स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ००२

विकिस्रोतः तः
Jump to navigation Jump to search

॥ ऋषय ऊचुः ॥ ॥
कथाया लक्षणं ब्रूहि गुणदोषान्सविस्तरान् ॥
आर्षेयपौरुषेयाणां काव्यचिह्नपरीक्षणम् ॥
कथं ज्ञेयं महाबुद्धे श्रोतुमिच्छामहे वयम् ॥ १ ॥
॥ सूत उवाच ॥ ॥
अथ संक्षेपतो वक्ष्ये पुराणानामनुक्रमम् ॥
लक्षणं चैव संख्यां च उक्तभेदांस्तथैव च ॥ २ ॥
पुरा तपश्चचारोग्रममराणां पितामहः ॥
आविर्भूतास्ततो वेदाः सषडंगपदक्रमाः ॥ ३ ॥
ततः पुराणमखिलं सर्वशास्त्रमयं ध्रुवम् ॥
नित्यशब्दमयं पुण्यं शत कोटिप्रविस्तरम् ॥ ४ ॥
निर्गतं ब्रह्मणो वक्त्राद्ब्राह्मं वैष्णवमेव च ॥
शैवं भागवतं चैव भविष्यं नारदीयकम् ॥ ५ ॥
मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च ॥
लैङ्गं तथा च वाराहं स्कांदं वामनमेव च ॥ ६ ॥
कौर्म्यं मात्स्यं गारुडं च वायवीयमनन्तरम् ॥
अष्टादशं समुद्दिष्टं सर्वपातकनाशनम् ॥ ॥ ७ ॥
एकमेव पुरा ह्यासीद्ब्रह्माण्डं शतकोटिधा ॥ ८ ॥
ततोऽष्टादशधा कृत्वा वेदव्यासो युगेयुगे ॥
प्रख्यापयति लोकेऽस्मिन्साक्षान्नारायणांशजः ॥ ९ ॥
अन्यान्युपपुराणानि मुनिना कथितानि तु ॥
तानि वः कथयिष्यामि संक्षेपादवधार्यताम् ॥ 7.1.2.१० ॥
आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् ॥
तृतीयं स्कान्दमुद्दिष्टं कुमारेणानुभाषितम् ॥ ११॥
चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम्॥
दुर्वाससोक्तमाश्चर्य्यं नारदोक्तमतः परम् ॥१२॥
कापिलं मानवं चैव तथैवोशनसेरितम्॥
ब्रह्माण्डं वारुणं चान्यत्कालिकाह्वयमेव च॥ १३॥
माहेश्वरं तथा सांबं सौरं सर्वार्थसंचयम्॥।
पराशरोक्तं परमं मारीचं भार्गवाह्वयम् ॥१४॥
एतान्युपपुराणानि कथितानि द्विजोत्तमाः॥१५॥
॥ ऋषय ऊचुः ॥ ॥
पुराणसंख्यामाचक्ष्व सूत विस्तरशः क्रमात्॥
दानधर्ममशेषज्ञ यथावदनुपूर्वशः ॥ १६॥
॥ सूत उवाच ॥ ॥
इदमेव पुराणेऽस्मिन्पुराणपुरुषस्तदा ॥
यदुक्तवान्स विश्वात्मा मनवे तन्निबोधत ॥१७॥
पुराणं सर्वशास्त्राणां ब्रह्माण्डं प्रथमं स्मृतम् ॥
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः॥१८॥
पुराणमेकमेवासीत्तस्मिन्कल्पान्तरेतथा॥
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ॥ १९॥
विनिर्दग्धेषु लोकेषु कृष्णेनानन्तरूपिणा ॥
साङ्गांश्च चतुरो वेदान्पुराणन्यायविस्तरम् ॥7.1.2.२०॥।
मीमांसां धर्मशास्त्रं च परिगृह्यात्मसात्कृतम् ॥
मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे॥२१॥
अशेषमेव कथितं ब्रह्मणे दिव्यचक्षुषे ॥
ब्रह्मा जगाद च मुनींस्त्रिकालज्ञानदर्शनः ॥ २२ ॥
प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः ॥ २३ ॥
