स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०१०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

॥ ईश्वर उवाच ॥ ॥
अन्यच्च कथयिष्यामि रहस्यं तव भामिनि ॥
यत्र कस्य चिदाख्यातं तत्ते वच्मि वरानने ॥ १ ॥
पृथ्वीभागे स्थितो ब्रह्मा अपां भागे जनार्द्दनः ॥
तेजोभागस्थितो रुद्रो वायुभागे तथेश्वरः ॥ २ ॥
आकाशभागसंस्थाने स्थितः साक्षात्सदाशिवः ॥ ३ ॥
यस्ययस्यैव यो भागस्तस्मिंस्तीर्थानि यानि वै ॥
तस्यतस्य न संदेहः स स एवेश्वरः स्मृतः ॥ ४ ॥
छागलंडं दुगण्डं च माकोटं मण्डलेश्वरम् ॥
कालिंजरं वनं चैव शंकुकर्णं स्थलेश्वरम् ॥ ५ ॥ महाभूतोपरि टिप्पणी
शूलेश्वरं च विख्यातं पृथ्वीतत्त्वे च संस्थितम् ॥
हरिश्चन्द्रं च श्रीशैलं जल्पेशोन्नांतिकेश्वरम्॥ ६ ॥
महाकालं मध्यमं च केदारं भैरवं तथा ॥
पवित्राष्टकमेतद्धि जलसंस्थं वरानने ॥ ७ ॥
अमरेशं प्रभासं च नैमिषं पुष्करं तथा ॥
आषाढिं चैव दण्डिं च भारभूतिं च लांगलम् ॥ ८ ॥
आदि गुह्याष्टकं ह्येतत्तेजस्तत्त्वे प्रतिष्ठितम् ॥
गया चैव कुरुक्षेत्रं तीर्थं कनखलं तथा ॥ ९ ॥
विमलं चाट्टहासं च माहेन्द्रं भीमसंज्ञकम् ॥
गुह्याद्गुह्यतरं ह्येतत्प्रोक्तं वाय्वष्टकं तव ॥ 7.1.10.१० ॥
वस्त्रापथं रुद्रकोटिर्ज्येष्ठेश्वरं महालयम् ॥
गोकर्णं रुद्रकर्णं च वर्णाख्यं स्थापसंज्ञकम् ॥ ११ ॥
पवित्राष्टकमेतद्धि आकाशस्थं वरानने ॥
एतानि तत्त्वतीर्थानि सर्वाणि कथितानि वै ॥ १२ ॥
यो यस्मिन्देवता तत्त्वे सा तन्माहात्म्यसूचिका ॥
औदकं च महातत्त्वं विष्णोश्चातिप्रियं प्रिये ॥ १३ ॥
जलशायी स्मृतस्तेन नारायण इति श्रुतिः ॥
आप्यतत्त्वं तु तीर्थानि यानि प्रोक्ता- नि ते मया ॥ १४॥
तानि प्रियाणि देवेशि ध्रुवं नारायणस्य वै ॥
औदकं चैव यत्तत्त्वं तस्मिन्प्राभासिकं स्मृतम् ॥ १५ ॥
तत्र देवो लयं याति हरिर्जन्मनिजन्मनि ॥
स वासुदेवः सूक्ष्मात्मा परात्परतरे स्थितः ॥ १६ ॥
स शिवः परमं व्योम अनादिनिधनो विभुः ॥
तस्मात्परतरं नास्ति सर्वशास्त्रागमेषु च ॥ १७ ॥
सिद्धांतागमवेदांतदर्शनेषु विशेषतः ॥
तेषु चैव न भिन्नस्तु मया सार्द्धं यशस्विनि ॥ १८ ॥
तस्मिन्स्थाने हरिः साक्षात्प्रत्यक्षेण तु संस्थितः ॥
लिंगैश्चतुर्भिः संयुक्तो ज्ञायते न च केनचित् ॥ १९ ॥
मोक्षार्थं नैष्ठिकैर्वर्णैर्व्रतैश्चैव तु यत्फलम् ॥
