स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ००७

विकिस्रोतः तः
Jump to navigation Jump to search

॥ सूत उवाच ॥ ॥
एवं तत्र तदा देवी श्रुत्वा माहात्म्यमुत्तमम् ॥
हर्षोत्कंठितया वाचा पुनः पप्रच्छ शंकरम् ॥ १ ॥
॥ देव्युवाच ॥ ॥
देवदेव जगन्नाथ भक्तानुग्रहकारक ॥
समस्तज्ञानसंपन्न नमस्तेऽस्तु महेश्वर ॥ २ ॥
नमोऽस्तु वै त्रिपुरप्रहर्त्रे महात्मने तारकमर्दनाय ॥
नमोऽस्तु ते क्षीरसमुद्र दायिने शिशोर्मुनीन्द्रस्य समाहितस्य ॥३॥
नमोऽस्तु ते सर्वजगद्विधात्रे सर्वत्र सर्वात्मक सर्वकर्त्रे ॥
नमो भवायास्तु नमोऽभवाय नमोऽस्तु ते सर्वगताय नित्यम् ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
किं देवि पृच्छसेऽद्यापि सर्वं ते कथितं मया ॥
संदिग्धमस्ति किंचिच्चेत्पुनः पृच्छस्व भामिनि ॥ ५ ॥
॥ देव्युवाच ॥ ॥
सोमेश्वरेति यन्नाम कस्मिन्काले बभूव तत् ॥
किं नामाग्रेऽभवल्लिंगं नाम किं भविताऽधुना ॥ ६ ॥
एवं यस्य प्रभावो वै नोक्तः पूर्वं त्वया विभो ॥
अन्येषां तीर्थदेवानां माहात्म्यं वर्णितं त्वया ॥
न त्वीदृशं तु कथितं श्रीसोमेशस्य यादृशम् ॥ ७ ॥
॥ ईश्वर उवाच ॥ ॥
पूर्वमेवाहमेवासं स्पर्शलिंगस्वरूपवान् ॥
न च मां तत्त्वतो वेद जनः कश्चिदिहेश्वरि ॥ ८ ॥
महाकल्पे तु सञ्जाते ब्रह्मणः प्रति संचरे ॥
नामभावं भवेदन्यद्देवि लिंगे पुनःपुनः ॥ ९ ॥
अतीतं ब्रह्मणां षट्कं सप्तमोऽयं प्रजापतिः ॥
वर्त्तते योऽधुना देवि शतानन्द इति श्रुतः ॥ ॥ 7.1.7.१॥।
अस्मिन्ब्रह्मणि देवेशि संजाते ह्यष्टवार्षिके ॥
तदा कालात्समारभ्य सोमेश इति विश्रुतः ॥ ११ ॥
अतीतेषु च देवेशि ब्रह्मसुप्तलयादनु ॥
बभूवुर्यानि नामानि तानि त्वं शृणु पार्वति ॥ १२ ॥
आद्यो विरंचिनामासीद्यदा ब्रह्मा पितामहः ॥
मृत्युञ्जयस्तदा नाम सोमनाथस्य कीर्तितम् ॥ ॥ १३ ॥
द्वितीयोऽभूद्यदा ब्रह्मा पद्मभूरिति विश्रुतः ॥
तदा कालाग्निरुद्रेति नाम प्रोक्तं शुभेंऽबिके ॥ १४ ॥
तृतीयोऽभूद्यदा ब्रह्मा स्वयंभूरिति विश्रुतः ॥
अमृतेशेति देवस्य तदा नाम प्रकीर्तितम् ॥ १५ ॥
चतुर्थोऽभूद्यथा ब्रह्मा परमेष्ठीति विश्रुतः ॥
अनामयेति देवस्य तदा नाम स्मृतं शुभे॥१६॥
पंचमोऽभूद्यदा ब्रह्मा सुरज्येष्ठ इति स्मृतः॥
कृत्तिवासेति देवस्य नाम प्रोक्तं तदाम्बिके॥१७॥
षष्ठश्चाभूद्यदा ब्रह्मा हेमगर्भ इति श्रुतः॥
तदा भैरवनाथेति नाम देवस्य कीर्तितम्॥१८॥
अयं यो वर्त्तते ब्रह्मा शतानंद इति स्मृतः ॥
सोमनाथेति देवस्य वर्तते नाम सांप्रतम्॥१९॥
अतः परं चतुर्वक्त्रो ब्रह्मा यो भविता यदा ॥
प्राणनाथेति देवस्य तदा नाम भविष्यति॥7.1.7.२०॥
