपे तपः साध्वी निराहाराऽश्वरूपिणी ॥
एतस्मिन्नंतरे देवि तस्याश्छाया विवस्वतः ॥ १०३ ॥
समीपस्था तदा देवी संज्ञाया वाक्यतत्परा ॥
तस्यां च भगवान्सूर्यो द्वितीयायां दिवस्पतिः ॥ १०४ ॥
संज्ञेयमिति मन्वानो रूपौदार्येण मोहितः ॥
तस्यां च जनयामास द्वौ पुत्रौ कन्यकां तथा ॥ १०५ ॥
पूर्वं यस्तु मनोस्तुल्यः सावर्णिस्तेन सोऽभवत् ॥
यः सूर्यात्प्रथमं जातः पुत्रयोः सुरसुन्दरि ॥ १०६ ॥
द्वितीयो योऽभवच्चान्यः स ग्रहोऽभूच्छनैश्चरः ॥
कन्या ऽभूत्तपती या तां वव्रे संवरणो नृपः ॥ १०७ ॥
तापीनाम नदी चेयं विंध्यमूलाद्विनिःसृता ॥
नित्यं पुण्यजला स्नाने पश्चिमोदधिगामिनी ॥१०८॥
अन्या चैव तथा भद्रा जाता पुत्री महाप्रभा ॥
संज्ञा तु पार्थिवी छाया आत्मजानां यथाकरोत् ॥ १०९ ॥
स्नेहं न पूर्वजातानां तथा कृतवती सती॥
लालनाद्युपभोगेषु विशेषमनुवासरम्॥7.1.11.११०॥
यथा स्वेष्वनुवर्तेत न तथान्येषु भामिनी ॥
मनुस्तु क्षांतवांस्तस्या भविष्यो यो हि पार्वति ॥१११॥
मेरौ तिष्ठति सोऽद्यापि तपः कुर्वन्वरानने ॥
सर्वं तत्क्षांतवान्मातुर्यमस्तस्या न चक्षमे ॥ ११२ ॥
बहुशो याचमानस्तु छाययाऽतीव कोपितः ॥
स वै कोपाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ॥ ११३ ॥
ताडनाय ततः कोपात्पादस्तेन समुद्यतः ॥
तथा पुनः क्षांतिमता न तु देहे निपातितः ॥ ११४ ॥
पदा संतर्जयामास छायां संज्ञासुतो यमः ॥ ११५ ॥
तं शशाप ततश्छाया क्रुद्धा सा पार्थिवी भृशम् ॥
किंचित्प्रस्फुरमाणोष्ठी विचलत्पाणिपल्लवा ॥ ११६ ॥
॥ छायोवाच ॥ ॥
पितुः पत्नीममर्याद यन्मां तर्जयसे पदा ॥
भुवि तस्मादयं पादस्तवाद्यैव पतिष्यति॥ ११७ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
यमस्तु तेन शापेन भृशं पीडितमानसः ॥
मनुना सह धर्मात्मा पित्रे सर्वं न्यवेदयत्॥ ११८ ॥
॥ यम उवाच ॥ ॥
तातैतन्महदाश्चर्यं न दृष्टमिह केनचित् ॥
माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति ॥११९॥
स्नेहेन तुल्यमस्मासु माताद्य नैव वर्त्तते ॥
विसृज्य ज्यायसो यस्मात्कनीयःसु बुभूषति ॥ 7.1.11.१२० ॥
तस्या मयोद्यतः पादो न तु देहे निपातितः ॥
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षंतुमर्हति ॥१२१॥
शप्तोऽहं तात कोपेन तया सुत इति स्फुटम् ॥
अतो न मह्यं जननी सा भवेद्वदतां वर ॥ १२२ ॥
निगुर्णेष्वपि पुत्रेषु न माता निर्गुणा भवेत् ॥
पादस्ते पततां पुत्र कथमेतत्तयोदितम् ॥ १२३ ॥
तव प्रसादाच्चरणो न पतेद्भगवन्यथा ॥