तत्फलं समवाप्नोति भल्लुकातीर्थदर्शनात्॥ 7.1.10.२० ॥
गोचर्ममात्रं तत्स्थानं समंतात्परिमण्डलम् ॥
न हि कश्चिद्विजानाति विना शास्त्रेण भामिनि॥ २१ ॥
विषुवं वहते तत्र नृणामद्यापि पार्वति ॥
पंचलिंगानि तत्रैव पंचवक्त्राणि कानि चित् ॥ २२ ॥
कुक्कुटांडकमानानि महास्थूलानि कानिचित्॥
सर्पेण वेष्टितान्येव चिह्नितानि त्रिशूलिभिः ॥ २३ ॥
तेषां दर्शनमात्रेण कोटिलिंगार्चनफलम् ॥
तस्मादिदं महाक्षेत्रं ब्रह्माद्यैः सेव्यते सदा ॥२४ ॥
श्रुतिमद्भिश्च विप्रेंद्रैः संसिद्धैश्च तपस्विभिः ॥
प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम् ॥ २५ ॥
शशिभानूपरागे वा कार्त्तिक्यां तु विशेषतः ॥
प्रभासस्थानि लिंगानि प्रपूज्यन्ते वरानने ॥ २६ ॥
संनिहत्यां कुरुक्षेत्रे सर्वस्तीर्थायुतैः सह ॥
पुष्करं नैमिषं चैवं प्रयागं संपृथूदकम् ॥२७॥
षष्टि तीर्थसहस्राणि षष्टिकोटिशतानि च ॥
माघ्यांमाघ्यां समेष्यंति सरस्वत्यब्धिसंगमे ॥ २८ ॥
स्मरणात्तस्य तीर्थस्य नामसंकीर्तनादपि ॥
मृत्युकालभवाद्वापि पापं त्यक्ष्यति सुव्रते ॥ २९ ॥
आनर्त्तसारं सौम्यं च तथा भुवनभूषणम् ॥
दिव्यं पांचनदं पुण्यमादिगुह्यं महोदयम् ॥ 7.1.10.३० ॥
सिद्ध रत्नाकरं नाम समुद्रावरणं तथा॥
धर्माकारं कलाधारं शिवगर्भगृहं तथा ॥३१॥
सर्वदेवनिवेशं च सर्वपातकनाशनम्॥
अस्य क्षेत्रस्य नामानि कल्पे कल्पे पृथक्प्रिये ॥ ३२ ॥
आयामादीनि जानीहि गुह्यानि सुरसुन्दरि ॥
आद्ये कल्पे पुरा देवि प्रमोदनमिति स्मृतम् ॥ ३३ ॥
नन्दनं परितस्तस्य तस्यापि परतः शिवम् ॥
शिवात्परतरं चोग्रं भद्रिकं परतः पुनः ॥ ३४ ॥
समिंधनं परं तस्मात्कामदं च ततः परम् ॥
सिद्धिदं चापि धर्मज्ञं वैश्वरूपं च मुक्तिदम्॥ ३५ ॥
तथा श्रीपद्मनाभं तु श्रीवत्सं तु महाप्रभम्॥
तथा च पापसंहारं सर्वकामप्रदं तथा ॥ ३६ ॥
मोक्षमार्गं वरा रोहे तथा देवि सुदर्शनम् ॥
धर्मगर्भं तु धर्माणां प्रभासं पापनाशनम् ॥
अतः परं भवन्तीह उत्पलावर्त्तिकानि च ॥ ३७ ॥
क्षेत्रस्य मध्ये यद्देवि मम गर्भगृहं स्मृतम् ॥
तस्य नामानि ते देवि कथितान्यनुपूर्वशः ॥ ३८ ॥
श्रुत्वा नामान्यशेषाणि क्षेत्रमाहात्म्यमेव च ॥
तेषां तु वांछिता सिद्धि र्भविष्यति न संशयः ॥ ३९ ॥
एतत्कीर्त्तयमानस्य त्रिकालं तु महोदयम् ॥
संध्याकालांतरं पापमहोरात्रं विनश्यति ॥ 7.1.10.४० ॥
अपि वै दांभिकाश्चैव ये वसंत्यल्पबुद्धयः ॥