अतीता ये विधातारो भविष्यंति च येऽधुना॥
तावत्तद्वर्त्तते नाम यावदन्योष्टवार्षिकः ॥
संध्यासंध्यांशभेदेन विष्ण्वनंतसनातनाः ॥ २१ ॥
एवं नामानि देवस्य संक्षेपात्कीर्तितानि मे ॥
विस्तरात्कथितुं नैव शक्यंते कालगौरवात् ॥ २२ ॥
॥ देव्युवाच ॥ ॥
आश्चर्यं देवदेवेश यत्त्वया कथितं प्रभो ॥
पूर्वोक्तानि च नामानि न स्मरंति च मे कथम् ॥२३॥
एतद्विस्तरतो ब्रूहि कारणं च जगत्पते ॥
सर्वभूतहितार्थाय ममानुग्रहकाम्यया ॥ २४ ॥
॥ ईश्वर उवाच ॥ ॥
कल्पेकल्पे महादेवि अवतारं करोषि यत् ॥
तेन ते स्मरणं नास्ति प्रभावात्प्रकृतेः प्रिये ॥ २५ ॥
तत्त्वावरणमध्ये तु तत्राद्या त्वं प्रतिष्ठिता ॥
साऽवतीर्यांडमध्ये तु मया सार्द्धं वरानने ॥ २६ ॥
अनुग्रहार्थं लोकानां प्रादुर्भूता पुनःपुनः ॥
आद्ये कल्पे जगन्माता जगद्योनिर्द्वितीयके ॥ २७ ॥
तृतीये शांभवीनाम चतुर्थे विश्वरूपिणी ॥
पञ्चमे नंदिनीनाम षष्ठे चैव गणांबिका ॥ २८ ॥
विभूतिः सप्तमे कल्पे सुभूतिश्चाष्टमे तदा ॥
आनन्दा नवमे कल्पे दशमे वामलोचना ॥ २९ ॥
एकादशे वरारोहा द्वादशे च सुमङ्गला ॥
कल्पे त्रयोदशे चैव महामाया ह्युदाहृता ॥ 7.1.7.३० ॥
ततश्चतुर्दशे कल्पेऽनन्तानाम प्रकीर्तिता ॥
भूतमाता पंचदशे षोडशे चोत्तमा स्मृता ॥ ३१ ॥
ततः सप्तदशे कल्पे पितृकल्पे तु विश्रुता ॥
दक्षस्य दुहिता जाता सतीनाम्नी महाप्रभा ॥ ३२ ॥
अपमानात्तु दक्षस्य स्वां तनूमत्यजत्पुनः ॥
उमां कलां तु चन्द्रस्य पुरापूर्य च संस्थिता ॥ ३३ ॥
ततः प्रवृत्ते वाराहे कल्पे त्वं सुरसुन्दरि ॥
पुनर्हिमवताराध्य दुहिता त्वमतः कृता ॥ ३४ ॥
ततो देव्यद्भुतं तप्त्वा तपः परमदुश्चरम् ॥
भर्त्तारं मां पुनः प्राप्य पार्वतीति निगद्यसे ॥ ३५ ॥
कैलासनिलयश्चाहं त्वया सार्द्धं वरानने ॥
क्रीडामि तव देवेशि यावत्कल्पावसानकम् ॥३६॥
इदं चतुर्गुणं प्राप्य द्वापरे विष्णुना सह ॥
महिषस्य वधार्थाय उत्पन्ना कृष्णपिंगला ॥ ३७ ॥
कात्यायनीति दुर्गेति विविधैर्नामपर्ययैः ॥
नवकोटिप्रभेदेन जातासि वसुधातले ॥ ३८ ॥
यानि ते कल्पनामानि पूर्वमुक्तानि सुन्दरि ॥
तानि त्रयोदशाकल्पादुदक्तात्कथितानि मे ॥ ३९ ॥
अतीतानि भविष्याणि वर्त्तमानानि सुन्दरि ॥
एवं ज्ञेयानि सर्वाणि ब्रह्मकल्पावधि प्रिये ॥ ॥ 7.1.7.४० ॥
॥ देव्युवाच ॥ ॥
सोमनाथेति यन्नाम त्वया पूर्वमुदाहृतम् ॥
तत्कथं निश्चलं नाम मन्यते त्रिपुरांतक ॥ ४१ ॥
असंख्यत्वाच्च चंद्राणां जन्मनामप्रभेदतः ॥
मन्वन्तरे तु संजाते युगानामेकसप्ततौ ॥ ४२ ॥
चंद्रसूर्यादयो देवाः संह्रियंते पुनःपुनः ॥
सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः ॥ ४३ ॥
