स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ००३

विकिस्रोतः तः
Jump to navigation Jump to search

ऋषय ऊचुः॥
कथितो भवता सर्गः प्रतिसर्गस्तथैव च॥
वंशानुवंशचरितं पुराणानामनुक्रमः॥१॥
मन्वन्तरप्रमाणं च ब्रह्मांडस्य च विस्तरः॥
ज्योतिश्चक्रस्वरूपं च यथावदनुवर्णितम्॥
श्रोतुमिच्छामहे त्वत्तः सांप्रतं तीर्थविस्तरम्॥२॥
पृथिव्यां यानि तीर्थानि पापघ्नानि शुभानि च॥
तानि सूतज कार्त्स्न्येन यथावद्वक्तुमर्हसि॥३॥
सूत उवाच॥
इदं पृष्टं पुरा देव्या कैलासशिखरोत्तमे॥
नानाधातुविचित्रांगे नानारत्नसमन्विते॥४॥
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते॥
यक्षविद्याधराकीर्णे ह्यप्सरोगणसेविते॥५।
तत्र ब्रहमा च विष्णुश्च स्कन्दनन्दिगणेश्वराः॥
चंद्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम्॥६॥
वायुश्च वरुणश्चैव कुबेरो धनदस्तथा॥
ईशानश्चाग्निरिंद्रश्च यमो निर्ऋतिरेव च॥७॥
सरितः सागराः सर्वे पर्वता उरगास्तथा॥
ब्राह्म्याद्या मातरश्चैव ऋषयश्च तपोधनाः॥८॥
मूर्तिमंति च तीर्थानि क्षेत्राण्यायतनानि च॥
दानवासुरदैत्याश्च पिशाचा भूतराक्षसाः॥7.1.3.१०
तत्र सिंहासनं दिव्यं शतयोजनविस्तृतम्॥११।
लक्षायुतसहस्रैश्च रुद्रकोटिभिरावृतम्॥
तन्मध्ये सर्वतोभद्रं सिंहद्वारैः सुतोरणैः॥१२॥
स्वच्छमौक्तिकसंकाशं प्राकारशिखरावृतम्॥
नन्दीश्वरमहाकालद्वारपालगणैर्वृतम्॥१३॥
किंकिणीजालमुखरैः सत्यताकैरलंकृतम्॥
वितानच्छत्रखंडैश्च मुक्तादामप्रलंबितैः॥१४॥
घंटाचामरशोभाढयैर्दर्पणैश्चोपशोभितम्॥
कलशैर्द्वारविन्यस्तरत्नपल्लवसंयुतैः॥१५॥
चित्रितं चित्रशास्त्रज्ञै रत्नचूर्णैः समु्ज्वलैः॥
स्वस्तिकैः पत्रवल्याद्यैर्लिंगोद्भवलतादिभिः॥१६॥
शतसिंहासनाकीर्णं वेदिकाभिश्च शोभितम्॥
आसीनै रुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः॥१७॥
लक्षपत्रदलाढ्यैश्च श्वेतपद्मैश्च भूषितम्॥
अप्सरोभिः समाकीर्णं पुष्पप्रकरविस्तृतम्॥१८॥
धूपितं धूपवर्त्तीभिः कुंकुमोदकसेचितम्॥
वंशवीणामृदंगैश्च गोमुखैर्मुखवादनैः॥१९॥
शंखभेरीनिनादेन दुन्दुभिध्वनितेन च॥
गर्जद्भिर्गणवृन्दैश्च मेघस्वनितनिस्वनैः॥7.1.3.२० ॥
गणानां स्तोत्रशब्देन सामवेदरवेण च॥
प्रेक्षणीयैर्महानादैर्गेयहुङ्कारशोभितम्॥२१॥
वृषनर्दितशब्देन गजवाजिरवेण च॥
कांचीनूपुरशब्देन समाकीर्णदिगंतरम्॥२२॥
सर्वसंपत्करं श्रीमच्छंकरस्यैव मंदिरम्॥
वंश वीणामृदंगैश्च नादितं तत्र तत्र ह ॥