ततः कालक्रमेणासौ व्यासरूपधरो हरिः ॥
अष्टादशपुराणानि संक्षेप्स्यति युगेयुगे ॥ २४ ॥
चतुर्लक्षप्रमाणानि द्वापरेद्वापरे सदा ॥
तदाष्टादशधा कृष्णा भूर्लोकेऽस्मिन्प्रभाषते ॥ २५ ॥
अद्याऽपि देवलोके तु शतकोटिप्रविस्तरम् ॥
तदर्थोऽत्र चतुर्लक्षः संक्षेपेण निवेशितः ॥ २६ ॥
पुराणानि दशाष्टौ च सांप्रतं तदिहोच्यते॥
नामतस्तानि वक्ष्यामि संख्यां च मुनिसत्तमाः ॥ २७ ॥
ब्रह्मणाऽभिहितं पूर्वं यावन्मात्रं मरीचये ॥
ब्राह्मं तद्दशसाहस्रं पुराणं तदिहोच्यते ॥ २८ ॥
लिखित्वा तच्च यो दद्याज्जलधेनुसमन्वितम् ॥
वैशाख्यां पौर्णमास्यां च ब्रह्मलोके महीयते ॥ २९ ॥
एतदेव यदा पद्ममभूद्धैरण्मयं जगत् ॥
तद्वृत्तांताश्रयांतं तत्पाद्ममित्युच्यते बुधैः ॥ 7.1.2.३० ॥
पाद्मं तत्पञ्चपञ्चाशत्सहस्राणीह पठ्यते ॥
तत्पुराणं च यो दद्यात्सुवर्णकमलान्वितम् ॥
ज्येष्ठे मासि तिलैर्युक्तं सोऽश्वमेधफलं लभेत् ॥ ३१ ॥
वाराहकल्पवृत्तान्तमधिकृत्य परात्परः ॥
यत्राह धर्मानखिलांस्तदुक्तं वैष्णवं विदुः ॥३२॥
चरितैरञ्चितं विष्णोस्तल्लोके वैष्णवं विदुः ॥
त्रयोविंशतिसाहस्रं पुराणं तत्प्रकीर्तितम् ॥ ३३ ॥
तदाषाढे च यो दद्याद्घृतधेनुसमन्वितम् ॥
पौर्णमास्यां विशुद्धायां सं पदं याति वैष्णवम् ॥ ३४ ॥
श्रुतकल्पप्रसङ्गेन धर्मान्वायुरथाब्रवीत् ॥
यत्र तद्वायवीयं स्याद्रुद्रमाहात्म्यसंयुतम् ॥ ३५ ॥
चतुर्विंशतिसाहस्रं नाना वृत्तान्तसंयुतम् ॥
धर्मार्थकाममोक्षैश्च साधुवृत्तसमन्वितम्॥ ३६ ॥
श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् ॥
यो दद्याद्दधिसंयुक्तं ब्राह्मणाय कुटुम्बिने ॥
शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः ॥ ३७ ॥
पुनः संजायते मर्त्यो ब्राह्मणो वेदवित्तमः ॥
वेदविद्यार्थतत्त्वज्ञो व्याख्यातत्त्वार्थवित्तमः ॥ ३८ ॥
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः ॥
वृत्रासुरवधोपेतं तद्भागवतमुच्यते ॥ ३९ ॥
सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः॥
तद्वृत्तान्तोद्भवं पुण्यं पुण्योद्वाहसमन्वितम् ॥ 7.1.2.४० ॥
लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् ॥
पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम् ॥ ॥४१॥
अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम्॥४२॥
यत्राह नारदो धर्मान्बृहत्कल्पाश्रयांस्त्विह ॥
पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते ॥४३॥
तदिषे पञ्चदश्यां तु यो दद्याद्धेनुसंयुतम्॥
उत्तमां सिद्धिमाप्नोति इह लोके परत्र च॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥४४॥
यत्राधिकृत्य शकुनीन्धर्माधर्मविचारणम् ॥
पुराणं नवसाहस्रं मार्कण्डेयं तदुच्यते ॥ ४५॥