एककालं च सृज्यंते संह्रियंते च पूर्ववत् ॥
एतन्मे संशयं देव यथावद्वक्तुमर्हसि ॥४४॥
॥ ईश्वर उवाच ॥ ॥
साधु पृष्टं त्वया देवि रहस्यं पापनाशनम् ॥
यन्न कस्यचिदाख्यातं तत्ते वक्ष्याम्यशेषतः ॥४५॥
अयं यो वर्त्तते ब्रह्मा शतानन्द इति श्रुतः॥
तस्य चैवाष्टमे वर्षे मनुर्यः प्रथमो भवेत् ॥ ४६ ॥
तस्मिन्मन्वन्तरे देवि यश्चादौ रोहिणीपतिः ॥
समुद्रगर्भात्संजातः सलक्ष्मीकौस्तुभादिभिः ॥ ४७ ॥
तेन चाराधितं लिंगं कालभैरवनामतः ॥
महता तपसा पूर्वं युगानि च चतुर्द्दशे ॥ ४८ ॥
तस्याद्भुतं तपो दृष्ट्वा तुष्टोऽहं तस्य सुन्दरि ॥
वरं वृणीष्वेति मया स च प्रोक्तो निशाकरः ॥ ४९ ॥
 सहोवाच तदा देवि भक्त्या संस्तुत्य मां शुभे ॥ 7.1.7.५० ॥
॥ चंद्र उवाच ॥ ॥
यदि प्रसन्नो देवेश वरार्हो यदि वाऽप्यहम् ॥
सोमनाथेति तं नाम भूयाद्ब्रह्मावधि प्रभो ॥ ५१ ॥
ये केचिद्भवितारोऽन्ये मन्वन्ते शीतरश्मयः ॥
तेषां भवतु देवेश देवोऽयं कुलदेवता ॥ ॥ ५२ ॥
आराधयंतु ते सर्वे क्षेत्रेऽस्मिन्संस्थिता विभो ॥
स्वकीयायुःप्रमाणेन ब्रह्मणः प्रलयादनु ॥ ५३ ॥
सोमनाथेति ते नाम ब्रह्मांडे सचराचरे ॥
ख्यातिं प्रयातु देवेश तेजोलिंग नमोऽस्तु ते ॥ ५४ ॥
॥ ईश्वर उवाच ॥ ॥
एवमस्त्वित्यहं प्रोच्य पुनर्लिंगे लयं गतः ॥
एतत्ते कारणं देवि प्रोक्तं सर्वमशेषतः ॥ ५५ ॥
निःसन्दिग्धं तु संक्षेपात्पुरा पृष्टं यतस्त्वया ॥
उद्देशमात्रं कथितं श्रीसोमेशगुणान्प्रति ॥
समुद्रस्येव रत्नानामचिन्त्यस्तस्य विस्तरः ॥ ५६ ॥
मोहनं तदभक्तानां भक्तानां बुद्धिवर्द्धनम् ॥
मूढास्ते नैव पश्यंति स्वरूपं मम मोहिताः ॥ ५७ ॥
॥ देव्युवाच ॥ ॥
ईदृशं यस्य माहात्म्यं तेजोलिंगस्य शंकर ॥
कुत्र तिष्ठति तल्लिंगं क्षेत्रे तस्मिन्सुरेश्वर ॥ ५८ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रयत्नेन श्रुत्वा चैवावधारय ॥
प्रभासं परमं देवि क्षेत्रमेतन्मम प्रियम् ॥ ५९ ॥
देवानामपि संस्थानं तच्च द्वादशयोजनम् ॥
पंचयोजनमानेन पीठं तत्र प्रकीर्त्तितम् ॥ 7.1.7.६० ॥
तन्मध्ये मद्गृहं देवि तच्च गव्यूतिमात्रकम् ॥
समुद्रस्योत्तरे देवि देविकामुखसंज्ञितम् ॥ ६१ ॥
वज्रिण्याः पूर्वतश्चैव यावन्न्यंकुमती नदी ॥
चतुष्टयं च विस्तारादायामात्पंचयोजनम् ॥ ६२ ॥
क्षेत्रपीठमिति प्रोक्तमतो गर्भगृहं शृणु ॥
समुद्रात्कौरवी यावद्दक्षिणोत्तरमानतः ॥
पूर्वपश्चिमतो ज्ञेयं गोमुखादाऽऽश्वमेधकम् ॥ ६३ ॥
एतन्मम गृहं देवि न त्यजामि कदाचन ॥
तस्य मध्ये स्थितं लिंगं यत्र तत्ते प्रकीर्तितम् ॥ ६४ ॥
वारुणीं दिशमाश्रित्य सागरस्य च सन्निधौ ॥