ऋग्वेदो मूर्तिमांश्चैव शक्रनीलसमद्युतिः ॥ २३ ॥
दिव्यगन्धानुलिप्तांगो दिव्याभरणभूषितः ॥
संस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा ॥ २४ ॥
उत्तरेण यजुर्वेदः शुद्धस्फटिकसन्निभः ॥
दिव्यकुण्डलधारी च महाकायो महाभुजः ॥ २५ ॥
स्थितः पश्चिम दिग्भागे सामवेदः सनातनः ॥
रक्तांबरधरः श्रीमान्पप्ररागसमप्रभः ॥२६॥
स्रग्दामधारी चित्रश्च गीतभूषणभूषितः ॥
अथवांऽजनवच्छयामः स्थितो दक्षिणतस्तथा ॥ २७ ॥
पिंगाक्षो लोहितग्रीवो हरिकेशो महातनुः ॥
इतिहासषडंगानि पुराणान्यखिलानि च ॥ २८ ॥
वेदोपनिषदश्छन्दो मीमांसारण्यकं तथा ॥
स्वाहाकारवषट्कारौ रहस्यानि तथैव च ॥२९॥
एतैः समन्वितैश्चैव तत्र ब्रह्मा स्वयं स्थितः ॥
शक्तिरूपधरैर्मन्त्रैर्योगैश्वर्यसमन्वितैः॥ ॥ 7.1.3.३० ॥
सहस्रपत्रकमलैरंकितैः सुरपूजितैः ॥
पूजितैर्गणरुद्रैश्च ब्रह्मविष्विंद्रवंदितैः ॥३१॥
चामराक्षेपव्यजनैर्वीजितैश्च समन्ततः ॥
शोभितश्च सदा श्रीमांश्चंद्रकोटिसमप्रभः ॥ ३२ ॥
ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रसादकः ॥
योगींद्रमानसांभोज राजहंसो द्विजोत्तमः ॥ ३३ ॥
अज्ञानतिमिरध्वंसी षट्त्रिंशत्तत्त्वभूषणः ॥
सर्वसौख्यप्रदाता च तत्रास्ते चंद्रशेखरः ॥३४॥
तस्योत्संगगता देवी तप्तकांचनसप्रभा ॥
पूजितो योगिनीवृन्दैः साधकैः सुरकिन्नरैः ॥ ३५ ॥
सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता ॥
योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिनीम् ॥ ३६ ॥
सौभाग्यकदलीकन्दमूलबीजं च पार्वती ॥
देवस्य मुखमालोक्य विस्मिता चारुलोचना ॥ ३७ ॥
आनंदभावं संज्ञाय आनन्दास्राविलेक्षणम् ॥
उवाच देवी मधुरं कृतांजलिपुटा सती ॥ ३८ ॥ ॥
देव्युवाच ॥ ॥
जन्मकोटिसहस्राणि जन्मकोटिशतानि च ॥
शोधितस्त्वं जगन्नाथ मया प्राणनचिंतया ॥ ३९ ॥
अर्द्धांग संस्थया वापि त्वद्वक्त्रध्यानकाम्यया ॥
तथापि ते जगन्नाथ नांतो लब्ध्वो महेश्वर ॥ 7.1.3.४० ॥
अनन्तरूपिणे तुभ्यं देवदेव नमोऽस्तु ते ॥
नमो वेदरहस्याय नमो वेदैः स्तुताय च ॥ ४१ ॥
श्मशानरतिनित्याय नमो गगनचारिणे ॥
ज्येष्ठसामरहस्याय शतरुद्रप्रियाय च ॥ ४२ ॥
नमो वृषकृतांकाय यजुर्वेदधराय च ॥
ब्रह्मांडकोटिसंलग्नमालिने गगनात्मने ॥ ४३ ॥
मणिचित्रितकन्दाय नमः सर्वार्थसिद्धये ॥
नमो वेदस्वरूपाय द्विज सिद्धिप्रियाय च ॥ ४४ ॥
पुंस्त्रीविकाररूपाय नमश्चंद्रार्द्धधारिणे ॥
नमोग्नये सहोमाय आदित्यवरुणाय च ॥ ४५ ॥