मातृशापादयं मेऽद्य तथा चिंतय गोपते ॥ १२४ ॥
॥ रविरुवाच ॥ ॥
असंशयं महत्पुत्र भविष्यत्यत्र कारणम् ॥
येन ते ह्याविशत्क्रोधो धर्मज्ञस्य महात्मनः ॥ १२६ ॥
सर्वेषामेव शापानां प्रतिघातोऽपि विद्यते ॥
न तु मात्राभिशप्तानां क्वचिच्छापनिवर्त्तनम् ॥ १२६ ॥
न युक्तमेतन्मिथ्या तु कर्तुँ मातुर्वचस्तव ॥
किंचित्ते संविधास्यामि पुत्रस्नेहादनुग्रहम् ॥ १२७ ॥
कृमयो मांसमादाय प्रयास्यंति महीतलम् ॥
कृतं तस्या वचः सत्यं त्वं च त्रातो भविष्यसि ॥ १२८ ॥
॥ ईश्वर उवाच ॥ ॥
आदित्यस्त्वब्रवीच्छायां किमर्थं तनयेषु वै ॥
तुल्येष्वप्यधिकः स्नेह एकत्र क्रियते त्वया ॥ १२९ ॥
नूनं न चैषां जननी त्वं संज्ञा क्वापि सा गता ॥
विकलेष्वप्यपत्येषु न माता शापदा भवेत् ॥ 7.1.11.१३० ॥
अपि दोषसहस्राणि यदि पुत्रः समाचरेत् ॥
प्राणद्रोहेऽपि निरतो न माता पापमाचरेत् ॥
तस्मात्सत्यं मम ब्रूहि मा शापवशगा भव ॥ १३१ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
तं शप्तुमुद्यतं दृष्ट्वा छायासंज्ञा दिनाधिपम् ॥
भयेन कंपती देवी यथावृत्तं महासती ॥ १३२ ॥
सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ॥
पत्नी तव त्वया पत्या पतियुक्ता दिवाकर ॥ १३३ ॥
इत्थं विवस्वतः सा तु बहुशः पृच्छतोऽन्यथा ॥
न वाचा भाषते क्रुद्धः शापं दातुं समुद्यतः ॥ १३४ ॥
शापोद्यतकरं दृष्ट्वा सूर्यं छाया विवस्वतः ॥
कथयामास तत्सर्वं संज्ञायाः सुविचेष्टितम् ॥ १३५ ॥
तच्छ्रुत्वा भगवान्सूर्यो जगाम त्वष्टुरालयम् ॥
ततः संपूजयामास तदा त्रैलोक्यपूजितम् ॥ १३६ ॥
निर्दग्धुकामं रोषेण सान्त्वयामास पार्वति ॥
भास्वंतं निजया दीप्त्या निजगेहमुपागतम् ॥
क्व संज्ञेति च पृच्छन्तं कथयामास विश्वकृत् ॥ १३७ ॥
॥ विश्वकर्म्मोवाच ॥ ॥
आगतैव हि मे वेश्म भवता श्रूयतां वचः ॥
विख्यातं तेजसाऽऽढ्यं त इदं रूपं सुदुःसहम् ॥ १३८ ॥
असहन्ती ततः संज्ञा वने चरति वै तपः ॥
द्रक्ष्यसे तां भवानद्य स्वभार्यां शुभचारिणीम् ॥ १३९ ॥
रूपार्थं चरतेऽरण्यं चरंती सुमहत्तपः ॥
मतं मे ब्रह्मणो वाक्याद्यदि ते देव रोचते ॥
रूपं निर्वर्त्तयाम्यद्य तव कांतं दिवस्पते ॥ 7.1.11.१४० ॥
॥ ईश्वर उवाच ॥ ॥
यतो हि भास्वतो रूपं प्रागासीत्परिमंडलम् ॥
ततस्तथेति तं प्राह त्वष्टारं भगवान्रविः ॥ १४१ ॥
विश्वकर्मात्वनुज्ञातः शाकद्वीपे विवस्वता ॥
भृ(भू?)मिमारोप्य तत्तेजः शातनायोपचक्रमे ॥१४२॥
भ्रमताऽशेषजगतामधिभूतेन भास्वता ॥
