स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ३८

विकिस्रोतः तः

॥श्रीप्रह्लाद उवाच ॥ ॥
द्वारकायाश्च माहात्म्यं शृणु पौत्र मयोदितम् ॥
शृण्वतो गदतश्चापि मुक्तिः कृष्णाद्भवेद्ध्रुवम् ॥ १ ॥
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ॥
अथ पुत्रस्य पौत्रेण नाकमेवाधिरोहति॥२॥
यस्य पुत्रः शुचिर्दक्षः पूर्वे वयसि धार्मिकः ॥
विष्णुभक्तिं च कुरुते तं पुत्रं कवयो विदुः ॥ ३ ॥
हेमशृंगं रौप्यखुरं सवत्सं कांस्यदोहनम्॥
सवस्त्रं कपिलानां तु सहस्रं च दिनेदिने ॥ ४ ॥
दत्त्वा यत्फलमाप्नोति ब्राह्मणे वेदपारगे ॥
तत्फलं स्नानमात्रेण गोमत्यां मधुभिद्दिने ॥ ५ ॥
यस्त्वेकं भोजयेद्विप्रं द्वारकायां च संस्थितम् ॥
सुभिक्षे भो द्विजश्रेष्ठाः फलं लक्षगुणं भवेत्॥६॥
फलं लक्षगुणं प्रोक्तं दुर्भिक्षे कृष्णसन्निधौ॥
एवं धर्मानुसारेण दयाद्भिक्षां तु भिक्षुके ॥ ७ ॥
अपि नः स कुले कश्चिद्भविष्यति नरोत्तमः ॥
यो यतीनो कलौ प्राप्ते पितॄनुद्दिश्य दास्यति ॥ ८ ॥
द्वारकायां विशे षेण सत्कृत्य कृष्णसन्निधौ ॥
अन्नदानं यतीनां तु कौपीनाच्छादनानि च ॥ ९ ॥
नात्मनः क्रतुभिः स्विष्टैर्नास्ति तीर्थैः प्रयोजनम्॥
यत्र वा तत्र वा कार्य्यं यतीनां प्रीणनं सदा ॥ 7.4.38.१० ॥
श्वपचादयोऽपि ते धन्या ये गता द्वारकां पुरीम् ॥
प्राप्य भागवतान्ये वै पितॄनुद्दिश्य पुत्रकाः ॥ ॥ ११ ॥
भक्त्या संपूजयिष्यंति वस्त्रैर्दानैश्च भूरिभिः ॥ १२ ॥
गयापिंडेन नास्माकं तृप्तिर्भवति तादृशी ॥
यादृशी विष्णुभक्तानां सत्कारेणोप जायते ॥ १३ ॥
वैशाखे ये करिष्यंति द्वादशीं कृष्णसन्निधौ ॥
कृष्णं संपूजयन्तश्च रात्रौ कुर्वंति जागरम् ॥१४॥
माहात्म्यं पठनीयं तु द्वारकासंभवं शुभम् ॥
कृष्णस्य बालचरितं बालकृष्णादिदर्शनम् ॥ १५ ॥
क्रीडनं गोकुलस्यैव क्रीडा गोपीजनस्य च ॥
कृष्णावतारकर्माणि श्रोतव्यानि पुनःपुनः ॥ १६ ॥
रुक्मशृंगीं रौप्यखुरीं मुक्तालांगूलभूषिताम्॥
सवत्सां ब्राह्मणे दत्त्वा होमार्थं चाहिताग्नये ॥ १७ ॥
 निमिषस्पर्शनांशेन फलं कृष्णस्य जागरे ॥
यत्किंचित्कुरुते पापं कोटिजन्मसु मानवः ॥
कृष्णस्य जागरे रात्रौ दहते नात्र संशयः ॥ १८ ॥
पठेद्भागवतं रात्रौ पुराणं दयितं हरेः ॥
यावत्सूर्य्यकृताऽऽलोको यावच्चन्द्रकृता निशा ॥ १९ ॥
यावत्ससागरा पृथ्वी यावच्च कुलपर्वताः ॥
तावत्कालं वसेत्स्वर्गे नान्यथा मम भाषितम् ॥ 7.4.38.२० ॥
आस्फोटयंति पितरः प्रहर्षंति पितामहाः ॥
एवं तं स्वसुतं दृष्ट्वा शृण्वानं कृष्णसंभवम् ॥ २१ ॥
द्वारकायाश्च माहात्म्यं यत्र नो जागरे पठेत् ॥
तन्म्लेच्छसदृशं स्थानमपवित्रं परित्यजेत् ॥ २२ ॥
शालिग्रामशिला नैव यत्र भागवता न हि ॥
त्यजेत्तीर्थं महापुण्यं पुण्यमायतनं त्यजेत् ॥ २३ ॥