कृतस्मरस्यापरतो धन्वन्तरशतत्रये ॥ ६५ ॥
लिंगं महाप्रभावं तुं स्वयंभूतं व्यवस्थितम् ॥
तत्र संनिहितो देवः शंकरः परमेश्वरः॥ ६६ ॥
एतस्मिन्नन्तरे देवि सोमेशस्य समीपतः ॥
चतुर्द्दशे विभागे तु धनुषां च शतद्वयम् ॥ ॥ ६७ ॥
समंतान्मंडलाकारा कर्णिका सा मम प्रिया ॥
तस्यां ये प्राणिनः सर्वे मृताः कालेन पार्वति ॥ ६८ ॥
कृमिकीटपतंगाद्या जीवा उत्तम मध्यमाः ॥
निर्द्धूतकल्मषाः सर्वे यांति लोकं ममापि ते ॥६९॥
उत्तरं दक्षिणं चापि अयनं न विचारयेत् ॥
सर्वस्तेषां शुभः कालो ये मृताः क्षेत्रमध्यतः ॥ 7.1.7.७० ॥
आदिनाथेन शर्वेण सर्वप्राणिहिताय वै ॥
आद्यतत्त्वान्यथानीय क्षेत्रमेतन्महाप्रभम् ॥
प्रभासितं महादेवि यत्र सिद्ध्यंति मानवाः ॥७१॥
हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि ॥
कृतप्रतिज्ञो देवेशि यावज्जीवं सुरेश्वरि ॥ ७२ ॥
स गच्छेत्परमं स्थानं यत्र गत्वा न शोचति॥
तस्य क्षेत्रस्य माहात्म्यात्स्थाणोश्चाद्भुतकर्मणः ॥ ७३ ॥
कृत्वा पापसहस्राणि पश्चात्सन्तापमेति वै ॥
प्रभासे तु वियुज्येत न सोंऽतकपुरीं व्रजेत् ॥ ॥ ७४ ॥
ज्ञात्वा कलियुगं घोरं हाहाभूतमचेतनम् ॥
नियुक्तस्तत्र देवेशि रक्षार्थं विघ्ननायकः ॥ ७५ ॥
ये तु ब्राह्मणविद्विष्टाः शिवभक्तिवितंडकाः ॥
ब्रह्मघ्नाश्च कृतघ्नाश्च तथा नैष्कृतिकाश्च ये ॥ ७६ ॥
लोकद्विष्टा गुरुद्विष्टास्तीर्थायतनकण्टकाः ॥
सर्वपापरताश्चैव ये चान्ये तु विकुत्सिताः ॥ ७७ ॥
रक्षणार्थं ह वै तेषां नियुक्तो विघ्ननायकः ॥
कालाग्निरुद्रपार्श्वे तु रुद्रतुल्यपराक्रमः ॥ ७८ ॥
क्षेत्रं रक्षति देवेशि पापिष्ठानां नियामकः ॥
म्रियंते यदि ब्रह्मघ्नास्तथा पातकिनो नराः ॥ ७९ ॥
क्षेत्रे चास्मिन्वरारोहे तेषां देवि गतिं शृणु ॥
दशवर्षसहस्राणि दिव्यानि कमलेक्षणे ॥ 7.1.7.८० ॥
दासी पुत्राश्च जायन्ते तदंते ब्रह्मराक्षसाः ॥
ततः पापक्षये देवि पुनर्यांति वियोनिताम् ॥५१॥
तस्मात्सर्वप्रयत्नेन पापं तत्र न कारयेत् ॥
अन्यत्राऽऽवर्तितं पापं क्षेत्रे चास्मिन्विनश्यति ॥ ८२ ॥
अस्मिन्पुनः कृतं पापं पैशाचनरकावहम् ॥
भक्तानुकंपी भगवांस्तिर्यग्योनिगतेष्वपि ॥ ८३ ॥
ददाति परमं स्थानं न तु ब्रह्मद्विषां प्रिये॥
ये च ध्यानं समासाद्य युक्तात्मानः समाहिताः ॥ ८४ ॥
संनियम्येन्द्रियग्रामं जपंति शतरुद्रियम्॥
प्रभासे तु स्थिता देवि ते कृतार्था न संशयः ॥ ८५ ॥
यदि गच्छेन्नरः कश्चित्प्रभासं क्षेत्रमुत्तमम् ॥
तमुपायं प्रकुर्वीत निर्गच्छेन्न पुनर्यथा ॥ ८६ ॥
एतद्गोप्यं वरारोहे न देयं यस्य कस्यचित्॥
गोपनीयमिदं शास्त्रं यथा प्राणाः स्वकाः प्रिये॥ ८७॥