समुद्रा द्रविणोपेताश्चुक्षुभुश्च समन्ततः ॥ १४३ ॥
भ्रमता खलु देवेशि सचंद्रग्रहतारकम्॥
अधोगति महाभागे बभूवाक्षिप्तमाकुलम् ॥१४४॥
विक्षिप्तसलिलाः सर्वे बभूवुश्च तथा नदाः ॥
व्यभिद्यंत तथा शैलाः शीर्णसानुनिबंधनाः ॥ १४५ ॥
ध्रुवाधाराण्यशेषाणि धिष्ण्यानि वरवर्णिनि ॥
भ्राम्यद्रश्मिनिबद्धानि अधो जग्मुः सहस्रशः ॥ १४६ ॥
व्यशीर्यंत महामेघा घोरारावविराविणः ॥
भास्वद्भ्रमणविभ्रांतभूम्याकाशमहीतलम् ॥ १४७ ॥
जगदाकुलमत्यर्थं तदाऽऽसीद्वरवर्णिनि ॥
त्रैलोक्ये सकले देवि भ्रममाणे महर्षर्यः ॥
देवाश्च ब्रह्मणा सार्द्धं भास्वंतमभितुष्टुवुः॥१४८॥
॥ देवा ऊचुः॥ ॥
आदिदेवोऽसि देवानां जातमेतत्स्वयं तव ॥
सर्गस्थित्यंतकालेषु त्रिधा भेदेन तिष्ठसि ॥ १४९ ॥
स्वस्ति तेऽस्तु जगन्नाथ घर्मवर्षहिमाकर ॥
इंद्र आगम्य तं देवं लिख्यमानमथास्तवीत् ॥
जय देव जगत्स्वामिञ्जय देव जगत्पते ॥7.1.11.१५॥।
ऋषयश्च ततः सप्त वसिष्ठात्रिपुरोगमाः ॥
तुष्टुवुर्विविधैः स्तोत्रैः स्वस्ति स्वस्तीति वादिनः ॥
वेदोक्तिभिरथाग्र्याभिर्वालखिल्याश्च तुष्टुवुः ॥ १५१ ॥
॥ वालखिल्या ऊचुः ॥ ॥
नमस्त ऋक्स्वरूपाय सामरूपाय ते नमः ॥
यजुःस्वरूपरूपाय साम्नां धामग ते नमः ॥ १५२ ॥
ज्ञानैकरूपदेहाय निर्धूततमसे नमः ॥
शुद्धज्योतिःस्वरूपाय त्रिमूर्तायामलात्मने ॥ १५३ ॥
वरिष्ठाय वरेण्याय सर्वस्मै परमात्मने ॥
नमोऽखिलजगद्व्यापिरूपायानंतमूर्त्तये ॥ १५४ ॥
सर्वकारणभूताय निष्ठाय ज्ञान चेतसाम् ॥
नमः सूर्यस्वरूपाय प्रकाशालक्ष्यरूपिणे ॥ १५५ ॥
भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥
सर्वस्मै हेतवे चैव संध्याज्यो त्स्नाकृते नमः ॥ १५६ ॥
त्वं सर्वमेतद्भगवञ्जगच्च भ्रमता त्वया ॥
भ्रमत्याविश्वमखिलं ब्रह्मांडं सचराचरम् ॥
त्वदंशुभिरिदं सर्वं स्पृष्टं वै जायते शुचि ॥ १५७ ॥
क्रियते त्वत्करस्पर्शैर्जलादीनां पवित्रता ॥ १५८ ॥
होमदानादिको धर्मो नोपकाराय जायते ॥
तात यावन्न संयोगि जगदेतत्त्वदंशुभिः ॥ १५९ ॥
ऋचस्ते सकला ह्येतास्तथा यानि यजूंषि च ॥
सकलानि च सामानि निपतंति त्वदंगतः ॥ 7.1.11.१६० ॥
ऋङ्मयस्त्वं जगन्नाथ त्वमेव च यजुर्मयः ॥
यतः साममयश्चैव ततो नाथ त्रयीमयः ॥ १६१ ॥
त्वमेव ब्रह्मणो रूपं परं चापरमेव च ॥
मूर्त्तामूर्त्तं तथा सूक्ष्मं स्थूलं रूपेण संस्थितः ॥ १६२ ॥
निमेषकाष्ठादिमयः कालरूपक्षणात्मकः॥
प्रसीद स्वेच्छया रूपं स्वं तेजः शमनं कुरु॥
त्वं देव जगतां हेतोर्दुःखं सहसि दुःसहम्॥ १६३॥