त्यजेद्गुह्यं तथाऽरण्यं यत्र न द्वादशीव्रतम् ॥ २४ ॥
सुदेशोऽपि भवेन्निंद्यो यत्र नो वैष्णवा व्रतम्॥
कुदेशोऽपि भवेत्पुण्यो यत्र भागवताः कलौ ॥ २५ ॥
संकीर्णयोनयः पूता ये भक्ता मधुसूदने ॥
म्लेच्छतुल्याः कुलीनास्ते ये न भक्ता जनार्दने॥ २६ ॥
रथारूढं प्रकुर्वंति ये कृष्णं मधुमाधवे ॥
मुक्तिं प्रयांति ते सर्वे कुलकोटिसमन्विताः ॥ २७ ॥
देवकीनन्दनस्यार्थे रथं कारापयन्ति ये ॥
कल्पांतं विष्णुलोके ते वसन्ति पितृभिः सह ॥ २८ ॥
द्वारकायास्तु माहात्म्यं श्रावयेद्यः कलौ नृणाम्॥
भावमुत्पादयेद्यो वै लभेत्क्रतुशतंफलम् ॥ २९ ॥
यो नार्चयति पापिष्ठो देवमन्यत्र गच्छति ॥
कोटिजन्मार्जितं पुण्यं हरते रुक्मिणीपतिः ॥ 7.4.38.३० ॥
शंखोद्धारसमुद्भूतां नित्यं देहे बिभर्त्ति हि ॥
मृत्तिकां दैत्यराजेन्द्र शृणु वक्ष्यामि यत्फलम् ॥ ३१ ॥
यो ददाति यतीनां च वैष्णवानां प्रयच्छति ॥
स्वर्णभारशतं पुण्ड्रं नित्यं प्राप्नोति मानवः ॥ ३२ ॥
गृहे यस्य सदा तिष्ठेच्छंखोद्धारस्य मृत्तिका ॥
नित्य क्रियाकृतंपुण्यं लभेत्कोटिगुणं बले ॥ ३३ ॥
यस्य पुण्ड्रं ललाटे तु गोपीचंदनसंज्ञकम् ॥
न जहाति गृहं तस्य लक्ष्मीः कृष्णप्रिया द्विजाः ॥ ३४ ॥
न ग्रहो बाधते तस्य नोरगो न च राक्षसः ॥
पिशाचा न च कूष्मांडा न च प्रेता न जंभकाः ॥ ३५ ॥
नाग्निचौरभयं तस्य दरीणां चैव बन्धनम् ॥
विद्युदुल्काभयं चैव न चोत्पातसमुद्भवम् ॥ ३६ ॥
नारिष्टं नापशकुनं दुर्निमित्तादिकं च यत् ॥
सत्कृते विष्णुभक्ते च शालिग्रामशिलार्चने ॥ ३७ ॥
पीते पादोदके विप्रा नैवेद्यस्यापि भक्षणे ॥
तुलसीसन्निधौ विष्णोर्विलयावसरे कृते ॥ ३८ ॥
पुरा देवेन कथितं शृणु पात्रं वदाम्यहम् ॥
प्रिया भागवता येषां तेषां दासोऽस्म्यहं सदा ॥ ३९॥
विहाय मथुरां काशीमवन्तीं सर्वपापहाम् ॥
मायां कांचीमयोध्यां च संप्राप्ते च कलौ युगे ॥ ॥ 7.4.38.४० ॥
वसाम्यहं द्वारकायां सर्वसेनासमावृतः ॥
तीर्थव्रतैर्यज्ञदानै रुद्राद्यैर्मुनिचारणैः ॥ ४१ ॥
श्रद्धात्यागेन भक्त्या वा यस्तोषयितुमिच्छति ॥
गत्वा द्वारवतीं रम्यां द्रष्टव्योऽहं कलौ युगे ॥ ४२ ॥
त्रैलोक्ये यानि तीर्थानि मया शुद्धानि भूरिशः ॥।
विन्यस्तानि च गोमत्यां चक्रतीर्थेऽतिपावने ॥ ४३ ॥
दिनेनैकेन गोमत्यां चक्रतीर्थे कलौ युगे ॥
त्रैलोक्यसंभवैस्तीर्थैः स्नातो भवति मानवः ॥ ४४ ॥
कोटिपापविनिर्मुक्तो मत्समं वसते नरः ॥
मम लोके न संदेहः कुलकोटिसमन्वितः ॥ ४५ ॥
नापराधकृतैः पापैर्लिप्तः स्यादु त्कटैः कृतैः ॥
शतजन्मायुतानीह लक्ष्मीर्न च्यवते गृहात् ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोमतीतीरगत द्वारकाचक्रतीर्थयोर्जागरादिमाहात्म्यवर्णनं-नामाष्टात्रिंशत्तमोऽध्यायः ॥ ३८ ॥