येनेदं विहितं शास्त्रं प्रभासक्षेत्रदीपकम्॥
स शिवश्चैव विज्ञेयो मानुषीं प्रकृतिं स्थितः॥८८॥
तस्यविग्रहसंस्थोऽहं सदा तिष्ठामि पार्वति॥
वंदितः पूजितो ध्यातो यथाहं नात्र संशयः ॥ ८९ ॥
कलौ च दुर्ल्लभं देवि प्रभासक्षेत्रमुत्तमम् ॥
इदानीं तव स्नेहेन विशेषं कथयामि वै ॥
सत्यंसत्यं पुनः सत्यं त्रिःसत्यं सुरसुन्दरि ॥ ॥ 7.1.7.९० ॥
यानि लिंगानि भूर्लोके सोमेशस्तेषु मे प्रियः ॥
अस्मिँल्लिंगे गुणा ये तु ते देवि विदिता मम ॥ ९१ ॥
अहमेव विजानामि नान्यो वेद कथंचन ॥
अन्येषु चैव लिंगेषु अहं पूज्यः सुरासुरैः ॥ ९२ ॥
लिंगं चेमं पुनर्देवि पूजयामो वयं स्वयम् ॥ ९३ ॥
यस्मिन्काले न वै ब्रह्मा न भूमिर्न दिवाकरः ॥
सर्वं चैव जगन्नाथ तस्मिन्काले यशस्विनि ॥ ९४ ॥
इमं लिंगं परं चैव ब्रह्मणः प्रलये तदा ॥
भाविनीं वृत्तिमास्थाय इदं स्थानं तु रक्षति ॥ ९५ ॥
 दशकोट्यस्तु लिंगानां गंगाद्वाराद्वरानने ॥
आगत्य तानि मध्याह्ने लिंगेऽस्मिन्यांति संलयम् ॥ ९६ ॥
पृथिव्यां यानि तीर्थानि गगनस्थानि यानि तु ॥
स्नानार्थमस्य लिंगस्य समागच्छंति सर्वदा ॥ ९७ ॥
धन्यास्तु खलु ते मर्त्त्याः प्रभासे संव्यवस्थिताः ॥
सोमेश्वरं ये द्रक्ष्यंति संसारभयमोचनम् ॥ ९८ ॥
देवि सोमेश्वरं लिंगं ये स्मरिष्यंति भाविताः ॥
सर्वपापक्षयस्तेषां भविष्यति न संशयः ॥ ९९ ॥
एतत्स्मृतं प्रियतमं मम देवि नित्यं क्षेत्रं पवित्रमृषिसिद्धगणाभिरम्यम् ॥
अस्मिन्मृताः सकलजीवमृतोऽपि देवि स्वर्गात्परं समुपयांति न संशयोऽत्र ॥ 7.1.7.१०० ॥
यं देवा न विजानंति ब्रह्मविष्णुपुरोगमाः ॥
न सांख्येन न योगेन नैव पाशुपतेन च ॥ १०१ ॥
कैवल्यं निष्कलं यत्त- दस्मिँल्लिंगे तु लभ्यते ॥
तावद्भ्रमंति संसारे देवाद्यास्तु यशस्विनि ॥ १०२ ॥
यावत्सोमेश्वरं देवं न विंदंति त्रिलोचनम् ॥
क्षेत्रं प्रभासमित्युक्तं क्षेत्रज्ञोऽहं न संशयः ॥ १०३ ॥
एतं तवोक्तं ननु बोधनाय सोमेश्वरस्यैव महाप्रभावम् ॥
ये वै पठिष्यंति नरा नितांतं यास्यंति ते तत्पदमिंदुमौलेः ॥ ॥ १०४ ॥
सोमेश्वरं देववरं मनुष्या ये भक्तिमंतः शरणं प्रपन्नाः ॥
ते घोररूपे च भयावहे च संसारचक्रे न पुनर्भ्रमंति ॥ १०५ ॥
ये दक्षिणा मूर्त्तिमुपाश्रिताः स्युर्जपंति नित्यं शतरुद्रियं द्विजाः ॥
तेऽस्मिन्भवे नैव पुनर्भवंति संसारपारं परमं गता वै ॥ १०६ ॥
उद्देशमात्रं कथितो मया ते श्रीसोमनाथस्य कृतैकदेशः ॥
अब्दैरनेकैर्बहुभिर्युगैर्वा न शक्यमेकेन मुखेन वक्तुम् ॥ १०७ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमनाथप्रादुर्भाववर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥ ॥