पृथिव्यै चांतरिक्षाय वायवे दीक्षिताय च ॥
संयोगाय वियोगाय धात्रे कर्त्रेऽपहारिणे ॥ ४६ ॥
प्रदीप्तशूलहस्ताय ब्रह्मदण्डधराय च ॥
नमः पतीनां पतये महतां पतये नमः ॥।. ॥ ४७ ॥
नमः कालाग्निरुद्राय सप्तलोकनिवासिने ॥
त्वं गतिः सर्वभूतानां भूतानां पतये नमः ॥ ४८ ॥
नमस्ते भगवन्रुद्र नमस्ते भगवञ्छिव ॥
नमस्ते परतः श्रेष्ठ नमस्ते परतः पर ॥ ४९ ॥
जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो ॥
तत्क्षन्तव्यं महेशान ज्ञानदिव्य नमोऽस्तु ते ॥7.1.3.५० ॥
॥ ईश्वर उवाच ॥ ॥
ममोत्संगस्थिता देवि किं त्वं सास्राविलेक्षणा ॥
अद्यापि किमपूर्णं ते तत्सर्वं करवाण्यहम् ॥ ५१ ॥
वरं ब्रवीहि भद्रं ते स्तवेनानेन सुव्रते ॥
ददामि ते न संदेहः शोकं त्यज महेश्वरि ॥ ५२ ॥
निष्कले सकले देवि स्थूले सूक्ष्मे चराचरे ॥
न तत्पश्यामि देवेशि यत्त्वया रहितं भवेत् ॥ ५३ ॥
अहं ते हृदये गौरि त्वं च मे हृदि संस्थिता ॥
अहं भ्राता च पुत्रश्च बंधुर्भर्ता तथैव च ॥ ५४ ॥
त्वं तु मे भगिनी भार्या दुहिता बांधवी स्नुषा ॥
अहं यज्ञपतिर्यज्वा त्वं च श्रद्धा सदक्षिणा ॥ ५५ ॥
ओंकारोऽहं वषट्कारः सामाहमृग्यजुस्तथा ॥
अहमग्निश्च होता च यजमानस्तथैव च ॥ ५६ ॥
अध्वर्युरहमुद्गाता ब्रह्माहं ब्रह्मवित्तथा ॥
त्वं तु देव्यरणी चैव पत्नी तु परिकीर्त्यसे ॥ ५७ ॥
स्वाहा स्वधा च सुश्रोणि त्वयि सर्वं प्रतिष्ठितम् ॥
अहमिष्टो महायज्ञः पूर्वो यज्ञस्त्वमुच्यसे ॥ ५८ ॥
पुरुषोऽहं वरारोहे प्रकृतिस्त्वं निगद्यसे ॥
अहं विष्णुर्महावीर्यस्त्वं लक्ष्मीर्लोकभाविनी ॥ ५९ ॥
अहमिन्द्रो महातेजाः प्राची त्वं परमेश्वरी ॥
प्रजापतीनां रूपेण सर्वमाहं व्यवस्थितः ॥ 7.1.3.६० ॥
तेषां या नायिकास्तास्त्वं रूपैस्तैस्तैरवस्थिता ॥
दिवसोऽहं महादेवि रजनी त्वं निगद्यसे ॥ ६१ ॥
निमेषोऽहं मुहूर्तश्च त्वं कला सिद्धिरेव च ॥
अहं तेजोऽधिकः सूर्यस्त्वं तु संध्या प्रकीर्त्त्यसे ॥ ६२ ॥
अहं बीजधरः श्रेष्ठस्त्वं तु क्षेत्रं वरानने।
अहं वनस्पतिः प्लक्षस्त्वं वनस्पतिरुच्यसे ॥ ॥ ६३ ॥
शेषरूपधरो नित्ये फणामणिविभूषितः ॥
रेवती त्वं विशालाक्षि मदविभ्रमलोचना ॥ ६४ ॥
मोक्षोऽहं सर्वदुःखानां त्वं तु देवि परा गतिः ॥
अपां पतिरहं भद्रे त्वं तु देवि सरिद्वरा ॥ ६५ ॥
वडवाग्निरहं भद्रे त्वं तु दीप्तिः प्रकीर्तिता ॥
प्रजापतिरहं कर्त्ता त्वं प्रजा प्रकृतिस्तथा ॥ ॥ ६६ ॥
नागानामधिपश्चाहं पातालतलवासिनाम् ॥
