स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ४२
॥ प्रह्लाद उवाच ॥ ॥
वृषोत्सर्गं करिष्यंति वैशाख्यां चैव कार्तिके ॥
द्वारकायां पिशाचत्वं मुक्त्वा यांति पितामहाः ॥ १ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
एवंविधानि पापानि कृत्वा चैव गुरूण्यपि॥ २ ॥
स्नानमात्रेण गोमत्यां श्रीकृष्णस्य च दर्शनात् ॥
विलयं याति दैत्येन्द्र कल्पकोटिकृतान्यपि ॥ ३ ॥
रुक्मिणीं ये प्रपश्यंति भक्तियुक्ताः कलौ नराः ॥
पुरीं प्रदक्षिणां कृत्वा जप्त्वा नामसहस्रकम् ॥ ४ ॥
प्रदक्षिणीकृतं सर्वं ब्रह्मांडं नात्र संशयः ॥
महादानैस्तु चान्यत्र यत्फलं परिकीर्तितम्॥
द्वारकायां तु रुक्मिण्यां दृष्टायां जायते तदा ॥ ५ ॥
द्वादशीवासरे प्राप्ते माहात्म्यं द्वारकाभवम् ॥
पठते संनिधौ विष्णोः शृणु वक्ष्यामि तत्फलम् ॥ ६ ॥
सर्वेषु चैव लोकेषु कामचारी विराजते ॥
पद्मवर्णेन यानेन किंकिणीजालमालिना ॥ ७ ॥
दिव्यश्वेताश्वयुक्तेन कामगेन यथासुखम् ॥
आभूतसंप्लवं यावत्क्रीडतेऽप्सरसां गणैः ॥ ८ ॥
कृतकृत्यश्च भवति कल्पकोटिसमन्वितः ॥
यथा निर्मथनादग्निः सर्वकाष्ठेषु दृश्यते ॥
तथा च दृश्यते धर्मो द्वादशीसेवनान्नरे ॥९॥
अतः परं प्रवक्ष्यामि पितृभिः परिकीर्तितम् ॥
अपि स्यात्स कुलेऽस्माकं गोमत्यां श्रद्धया नरः ॥
स्नात्वा संपूज्य कृष्णं च श्राद्धं कुर्यात्सपिण्डकम् ॥ 7.4.42.१०॥
अपि स्यात्स कुलेऽस्माकं गोमत्युदधिसंगमे ॥
स्नात्वा पश्यति यः कृष्णमस्माकं तारणाय वै ॥ ११ ॥
अपिस्यात्स कुलऽस्माकं यः श्रुत्वा ब्राह्मणाननात् ॥
द्वारकामाहात्म्यमिदं पूजयिष्यति भक्तितः ॥ १२ ॥
भविष्यति कुलेऽस्माकं यो गच्छेद्द्वारकां पुरीम् ॥
संप्राप्य द्वादशीं शुद्धां यः करिष्यति जागरम् ॥ १३ ॥
भविष्यति कुलेऽस्माकं पुत्रो वा दुहिता तथा ॥
स्तुवन्नामसहस्रं तु कृष्णस्याग्रे पठिष्यति ॥ १४ ॥
अपि स्यात्स कुलेऽस्माकं भविष्यति धृतव्रतः ॥
गोपीचन्दनदानेन यस्तोषयति वैष्णवान्॥ ॥ १५ ॥
अपि स्यात्स कुलेऽस्माकं वैष्णवानां तु सन्निधौ ॥
द्वारकायाश्च माहात्म्यं पठिष्यति जितेन्द्रियः ॥ १६ ॥
भविष्यति कुलेऽस्माकं माहात्म्यं द्वारकाभवम् ॥
लिखित्वा कृष्णतुष्ट्यर्थं स्वगृहे धारयिष्यति ॥ १७ ॥
स्वर्णदानं च गोदानं भूमिदानं तथैव च ॥
यावज्जीवं भवेद्दत्तं येनेदं धारितं कलौ ॥ १८ ॥
तप्तकृच्छ्रं महाकृच्छ्रं मासोपोषणमेव च ॥
यावज्जीवं कृतं तेन येनेदं श्रावितं कलौ ॥ १९ ॥
प्रायश्चित्तानि चीर्णानि पापानां नाशनाय ? ॥
द्वारकायाश्च माहात्म्यं येन विस्तारितं कलौ ॥ 7.4.42.२० ॥
तावत्तिष्ठंति पुरुषे ब्रह्महत्यादिकानि च ॥
यावन्न लिखते जंतुर्माहात्म्यं द्वारकाभवम् ॥ २१ ॥
दानैः सर्वैश्च किं तस्य सर्वतीर्थावगाहनैः ॥
द्वारकायाश्च माहात्म्यं येनेदं लिखितं गृहे ॥ २२ ॥
सर्व दुःखप्रशमनं सर्वकार्य्यप्रसाधनम्॥
चतुर्वर्गप्रदं नित्यं हरिभक्तिविवर्द्धनम् ॥ २३ ॥
न चाधिर्भवते नूनं याम्यं तस्य भयं नहि ॥
माहात्म्यं पठते यत्र द्वारकायाः समुद्भवम्॥ २४ ॥
लिखितं तिष्ठते यस्य गृहे तत्तीर्थमेव च ॥
बलाच्छुणुष्व माहात्म्यं द्वारकायाः समुद्भवम् ॥ २५ ॥
विधि मन्त्रक्रियाहीनां पूजां गृह्णाति केशवः ॥
माहात्म्यं तिष्ठते नित्यं लिखितं यस्य वेश्मनि ॥
न तस्यागःसहस्रैस्तु कृतैर्लिप्यति मानवः ॥ २६ ॥
यः पठेच्छृणुते वापि माहात्म्यं द्वारकाभवम् ॥
न भवेद्भूतवैकल्यं धर्मवैकल्यमेव च ॥ २७ ॥
यः स्मरेत्प्रातरुत्थाय माहात्म्यं द्वारकाभवम् ॥
द्वादशीनां च सर्वासां यच्चोक्तं लभते फलम् ॥ २८ ॥
त्रिदशैः पूज्यते नित्यं वन्द्यते सिद्धचारणैः ॥
माहात्म्यं पठते यो वै द्वारकायाः समुद्भवम् ॥ २९ ॥
द्वारका वसते यत्र तत्र विष्णुः सनातनः ॥
तत्र तीर्थानि सर्वाणि सर्वे देवाः सवासवाः ॥
यज्ञा वेदाश्च ऋषयस्त्रैलोक्यं सचरा चरम् ॥ 7.4.42.३० ॥
शक्तो हि द्वारकां गंतुं मानवो न हि पुत्रक ॥
कृष्णदर्शनजं पुण्यं माहात्म्यं पठतो भवेत् ॥३१ ॥
सत्यं शौचं श्रुतं वित्तं सुशीलं च क्षमाऽऽर्जवम् ॥
सर्वं च निष्फलं तस्य माहात्म्यं न शृणोति यः ॥ ३२ ॥
षण्मासे च भवेत्पुत्रो लक्ष्मीश्चैव विवर्द्धते ॥
तस्य यः शृणुते भक्त्या माहात्म्यं द्वारकाभवम् ॥ ३३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकाक्षेत्रे वृषोत्सर्गादिक्रियाकरण द्वारकामाहात्म्यश्रवणादिफलवर्णनंनाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