त्वं नाथ मोक्षिणां मोक्षो ध्येयस्त्वं ध्यायतां वरः॥
त्वं गतिः सर्वभूतानां कर्मकांडनिवर्तिनाम्॥१६४॥
शं प्रजाभ्योऽस्तु देवेश शन्नोऽस्तु जगतांपते॥१६५॥
त्वं धाता विसृजसि विश्वमेक एव त्वं पाता स्थितिकरणाय संप्रवृत्तः॥
त्वय्यंते लयमखिलं प्रयाति चैतत्त्वत्तोन्यो न हि तपनास्ति सर्वदाता ॥ १६६ ॥
त्वं ब्रह्मा हरिहरसंज्ञितस्त्वमिन्द्रो वित्तेशः पितृपितरंबुपः समीरः ॥
सोमोऽग्निर्गगनमहाधरादिरूपः किं न त्वं सकलमनोरथप्रदाता ॥ १६७ ॥
यज्ञैस्त्वामनुदिनमात्मकर्म्मसक्ताः स्तुवन्तो विविधपदैर्द्विजा यजंति ॥
ध्यायन्तः सविनयचेतसो भवन्तं योगस्थाः परमपदं प्रयांति मर्त्त्या ॥ १६८ ॥
तपसि पचसि विश्वं पासि भस्मीकरोषि प्रकटयसि मयूखैर्ह्लादयतस्यंशुगर्भैः॥
सृजसि कमलजन्मा पालयस्यच्युताख्यः क्षपयसि च युगांते रुद्ररूपस्त्वमेकः॥१६९॥
ईश्वर उवाच॥
लिखमानस्ततो भानुं विश्वकर्मा प्रजापतिः॥
उद्भूतपुलकः स्तोत्रमिदंचक्रे विवस्वतः॥7.1.11.१७॥।
विवस्वते प्रणतजनानुकम्पिने महात्मने समजवसप्तसप्तये ॥
सतेजसे कमलकुलालिबंधवे सदा तमःपटलपटावपाटिने ॥१७१॥
पावनातिशयसर्वचक्षुषे नैककामविषयप्रदायिने ॥
भासुरामलमयूखमालिने सर्वभूतहितकारिणे नमः ॥१७२॥
अजाय लोकत्रयभावनाय भूतात्मने गोपतये वृषाय ॥
नमो महाकारुणिकोत्तमाय सूर्याय वस्तुप्रभवालयाय ॥ १७३ ॥
विवस्वते ज्ञानभृतेऽन्तरात्मने जगत्प्रतिष्ठाय जगद्धितैषिणे ॥
स्वयंभुवे निर्मललोकचक्षुषे सुरोत्तमायामिततेजसे नमः ॥ १७४॥
क्षणमुदयाचलभालितार्च्चिः सुरगणगीतिगरिष्ठगीतः ॥
त्वमुत मयूखसहस्रवज्जगति विकासितपद्मनाभः ॥१७५॥
तव तिमिरासवपानमदाद्भवति विलोहितविग्रहता ॥
मिहिरविभासतया सुतरां त्रिभुवनभावनमात्रपरः ॥ १७६ ॥
रथमारुह्य समावयवं रुचिरविकलितदिव्यहयम्॥
सततमरिबले भगवंश्चरसि जगद्धितबद्धरसः ॥ १७७ ॥
अमृतमयेन रसेन समं विबुधपितॄनपि तर्प्पयसे ॥
अरिगणसूदन तेन तव प्रणतिमुपेत्य लिखामि वपुः ॥ ॥ १७८ ॥
शुभसमवर्णमयं रचितं तव पदपांसुपवित्रतमम् ॥
नतजनवत्सल मां प्रणतं त्रिभुवनपावन पाहि रवे ॥ १७९ ॥
इति सकलजगत्प्रसूति भूतं त्रिभुवनभावनधामहेतुमेकम् ॥
रविमखिलजगत्प्रदीपभूतं त्रिदशवरं प्रणतोऽस्मि देवदेवम्॥ 7.1.11.१८० ॥
॥ ईश्वर उवाच ॥ ॥
हाहाहूहश्च गन्धर्वो नारदस्तुंबरुस्तथा ॥
उपगातुं समारब्धा गांधर्वकुशला रविम्॥ १८१ ॥
षड्जमध्यमगांधारग्रामत्रयविशारदाः ॥
मूर्छनाभिश्च तानैश्च सुप्रयोगैः सुखप्रदम्॥ १८२ ॥
सप्तस्वरविनिर्वृत्तं यतित्रयविभूषितम्॥