त्वं नागी नागराजोऽहं सहस्रफणभूषितः ॥ ६७ ॥
निशाकरवरश्चाहं श्रेष्ठा त्वं रजनीकरी ॥
कामोऽहं कामदो देवि त्वं रतिः स्मृतिरेव च ॥ ६८ ॥
दुर्वासाश्चाप्यहं भद्रे त्वं क्षमा समचारिणी ॥
लोभमोहतपश्चाहं त्वं तृष्णा तामसी स्मृता ॥ ६९ ॥
ककुद्मान्वृषभश्चाहं योगमाता तपस्विनी ॥
वायुरप्यहमव्यक्तस्त्वं गतिर्मनसूदनी ॥ 7.1.3.७० ॥
अहं मोचयिता लोभे निर्ममा त्वं यशस्विनि ॥
नयोऽहं सर्वकार्येषु नीतिस्त्वं कमलेक्षणा ॥ ७१ ॥
अहमन्नं च भोक्ता च ओषधी त्वं निगद्यसे ॥
अहमग्निश्च धूमश्च त्वमूष्मा ज्वालमेव च ॥ ७२ ॥
अहं संवर्त्तको मेघस्त्वं च धारा ह्यनेकशः ॥
अहं मुनीनां रूपेण त्वं तत्पत्नी प्रकीर्तिता ॥ ७३ ॥
अहं संसारकर्त्ता वै त्वं तु सृष्टिर्वरानने ॥
अहं शुक्रास्थिरोमाणि त्वं मज्जा बलमेव च ॥ ७४ ॥
पर्जन्योऽहं महाभागे त्वं वृष्टिः परमेश्वरि ॥
अहं संवत्सरो देवि त्वमृतुः परिकीर्त्तिता ॥ ७५ ॥
अहं कृतयुगो देवि त्वं तु त्रेता निगद्यसे ॥
युगोऽहं द्वापरः श्रीमांस्त्वं कलिः परमेश्वरि ॥ ७६ ॥
आकाशश्चाप्यहं भद्रे पृथिवी त्वमिहोच्यसे ॥
अहमदृश्यमूर्तिश्च दृश्यमूर्तिस्त्वमुच्यसे ॥ ७७ ॥
वरदोऽहं वरारोहे मंत्रस्त्वमिति चोच्यसे ॥
अहं द्रष्टा च श्रोता च त्वं दृश्या श्रुतिरेव च ॥७८॥
अहं वक्ता रमयिता त्वं वाच्या परमेश्वरि ॥
अहं श्रोता च गाता च त्वं गीतिर्गेयमेव च॥७९॥
अहं त्राता च गन्धश्च त्वं तु निघ्राणमेव च ॥
अहं स्पर्शयिता कर्ता स्पर्श्यस्त्वं सृष्टमेव च ॥ 7.1.3.८० ॥
अहं सर्वमिदं भूतं त्वं तु देवि न संशयः ॥
स्रष्टाऽहं तव देवेशि त्वं सृजस्यखिलं जगत् ॥ ८१ ॥
त्वया मया च देवेशि ओतप्रोतमिदं जगत् ॥
एकधा दशधा चैव तथा शतसहस्रधा ॥ ८२ ॥
ऐश्वर्येण तु संयुक्तौ सर्वप्राणि व्यवस्थितौ ॥
अहं त्वं च विशालाक्षि सततं संप्रतिष्ठितौ ॥ ८३ ॥
क्रीडामि क्रीडया देवि त्वया सार्द्धं वरानने ॥
त्वं धृतिर्धारिणी लक्ष्मीः कांता मत्प्रकृतिर्ध्रुवम् ॥ ८४ ॥
रतिः स्मृतिः कामचारी मम चांगनिवासिनी ॥
देवि किं बहुनोक्तेन प्राणेभ्योऽपि गरीयसी ॥ ८५ ॥
वरं वरय देवशि यत्किंचिन्मनसि स्थितम्॥
तत्ते ददामि तुष्टोऽहं यद्यपि स्यात्सुदुर्ल्लभम् ॥ ८६ ॥
॥ देव्युवाच ॥ ॥
धन्याहं कृतपुण्याहं तपः सुचरितं मया ॥
यत्त्वयाऽहं जगन्नाथ हर्षदृष्ट्याऽवलोकिता ॥ ८७ ॥
यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि ॥
तन्मे कथय देवेश सांप्रतं तीर्थविस्तरम् ॥ ॥ ८८ ॥
पृथिव्यां यानि तीर्थानि पापघ्नानि शिवानि च ॥