परिलिख्य च यो दद्यात्सौवर्णकरिसंयुतम् ॥
कार्तिक्यां पौण्डरीकस्य यज्ञस्य फलभाग्भवेत् ॥ ४६ ॥
यत्तदीशानकल्पस्य वृत्तान्तमधिकृत्य च ॥
वशिष्ठायाऽग्निना प्रोक्तमाग्नेयं तत्प्रचक्षते ॥ ४७ ॥
लिखित्वा तच्च यो दद्याद्धेमपद्मसमन्वितम् ॥
मार्गशीर्षे विधानेन तिलधेनुयुतं तथा ॥
तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम् ॥ ४८ ॥
यत्राधिकृत्य माहात्म्यमादित्यस्य चतुर्मुखः ॥
अघोरकल्पवृत्तान्तप्रसंगेन जगत्पतिः ॥
मनवे कथयामास भूतग्रामस्य लक्षणम् ॥ ४९ ॥
चतुर्दशसहस्राणि तथा पञ्चशतानि च ॥
भविष्यचरितप्रायं भविष्यं तदिहोच्यते ॥ 7.1.2.५० ॥
तत्पौषमासि यो दद्यात्पौर्णमास्यां विमत्सरः ॥
गुडकुम्भसमायुक्तमग्निष्टोमफलं लभेत् ॥ ॥ ५१ ॥
रथंतरस्य कल्पस्य वृत्तान्तमधिकृत्य च ॥
सावर्णिना नारदाय कृष्णमाहात्म्यसंयुतम् ॥
प्रोक्तं ब्रह्मवराहस्य चरितं वर्ण्यतेऽत्र च ॥५२॥
तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते ॥
पुराणं ब्रह्मवैवर्तं यो दद्याद्ब्राह्मणोत्तमे ॥
माघमासे पौर्णमास्यां ब्रह्मलोके महीयते ॥ ५३ ॥
यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः ॥
धर्मार्थकाममोक्षार्थानाग्नेयमधिकृत्य च ॥ ५४ ॥
कल्पं तल्लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम् ॥ ५५ ॥
तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति ॥
तिलधेनुसमायुक्तं स याति शिवसात्म्यताम् ॥५६॥
महावराहस्य पुनर्माहात्म्यमधिकृत्य च ॥
विष्णुनाऽभिहितं क्षोण्यै तद्वाराहमिहोच्यते ॥५७॥
मानवस्य प्रसंगेन धन्यस्य मुनिसत्तमाः ॥
चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते ॥ ५८ ॥
काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम्॥
पौर्णमास्यामथो दद्याद्ब्राह्मणाय कुटुम्बिने॥
वाराहस्यप्रसादेन पदमाप्नोति वैष्णवम्॥५९॥
यत्र माहेश्वरान्धर्मानधिकृत्य च षण्मुखम् ॥
कल्पे तत्पुरुषे वृत्ते चरितैरुपबृंहितम् ॥7.1.2.६॥।
स्कांदं नाम पुराणं तदेकाशीति निगद्यते॥
सहस्राणि शतं चैकमिति मर्त्येषु पठ्यते॥६१॥
परिलेख्य च यो दद्याद्धेमशूलसमन्वितम् ॥
शैवं स पदमाप्नोति मकरोपगमे रवेः ॥ ६२ ॥
त्रिविक्रमस्य माहात्म्यमधिकृत्य चतुर्मुखः ॥
त्रिवर्गमभ्यधात्तत्तु वामनं परिकीर्तितम् ॥ ६३॥
पुराणं दशसाहस्रं कौर्मकल्पानुगं शिवम्॥ ६४ ॥
यः शरद्विषुवे दद्याद्धेमवस्त्रसमन्वितम्॥
क्षौमावृतं युतं धेन्वा स पदं याति वैष्णवम् ॥६५॥
यच्च धर्मार्थकामानां मोक्षस्य च रसातले ॥
माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥६६॥
इन्द्रद्युम्नप्रसंगेन ऋषीणां शक्रसन्निधौ ॥
सप्तदशसहस्राणि लक्ष्मीकल्पानुषङ्गिकम् ॥६७॥
यो दद्यादयने कौर्मं हेमकूर्मसमन्वितम्॥