सप्तधातुसमायुक्तं षड्जाति त्रिगुणाश्रयम् ॥ १८३ ॥
चतुर्गीतसमायुक्तं चतुवर्णसमुत्थितम् ॥
चतुर्वर्णप्रतीकारं सप्तालंकारभूषितम्॥ १८४ ॥
त्रिस्थानशुद्धं त्रिलयं सम्यक्कालव्यवस्थितम्॥
चित्ते चित्ते च नृत्ये च रसेषु लयसंयुतम् ॥ १८५ ॥
चतुर्विंशद्गुणैर्युक्तं जगुर्गीतं च गायनाः ॥
विश्वार्ची च घृताची च उर्वश्यथ तिलोत्तमा ॥ १८६ ॥
मेनका सहजन्या च रंभा चाप्सरसां वरा ॥
चतुर्विधपदं तालं त्रिप्रकारं लयत्रयम् ॥ १८७ ॥
यतित्रयं तथाऽऽतोद्यं नाट्यं चैव चतुर्विधम् ॥
ननृतुर्जगतामीशे लिख्यमाने विभावसौ ॥ १८८ ॥
भावान्भावविशारद्यः कुर्वन्त्यो विधिवद्बहून् ॥
देवदुन्दुभयः शंखाः शतशोऽथ सहस्रशः ॥ १८९ ॥
अनाहता महादेवि नेदिरे घननिस्वनाः ॥
गायद्भिश्चैव गंधर्वैर्नृत्यद्भिश्चाप्सरोगणैः ॥ 7.1.11.१९० ॥
अवाद्यंत ततस्तत्र वेणुवीणादिझर्झराः ॥
पणवाः पुष्कराश्चैव मृदंगपटहानकाः ॥ १९१ ॥
तूर्यवादित्रघोषैश्च सर्वं कोलाहलीकृतम् ॥
ततः कृतांजलिपुटा भक्तिनम्रात्ममूर्त्तयः ॥ १९२ ॥
ततः कलकले तस्मिन्सर्वदेवसमागमे ॥
संवत्सरं भ्रमस्थस्य विश्वकर्मा रवेस्ततः ॥ १९३ ॥
तेजसः शातनं चक्रे स्तूयमानस्य दैवतैः ॥
देवं चक्रे समारोप्य भ्रामयामास सूत्रभृत् ॥१९४॥
मृत्पिंडवत्कुलालस्य संस्पृशन्क्षुरधारया ॥
पतंगस्य स्तवं कुर्वन्विश्वकर्मा दिवस्पतेः॥ १९५ ॥
तेजसः षोडशं भागं मण्डलस्थमधारयत् ॥
शातितं तस्य तत्तेजो यावत्पादौ वरानने ॥ १९६ ॥
यत्तस्य ऋङ्मयं तेजस्तत्प्रभासेऽपतत्प्रिये ॥
यजुर्मयेन देवेशि भाविता द्यौर्महाप्रभोः ॥ १९७ ॥
स्वर्गं साममयेनापि भूर्भुवःस्वरितिस्थितम् ॥
ततस्तैस्तेजसो भागैर्दशभिः पंचभिस्तथा॥ १९८ ॥
तेन वै निर्मितं चक्रं विष्णोः शूलं हरस्य च ॥
महाप्रभं महाकायं शिबिका धनदस्य च ॥ १९९ ॥
दण्डः प्रेतपतेः शक्तिर्देवसेनापतेस्तथा ॥
अन्येषां च सुराणां च अस्त्राण्युक्तानि यानि वै ॥ 7.1.11.२०० ॥
यक्षविद्याधराणां च तानि चक्रे स विश्वकृत् ॥
ततः षोडशमं भागं बिभर्त्ति भगवान्रविः॥ ॥
तत्तेजो रविभागश्च खस्थो विचरति प्रिये ॥ २०१ ॥
इति शातिततेजाः स श्वशुरेणातिशोभनम् ॥
वपुर्दधार मार्त्तंडः पुष्पबाणमनोरमम् ॥ २०२ ॥
ततः सुरूप धृग्भानुरुत्तरानगमत्कुरून्॥
ददृशे तत्र संज्ञां तु वडवारूपधारिणीम् ।१ २०३ ॥
अपापां सर्वभूतानां तपसा नियमेन च ॥
सा च दृष्ट्वा तमायांतं परपुंसो विशंकया ॥
जगाम संमुखं तस्य अश्वरूपधरस्य च ॥२०४॥
ततश्च नासिकायोगे तयोस्तत्र समेतयोः॥