मूढा जीवनिका विप्रास्तेऽपि यांति मृता दिवम् ॥ ४१ ॥
अस्य क्षेत्रस्य मध्ये तु रवियोजनमध्यतः ॥
उपक्षेत्राणि देवेशि संत्यन्यानि सहस्रशः ॥ ४२ ॥
कानिचित्पद्मरूपाणि यवाकाराणि कानिचित् ॥
षट्कोणानि त्रिकोणानि दण्डाकाराणि कानिचित् ॥ ४३ ॥
चंद्रबिंबार्द्धभेदानि चतुरस्रप्रभेदतः ॥
ब्रह्मादिदैवतानीशे क्षेत्रमध्ये स्थितानि तु ॥ ४४ ॥
कानिचिद्योजनार्द्धानि तदर्धार्धानि कानिचित् ॥
निवर्त्तनप्रमाणेन दण्डमानेन कानिचित् ॥४५ ॥
गोचर्ममानमध्यानि कानिचिद्धनुषांतरम् ॥
यज्ञोपवीतमात्राणि प्रभासे संति कोटिशः ॥ ४६ ॥
अंगुल्यष्टम भागोऽपि नभोस्ति कमलेक्षणे ॥
न संति यस्मिंस्तीर्थानि दिव्यानि च नभस्तले ॥ ४७ ॥
प्रभासक्षेत्रमासाद्य तिष्ठंति प्रलयादनु ॥
केदारे चैव यल्लिंगं यच्च देवि महालये ॥ ४८ ॥
मध्यमेश्वरसंस्थं च तथा पाशुपतेश्वरम् ॥
शंकुकर्णेश्वरं चैव भद्रेश्वरमथापि च ॥ ४९ ॥
सोमे श्वरमथैकाग्रं कालेश्वरमजेश्वरम् ॥
भैरवेश्वरमीशानं तथा कायावरोहणम् ॥ 7.1.10.५० ॥
चापटेश्वरकं पुण्यं तथा बदरिकाश्रमम् ॥
रुद्रकोटिर्महाकोटि स्तथा श्रीपर्वतं शुभम् ॥५१॥
कपाली चैव देवेशः करवीरं तथा पुनः ॥
ओंकारं परमं पुण्यं वशिष्ठाश्रममेव च ॥
यत्र कोटिः स्मृता देवि रुद्राणां कामरूपिणाम् ॥ ५२ ॥
यानि चान्यानि स्थानानि पुण्यानि मम भूतले ॥
प्रयागं पुरतः कृत्वा प्रभासे निवसंति च ॥ ५३ ॥
उत्तरे रविपुत्री तु दक्षिणे सागरं स्मृतम् ॥
दक्षिणोत्तरमानोऽयं क्षेत्रस्यास्य प्रकीर्त्तितः ॥ ५४ ॥
रुक्मिण्याः पूर्वतश्चैव तप्ततोयाच्च पश्चिमे ॥
पूर्वपश्चिममानोऽयं प्रभासस्य प्रकीर्त्तितः ॥ ५५ ॥
एतदन्तरमासाद्य तीर्थानि सुरसुन्दरि ॥
पातालादिकटाहांतं तानि तत्र वसंति वै ॥ ५६ ॥
एवं ज्ञात्वा महादेवि सर्वदेवमयो हरिः ॥
प्रभासक्षेत्रमासाद्य तत्याज स्वं कलेवरम् ॥ ५७ ॥
दिव्यं ममेदं चरितं हि रौद्रं श्रोष्यंति ये पर्वसु वा सदा वा ॥
ते चापि यास्यंति मम प्रसादात्त्रिविष्टपं पुण्यजनाधिवासम् ॥ ५८ ॥
इति कथितमशेषमेव चित्रं चरितमिदं तव देवि पुण्ययुक्तम् ॥
इतरमपि तवातिवल्लभं यद्वद कथयामि महोदयं मुनीनाम् ॥ ५९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभास क्षेत्रस्थ तीर्थक्षेत्रमाहात्म्यद्वारा प्रभासक्षेत्रस्य सर्वक्षेत्रोत्तमत्ववर्णनंनाम दशमोऽध्यायः ॥१०॥