तानि देवेश कार्त्स्न्येन यथावद्वक्तुमर्हसि ॥ ८९ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि तीर्थमाहात्म्यमुत्तमम् ॥
सर्वपापहरं नृणां पुण्यं देवर्षिसत्कृतम् ॥ 7.1.3.९० ॥
तीर्थानां दर्शनं श्रेष्ठं स्नानं चैव सुरेश्वरि ॥
श्रवणं च प्रशंसंति सदैव ऋषिसत्तमाः ॥ ९१ ॥
पृथिव्यां नैमिषं तीर्थमंतरिक्षे च पुष्करम् ॥
केदारं च प्रयागं च विपाशा चोर्मिला तथा ॥ ९२ ॥
कर्णवेणा महादेवी चंद्रभागा सरस्वती ॥
गंगासागरसंभेदस्तथा वाराणसी शुभा ॥ ९३ ॥
अर्घतीर्थं समाख्यातं गंगाद्वारं तथैव च ॥
हिमस्थानं महातीर्थं तथा मायापुरी शुभा ॥ ९४ ॥
शतभद्रा महाभागा सिन्धुश्चैव महा नदी ॥
ऐरावती च कपिला शोणश्चैव महानदः ॥ ९५ ॥
पयोधिः कौशिकी तद्वत्तथा गोदावरी शुभा ॥
देवखातं गया चैव तथा द्वारावती शुभा ॥ ९६ ॥
प्रभासं च महातीर्थं सर्वपातकनाशनम् ॥ ९७ ॥
एवमादीनि तीर्थानि यानि संति महीतले ॥
तानि दृष्ट्वा तु देवेशि पुनर्जन्म न विन्दते ॥९८॥
तिस्रः कोट्योऽर्धकोटी च तीर्थानामिह भूतले ॥
संजातानि पवित्राणि सर्वपापहराणि च ॥९९॥
गंतव्यानि महादेवि स्वधर्मस्य विवृद्धये ॥
अशक्यानि शिवान्येवं गंतुं चैव सुरेश्वरि ॥
मनसा तानि सर्वाणि गंतव्यानि समाहितैः ॥ 7.1.3.१०० ॥
। देव्युवाच॥
भगवन्प्राणिनः सर्वे सर्वोपद्रवसंकुलाः॥
अल्पायुषः सदा बद्धा व्यामोहैर्मंदिरोद्भवैः॥१०१॥
त्रेतायां द्वापरे चैव किं नु वै दारुणे कलौ ॥
तस्मात्तेषां हितार्थाय तत्तीर्थं त्वं प्रकीर्तय ॥
येन दृष्टेन सर्वेषां तीर्थानां लभ्यते फलम् ॥१०२॥
एवमुक्तस्तु पार्वत्या प्रहस्य परमेश्वरः ॥
उवाच परया प्रीत्या वाचा मधुरया प्रभुः ॥१०३॥ ॥
ईश्वर उवाच ॥ ॥
त्वमेव हि चराः प्राणाः सर्वस्य जगतोरणिः ॥
त्वया विरहितो देवि मुहूर्तमपि नोत्सहे ॥१०४॥
शिवस्य च तथा शक्तेरंतरं नास्ति पार्वति ॥
न तदस्ति महादेवि यन्न जानासि शोभने ॥ १०५ ॥
त्वया विनाऽहं न क्वास्मि न त्वं देवि मया विना ॥
चंद्रचंद्रिकयोर्यद्वदग्नेरुष्णत्वमेव हि ॥ १०६ ॥
तव देवि ममापीह नास्ति चैवांतरं प्रिये ॥
सर्वं चैव सुरेशानि यथावत्कथयाम्यहम् ॥ १०७ ॥
रहस्यानां रहस्यं तु गोपनीयं प्रयत्नतः ॥
नास्तिकाय न दातव्यं न च पापरताय च ॥ १०८ ॥
दातव्यं भक्ति युक्ताय स्वशिष्याय सुताय वा ॥
पूर्वमेव मया ख्यातं सारात्सारतरं प्रिये ॥१०९॥
तीर्थोपनिषदः ख्याता लिंगोपनिषदस्तथा ॥
योगोपनिषदो देवि पूर्वं वै कथितास्तव ॥ 7.1.3.११० ॥