नासत्यदस्रौ तनयावश्ववक्त्रौ विनिर्गतौ ॥२०५॥
रेतसोन्ते च रेवन्तः खड्गी छत्री तनुत्रभृत् ॥
पितुर्गृह्योत्तमं सोऽश्वं जातमात्रः पलायत ॥ २०६ ॥
स तस्मिन्सकृदारूढस्तमश्वं नैव मुंचति ॥
ततोर्केण समादिष्टौ दंडनायकपिंगलौ ॥२०७॥
अश्वं प्रत्यानयध्वं मे मा बलाच्छिद्रतोऽस्यतु ॥
पार्श्वस्थौ तिष्ठतस्तस्य अश्वच्छिद्राभिकांक्षिणौ॥२०८॥
न च च्छिद्रं लभेते तौ तस्याद्यापि महात्मनः॥
अग्रे गच्छति रेवंते पृष्ठगौ दण्डपिंगलौ ॥२०९॥
उत्तरेभ्यः कुरुभ्यस्तु निर्गतौ वेगवत्तरौ ॥
दक्षिणं भारतं प्राप्तौ यत्र क्षेत्र प्रभासिकम् ॥7.1.11.२१॥।
अत्यर्थं वेगखिन्नौ तौ स च रेवंतकोऽपि हि ॥
प्रस्विन्नगात्रः सोच्छ्वासो रेवंतस्तत्र संस्थितः ॥२११॥
मुहूर्तेन समाक्रान्तं लक्षयोजनमंडलम् ॥
उत्तराद्दक्षिणं देवि रेवतेन महात्मना ॥ २१२ ॥
स्विन्नगात्रस्ततो देवि प्रभासे समवस्थितः ॥
दण्डपिंगलकसंयुक्तो ह्यश्वारूढः स तिष्ठति॥२१३॥
सावित्र्या नैर्ऋते भागे नातिदूरे व्यवस्थितः॥
राज्ञीपुत्रो यतो देवि राजा भट्टारकस्ततः॥ २१४॥
लोके ख्यातिं समायाति राजभट्टारिकेति च॥
गुह्यभट्टारकत्वे च रेवंतो विनियोजितः॥ २१५॥
एवमभ्येत्याह ततो भगवाँल्लोकतापनः॥
त्वमप्यशेषलोकस्य पूज्यो वत्स भविष्यसि॥ २१६॥
अरण्ये च महादावे वैरिदस्युभयेषु च॥
त्वां स्मरिष्यंति ये मर्त्त्या मोक्ष्यन्ते ते महापदः॥२१७॥
क्षेममृद्धिं सुखं राज्यमारोग्यं कीर्तिमुन्नतिम्॥
नराणामतितुष्टस्त्वं पूजितः संप्रदास्यसि॥ २१८ ॥
अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना॥
धर्मदृष्टिर्यमश्चासौ समो मित्रे तथाऽहिते॥ २१९॥
ततो नियोगं तं चास्य चकार तिमिरापहः॥
यमुनां च नदीं चक्रे कलिन्दान्तरवाहिनीम् ॥ 7.1.11.२२० ॥
छायासंज्ञासुतश्चापि सावर्णिस्तु महायशाः ॥
भाव्यः सोनागते काले मनुः सावर्णिकोष्टमः ॥ २२१ ॥
मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः ॥
भ्राता शनैश्चरस्तस्य ग्रहोऽभूच्च प्रिये ध्रुवम् ॥ २२२ ॥
एवं तेभ्यो वरान्दत्त्वा रेवंतस्यापि भास्करः ॥
पुनर्नाम निरुक्तं स रेवंतस्याकरोत्प्रमुः ॥२२३॥
एवंगच्छत्यसौ यस्मात्संज्ञायाः शांतिदः सुतः ॥
अश्वानामाधिपत्ये तु भानुना च नियोजितः ॥ २२४ ॥
क्षेमेण गच्छतेऽध्वानं यस्तु पूजयते पथि ॥
सुखप्रसाद्यो मर्त्त्यानां सदा च वरवर्णिनि ॥ २२५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये राजभट्टारकोत्पत्तिवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥ ॥ छ ॥