गोसहस्रप्रदानस्य स फलं प्राप्नुयान्नरः॥६८॥
श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः॥
मत्स्यरूपी च मनवे नरसिंहोपवर्णनम् ॥६९॥
अधिकृत्याब्रवीत्सप्तकल्पवृत्तं मुनिव्रताः॥।
तन्मात्स्यमिति जानीध्वं सहस्राणि चतुदर्श ॥ 7.1.2.७० ॥
विषुवे हैममत्स्येन धेन्वा क्षौमयुगान्वितम् ॥
यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला ॥॥ ॥७१॥
यदा वा गरुडे कल्पे विश्वाण्डाद्गरुडोऽभवत् ॥
अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते ॥७२॥
तदष्टादश चैकं च सहस्राणीह पठ्यते ॥।
स्वर्णहंससमायुक्तं यो दद्यादयने परे ॥
स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम् ॥ ७३ ॥
ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्पुनः ॥
तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् ॥७४॥
भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः ॥
तद्ब्रह्माण्डं पुराणं तु ब्रह्मणा समुदाहृतम् ॥ ७९ ॥
यो दद्यात्तु व्यतीपात ऊर्णायुगसमन्वितम् ॥
राजसूयसहस्रस्य फलमाप्नोति मानवः ॥ ७६ ॥
हेमधेन्वायुतं तच्च ब्रह्मलोकफलप्रदम्॥
चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा ॥ ७७ ॥
इदं लोकहितार्थाय संक्षिप्तं द्वापरे द्विजाः ॥ ७८ ॥
इदमद्यापि देवेषु शतकोटिप्रविस्तरम् ॥
उपभेदान्प्रवक्ष्यामि लोके ये संप्रतिष्ठिताः ॥ ७९ ॥
पाद्मे पुराणे यत्प्रोक्तं नारसिंहोपवर्णनम् ॥
तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते ॥ 7.1.2.८० ॥
नन्दिने यत्र माहात्म्यं कार्तिकेयेन वर्णितम् ॥
लोके नन्दिपुराणं वै ख्यातमेतद्द्विजोत्तमाः ॥ ८१ ॥
यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम् ॥
प्रोच्यते तत्पुनर्लोके सांबमेव मुनिव्रताः ॥ ८२ ॥
एवमादित्यसंज्ञं तु तत्रैव परिपठ्यते ॥
अष्टादशभ्यस्तु पृथक्पुराणं यच्च दृश्यते ॥
विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो विनिर्गतम् ॥ ८३ ॥
पञ्चाङ्गानि पुराणस्य चाख्यानमितरत्स्मृतम् ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥
वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ ८४ ॥
ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च ॥
संहारश्च प्रदृश्येत पुराणं पञ्चलक्षणम् ॥ ८५ ॥
धर्मश्चार्थश्च कामश्च मोक्षश्च परिकीर्त्यते ॥
सर्वेष्वपि पुराणेषु तद्विरूढे च यत्फलम् ॥ ८६ ॥
सात्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः ॥
राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥ ८७ ॥
तद्वदग्रे च माहात्म्यं तामसेषु शिवस्य हि ॥
संकीर्णे च सरस्वत्याः पितॄणां च निगद्यते ॥ ८८ ॥