॥ पार्वत्युवाच ॥ ॥
लेशेनापि न सिद्ध्यंति कांक्षमाणाः परं पदम् ॥
योनीर्भ्रमंतो दृश्यंते नरा नास्तिकवृत्तयः॥ ॥ १११ ॥
तीर्थव्रतानि सेवन्ते प्रत्ययो नैव जायते ॥
मोहितं तु जगत्पूर्वं मिथ्याज्ञानेन शंकर ॥ ११२ ॥
किं ते फलं सुरश्रेष्ठ जगद्व्यामोहने कृते ॥ ११३ ॥
सारात्सारतरं नाथ तव प्राणप्रियं हि यत् ॥
तन्मे कथय देवेश प्रियाहं यदि ते प्रभो ॥ ११४ ॥
इत्युक्तः स तया देव्या श्रीकंठः सुरनायकः ॥
प्रहस्योवाच भगवान्गंभीरार्थमिदं वचः ॥ ११५ ॥
॥ईश्वर उवाच ॥ ॥
शृणुष्वावहिता भूत्वा पृष्टोऽहं यस्त्वयाऽधुना ॥
निष्फलं तत्प्रवक्ष्यामि वस्तुतत्त्वं यथास्थितम् ॥ ११६ ॥
पूर्वमुक्तानि तीर्थानि यानि ते सुरसुंदरि ॥
तिस्रः कोट्योऽर्द्धकोटी च ब्रह्मांडे सचराचरे ॥११७॥
तेषां च गोपितं तीर्थं प्रभासं चैव सुव्रते ॥११८॥
एवमुक्तं महादेवि प्रभासं क्षेत्रमुत्तमम् ॥
दृष्ट्वा संस्काररहिताः कलौ पापेन मोहिताः ॥ ११९ ॥
राजसास्तामसाश्चैव पापोपहतचेतसः ॥
परदारपरद्रव्यपरहिंसारता नराः ॥ 7.1.3.१२० ॥
उद्वेगं च परं यांति प्रतप्यंति यतस्ततः ॥
आत्मसंभाविता मूढा मिथ्याज्ञानेन मोहिताः॥
वर्णाश्रमविरुद्धं तु तीर्थे कु्र्वन्ति येऽधमाः॥१२१॥
तीर्थयात्रां प्रकुर्वंति दंभेन कपटेन च॥
तीर्थे मृता न सिध्यंति ते नरा वरवर्णिनि ॥ १२२ ॥
एतदर्थं मया देवि तीर्थानि विविधानि च ॥
लिंगानि चैव सुश्रोणि गोपितानि प्रयत्नतः ॥
न सिद्धिदानि देवेशि कलौ कल्मषकारिणाम् ॥ १२३ ॥
ये नरास्तु जितक्रोधा जितलोभा जितेंद्रियाः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चादम्भमत्सराः ॥ १२४ ॥
मद्भावभाविता देवि तीर्थं सेवंति सुव्रताः ॥
तेषां चैव हितार्थाय कथयामि यशश्विनि ॥ १२५ ॥
प्रभासमिति विख्यातं क्षेत्रं त्रैलोक्यवंदितम् ॥
तत्क्षेत्रं नैव जानंति मम मायाविमोहिताः ॥ १२६ ॥
परोहं त्वेकचित्तैश्च बहुजन्मभिरर्चितः ॥
ते विदंति परं क्षेत्रं प्रभासं पापनाशनम् ॥ १२७ ॥
मद्भावभाविता देवि मम व्रतनिषेविणः ॥
तेषां प्रभासिकं क्षेत्रं विदितं नात्र संशयः ॥ १२८ ॥
यमैश्च नियमैर्युक्ता अहंकारविवर्ज्जिताः ॥
तेषामर्थे वदिष्यामि तव प्रश्नं सुदुर्ल्लभम् ॥
ब्रह्मविष्ण्विन्द्रदेवानां पुराणं कथितं मया ॥ १२९ ॥
सोऽहं देवि वदिष्यामि कर्णं देहि वरानने ॥
पृथिव्यामपि सर्वेषां तीर्थानां सुरसुंदरि ॥ 7.1.3.१३० ॥
एकं मे वल्लभं तत्र प्रभासं क्षेत्रमुत्तमम् ॥
