स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ००८

विकिस्रोतः तः
Jump to navigation Jump to search

॥ देव्युवाच ॥ ॥
पुनः कथय देवेश माहात्म्यं लोकशंकर ॥
श्रीसोमेश्वरदेवस्य सर्वपातकनाशनम्॥
ब्रह्मविष्ण्वीशदैवत्यं तथात्र त्रितयं वद ॥ ॥। १ ॥
॥ ईश्वर उवाच ॥ ॥
शृणुष्वैकमना भूत्वा मम गोप्यं पुरातनम् ॥
तस्मिँल्लिंगे च यद्वृत्तमाश्चर्यं परमं महत् ॥ २ ॥
षष्टिकोटि सहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ॥
तस्मिँल्लिंगे प्रविष्टानि ते घृताहुतिरिवानले ॥ ३ ॥
सिद्धिर्वृद्धिस्तथा तुष्टिर्ऋद्धिः पुष्टिस्तु पंचमी ॥
कीर्तिः शांतिस्तथा लक्ष्मीस्तस्मिंल्लिंगे समुत्थिता ॥ ४ ॥
सप्तकोट्यस्तु मंत्राणां सिद्धीनां चैव संभवः ॥
दिव्ययोगरसाश्चान्ये दिव्यौषधिरसायनाः ॥ ५ ॥
गारुडं भूततंत्रं च खेचर्यो व्यंतरीस्तथा ॥
ते सर्वे सह योगेन तस्माल्लिंगात्समुत्थिताः ॥ ६ ॥
अन्याश्चैव तु याः काश्चित्सिद्धयोऽष्टौ प्रकीर्तिताः ॥
ताः सर्वाः सह लिंगेन तस्मात्स्थानात्समुत्थिताः ॥ ७ ॥
अन्यद्देवि प्रवक्ष्यामि अत्र सिद्धिं गतास्तु ये ॥
ममांशसंभवाः प्राप्ता अस्मिँल्लिंगे लयं गताः ॥ ९ ॥
तेषां च विक्रमान्सर्वान्प्रवक्ष्याम्यनुपूर्वशः ॥
पुराक्रमा ग्रहा मुण्डा गुडकाश्च सहेतुकाः ॥ ९ ॥
विमला दंडिकाश्चैव सप्तैते कुत्सिकाः स्मृताः ॥
अस्मिंल्लिंगे पुरा सिद्धा योगात्पाशुपतान्मम ॥ 7.1.8.१० ॥
रुद्रो विप्रस्तथा दानश्चंद्रो मन्थोऽवलोककः ॥
सूर्यावलोकश्चेति गार्गेयाः सप्त कीर्त्तिताः ॥ ११ ॥
सोमेश्वरे च ते सिद्धाः प्रभासे वरवर्णिनि ॥
मूकमन्यः शिवश्चैव प्रकाशः कपिलस्तथा ॥ १२ ॥
सत्कुलः कर्णिकारश्च पौरुषेयाः प्रकीर्त्तिताः ॥
सोमेश्वरे पुरा सिद्धाः प्रभासे पापनाशने ॥ १३ ॥
युगेयुगे पुरा सिद्धास्तस्मिँल्लिंगे प्रिये मम ॥
एते चान्ये च ये विप्रा भविष्यंति कलौ युगे ॥ १४ ॥
तत्र सिद्धिं गमिष्यंति दुर्ल्लभां त्रिदशैरपि ॥
एतत्ते सर्वमाख्यातं तल्लिंगं सिद्धिदं परम् ॥ १९ ॥
दुर्ल्लभं सर्वमर्त्त्यानां प्रभासे तु व्यवस्थितम् ॥
न च कश्चिद्विजानाति अशुभैः कर्मभिर्वृतः ॥ १६ ॥
ग्रहदोषास्तु ये केचिद्भूतदोषास्तथा परे ॥
डाकिनीप्रेतवेताला राक्षसा ग्रहपूतनाः ॥ १७ ॥
पिशाचा यातुधानाश्च मातरो जातहारिकाः ॥
बालग्रहास्तथा चान्ये बुद्धाश्चैव तु ये ग्रहाः ॥ १८ ॥
ज्वरभूत ग्रहाश्चान्ये ह्यतिसारभगंदराः ॥
अश्मरी मूत्रकृच्छ्रं च रोगाश्चान्ये सहस्रशः ॥ १९ ॥
दुर्नामकास्तथा चान्ये कुष्ठरोगास्तथा परे ॥
क्षयरोगास्तथा चान्ये वातगुल्मास्तथैव च ॥
अन्ये चैव तु ये केचिद्व्याधयस्तु प्रकीर्त्तिताः ॥ 7.1.8.२० ॥
सोमेश्वरं समासाद्य तस्य लिंगस्य दर्शनात् ॥
सर्व एव विनश्यंति वह्नौ क्षिप्तमिवेन्धनम् ॥ २१ ॥
उपसर्गाश्च () चान्ये सर्पघोणपवृश्चिकाः ॥
सर्वे तत्र विनश्यंति श्रीसोमेश्वरदर्शनात् ॥ २२ ॥
योऽसौ सोमेश्वरो नाम्ना पश्चिमो भैरवः स्मृतः ॥
कालाग्निरुद्रनाथेति पर्यायैर्नामभिः श्रुतः ॥ २३ ॥
तस्मिंस्तिष्ठामि देवेशि भक्तानुग्रहकारकः ॥
सर्वं च दुष्कृतं नृणां भक्षयामि न संशयः ॥ २४ ॥
योऽसौ प्राणः शरीरस्थो देहिनां देहसंचरः ॥
ब्रह्मांडमेतद्यस्यांतरेको यश्चाप्यनेकधा ॥ २५ ॥
वेदाः सर्वेऽपि यं देवं प्रशंसंति महर्षयः ॥
परस्य ब्रह्मणो रूपं यस्य द्वारेण लभ्यते ॥ २६ ॥
सोऽयं देवि महादेवः प्रभासे संव्यवस्थितः ॥
यथा गुप्तं गृहे रत्नं न कश्चिद्विंदते नरः ॥ २७ ॥
प्रभासे तु स्थितं तद्वद्रत्नभूतं गृहे मम ॥
तच्च लिंगं पुरा कल्पे सप्तपातालभेदकम् ॥ २८ ॥
कथितं कोटि सूर्यस्य प्रलयानलसंनिभम् ॥
तेनकालाग्निरुद्रेति प्रोक्तं सोमेश्वरः पुरा ॥ २९ ॥
इति देवि समासेन कथितं तव पार्वति ॥
सोमेश्वरस्य माहात्म्यं सर्वपातकनाशनम् ॥ 7.1.8.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासमाहात्म्ये श्रीसोमेश्वरैश्वर्यवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