चतुर्भिर्भगवान्विष्णुर्द्वाभ्यां ब्रह्मा तथा रविः ॥
अष्टादशपुराणेषु शेषेषु भगवाञ्छिवः ॥ ८९ ॥
वेदवन्निश्चलं मन्ये पुराणं वै द्विजोत्तमाः ॥
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥ 7.1.2.९० ॥
बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति ॥
इतिहासपुराणैस्तु निश्चलोऽयं कृतः पुरा ॥ ९१ ॥
यन्न दृष्टं हि वेदेषु न दृष्टं स्मृतिषु द्विजाः ॥
उभयोर्यत्र दृष्टं च तत्पुराणेषु गीयते ॥ ९२ ॥
यो वेद चतुरो वेदान्सांगोपनिषदो द्विजः ॥
पुराणं नैव जानाति न च स स्याद्विचक्षणः ॥ ९३ ॥
अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ॥
भारताख्यानमकरोद्वेदार्थैरुपबृंहितम् ॥ ९४ ॥
लक्षेणैकेन तत्प्रोक्तं द्वापरान्ते महात्मना ॥
वाल्मीकिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम् ॥ ९५ ॥
ब्रह्मणा विहितं यच्च शतकोटिप्रविस्तरम्॥
आह तन्नारदायैव तेन वाल्मीकये पुनः ॥ ९६ ॥
वाल्मीकिना च लोके तु धर्मकामार्थसाधकम् ॥ ॥ ९७ ॥
एवं सपादाः पञ्चैते लक्षाः पुण्याः प्रकीर्तिताः ॥
पुरातनस्य कल्पस्य पुराणे तु विदुर्बुधाः ॥ ९८ ॥
इतिहासपुराणानि भिद्यन्ते काल गौरवात् ॥
स्कान्दं तथा च ब्रह्माण्डं पुराणं लैङ्गमेव च ॥ ९९ ॥
वाराहकल्पे विप्रेन्द्रास्तेषां भेदः प्रवर्तते ॥
अष्टादशप्रकारेण ब्रह्माण्डं भिन्नमेव हि ॥ 7.1.2.१०० ॥
अष्टादशपुराणानि तेन जातानि भूतले ॥
लैङ्गमेकादशविधं प्रभिन्नं द्वापरे शुभम् ॥ १०१ ॥
स्कान्दं तु सप्तधा भिन्नं वेद व्यासेनधीमता ॥
एकाशीतिसहस्राणि शतं चैकं तु संख्यया ॥ १०२ ॥
तस्याऽऽद्यो यो विभागस्तु स्कन्दमाहात्म्यसंयुतः ॥
माहेश्वरः समाख्यातो द्वितीयो वैष्णवः स्मृतः ॥ १०३ ॥
तृतीयो ब्रह्मणः प्रोक्तः सृष्टिसंक्षेपसूचकः ॥
काशीमाहात्म्यसंयुक्तश्चतुर्थः परिपठ्यते ॥ १०४ ॥
रेवायाः पञ्चमो भागः सोज्जयिन्याः प्रकीर्तितः ॥
षष्ठः कल्पो नागरश्च तीर्थमाहात्म्यसूचकः ॥ १०५ ॥
सप्तमो यो विभागोऽयं स्मृतः प्राभासिको द्विजाः॥
सर्वे द्वादशसाहस्रा विभागाः संप्रकीर्तिताः ॥ १०६ ॥
अस्मिन्प्राभासिकः सर्वो वर्ण्यते क्षेत्रविस्तरः ॥
तीर्थानां चैव माहात्म्यं माहात्म्यं शंकरस्य च ॥ १०७ ॥
अन्येषां चैव देवानां माहात्म्यं च प्रकीर्त्यते ॥
इति भेदः पुराणानां संक्षेपात्कथितो द्विजाः ॥ १०८ ॥
इममष्टादशानां तु पुराणानामनुक्रमम्॥
यः पठेद्धव्यकव्येषु स याति भवनं हरेः॥१०९॥
इदं पवित्रं हि यशोनिधानमिदं पितॄणामपि वल्लभं च॥
इदं च देवेष्वमृताय नित्यमिदं महापातकहृच्च पुंसाम्॥7.1.2.११॥।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ससंख्याकाष्टादशमहापुराणोपपुराणवर्णनपूर्वक पुराणपुस्तकदानफलवर्णनं नाम द्वितीयोऽध्यायः॥२॥