तस्मिंश्चैव महाक्षेत्रे तीर्थैः सोमेन पूजितः ॥
वरांस्तस्मै प्रदायाथ सदैकांते स्थितो ह्यहम् ॥१३१॥
तेन गुह्यं कृतं स्थानं तव देवि प्रकाशितम्॥
तत्र मे योगयुक्तस्य दिव्यं लिंगं बभूव ह ॥ १३२ ॥
दिव्यतेजस्समा युक्तं वह्निमेखलमंडितम् ॥
लक्षमात्रस्थितं शांतं दुर्निरीक्ष्यं तु मानवैः ॥ १३३ ॥
इच्छाज्ञानक्रियाख्याश्च तिस्रो वै शक्तयश्च याः ॥
तस्माल्लिंगात्समुत्पन्ना जगत्कर्तृत्वहेतवे ॥ १३४ ॥
तस्मिँल्लिंगे लयं याति जगदेतच्चराचरम् ॥
पुनस्तेनैव संभूतं दृश्यते सचराचरम् ॥ १३५ ॥
गुह्यं चैव तु संभूतं न कश्चिद्वेद तत्परम् ॥
जन्माभ्यासेन तल्लिंगं ज्ञायते भुवि मानवैः ॥ १३६ ॥
क्षेत्रं प्रभासिकं प्रोक्तं क्षेत्रज्ञोऽहं न संशयः ॥
तत्र सोमेशनामाहमस्मिन्क्षेत्रं वरानने ॥ १३७ ॥
ममांशसंभवा ये च अस्मिन्क्षेत्रे समुद्भवाः ॥
तेषां तु विदितं लिंगं पूर्वकल्पे तु भैरवम् ॥ १३८ ॥
अन्यैरपि युगैर्देवि इदं लिंगं सुदुर्लभम् ॥
घोरे कलियुगे पापे विशेषेण च दुर्लभम् ॥ १३९ ॥
अन्यन्निदर्शनं तत्र तत्प्रवक्ष्यामि पार्वति ॥ 7.1.3.१४० ॥
कलौ युगे महाघोरे हेतुवादरता नराः ॥
वदिष्यंति महापापाः सर्वे पाखण्डसंस्थिताः ॥ १४१ ॥
मिथ्या चैतत्कृतं सर्वं मूर्खैश्चापि प्रकीर्तितम् ॥
क्व क्षेत्रं क्व प्रभावश्च कुत्र वै सन्ति देवताः ॥ १४२ ॥
सर्वं चापि तथालीकं मूढैश्चापि प्रकीर्तितम् ॥ १४३ ॥
एवं मूर्खा वदिष्यंति प्रहसिष्यन्ति चापरे ॥
नारका नास्तिका लोकाः पापोपहतचेतसः ॥
सिद्धिं नैव प्रयास्यंति संप्राप्ते तु कलौ युगे॥१४४॥
तीर्थे चैव मृता ये तु शिवनिन्दापरायणाः॥
तिर्यग्योनिप्रसूताश्च दृश्यन्ते सर्वयोनिषु॥१४५॥
एतस्मात्कारणाद्देवि तीर्थे चैव सुदुःखिताः ॥
दृश्यन्ते युगमाहात्म्यात्सत्यशौचविवर्जिताः ॥ १४६ ॥
इदं हि कारणं प्रोक्तं क्षेत्राणां चैव गोपने ॥
एतत्ते कथितं सर्वं सिद्धिर्येन सुदुर्ल्लभा ॥ १४७ ॥
युगेयुगे तु तीर्थानि कीर्तितानि सुरेश्वरि ॥
तेषां मे वल्लभं देवि प्रभासं क्षेत्रमेव च ॥ १४८ ॥
इत्येतत्कथितं देवि रहस्यं पापनाशनम् ॥
क्षेत्रबीजं महादेवि किमन्यत्परिपृच्छसि ॥ १४९ ॥
इदं महापातकनाशनं ये श्रोष्यंति वै क्षेत्रमहाप्रभावम् ॥
ते चापि यास्यन्ति मम प्रभावात्त्रिविष्टपं पुण्यजनाधिवासम् ॥ 7.1.3.१५० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रभासक्षेत्रमाहात्म्ये देवीप्रश्नवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