स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ३५

विकिस्रोतः तः

॥ प्रह्लाद उवाच ॥ ॥
अहो क्षेत्रस्य माहात्म्यं समंताद्दशयोजनम् ॥
दिविष्ठा यत्र पश्यंति सर्वानेव चतुर्भुजान् ॥ १ ॥
अहो क्षेत्रस्य माहात्म्यं दृष्ट्वा नित्यं चतुर्भुजान् ॥
द्वारकावासिनः सर्वान्नमस्यंति दिवौकसः ॥ २ ॥
अहो क्षेत्रस्य माहात्म्यं सर्वशास्त्रेषु विश्रुतम् ॥
अहो क्षेत्रस्य माहात्म्यं शृण्वंतु ऋषयोऽमलाः ॥ ३ ॥
मुक्तिं नेच्छंति यत्रस्थाः कृष्णसेवोत्सुकाः सदा ॥
यत्रत्याश्चैव पाषाणा यत्र क्वापि विमुक्तिदाः ॥ ४ ॥
अपि कीट पतंगाद्याः पशवोऽथ सरीसृपाः ॥
विमुक्ताः पापिनः सर्वे द्वारकायाः प्रसादतः ॥
किं पुनर्मानवा नित्यं द्वारकायां वसंति ये ॥ ५ ॥
या गतिः सर्वजंतूनां द्वारकापुरवासिनाम् ॥
सा गतिर्दुर्लभा नूनं मुनीनामूर्द्ध्वरेतसाम् ॥ ६ ॥
सर्वेषु क्षेत्रतीर्थेषु वसतां वर्षकोटिभिः ॥
तत्फलं निमिषाद्धेंन द्वारकायां दिनेदिने ॥ ७ ॥
द्वारकायां स्थिताः सर्वे नरा नार्य्यश्चतुर्भुजाः ॥
द्वारकावासिनः सर्वान्यः पश्येत्कलुषापहान् ॥
सत्यंसत्यं द्विजश्रेष्ठाः कृष्णस्यातिप्रियो भवेत् ॥ ८ ॥
द्वारकावासिनो ये वै निंदंति पुरुषाधमाः ॥
कृष्णस्नेहविहीनास्ते पतंति दुःखसागरे ॥ ९ ॥
जयंतेन भृशं त्रस्ताः शूलाग्रारोपिताश्चिरम् ॥
कर्षितास्ताडितास्ते वै मूर्च्छिताः पुनरुत्थिताः ॥ 7.4.35.१० ॥
त्राहित्राहि जयंत त्वं वदंतो हि भयातुराः ॥
स्मरंतः पूर्वपापं ते जयंतेन प्रताडिताः ॥११॥
॥ जयंत उवाच ॥ ॥
किं कृतं मंदभाग्यैर्वो यत्पापं च सुदारुणम् ॥
सर्वं पुण्यफलं लब्ध्वा द्वारकावासमुत्तमम्॥१२॥
द्वारकावासिनां निंदा महापापाधिका ध्रुवम् ॥
न निवर्तेत तत्पापं सा ज्ञेया परमेश्वरी ॥ १३ ॥
अतः कृष्णाज्ञया सर्वान्पापिनो दंडयाम्यहम् ॥
वैष्णवानां च निंदायाः फलं भुक्त्वा सुदारुणम् ॥ १४ ॥
ततस्तु द्वारकायां च पुण्यं जन्म भविष्यति ॥
कृष्णं प्रतोष्य संसिद्धिर्भविष्यति सुदुर्ल्लभा ॥ १५ ॥
तस्मात्तद्भुज्यतां पापं जातं वैष्णवनिंदनात् ॥
तत्रत्यानां प्रभुर्नैव यम ईष्टे महेश्वरः ॥ १६ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
तस्माद्द्वारवतीं गत्वा संसेव्यो देवनायकः ॥ १७ ॥
गोमतीतीरमाश्रित्य द्वारकायां प्रयच्छति ॥
यत्तु किंचिद्धनं विप्राः श्रूयतां तत्फलोदयम् ॥ १८ ॥
हेमभारसहस्रैस्तु रविवारे रविग्रहे ॥
कुरुक्षेत्रे यदाप्नोति गजाश्वरथदानतः ॥ १९ ॥
सहस्रगुणितं तस्मात्सत्यंसत्यं मयोदितम् ॥
हेममाषार्द्धमानेन द्वारकादानयोगतः ॥ 7.4.35.२० ॥
पत्राणां चैव पुष्पाणां नैवेद्यसिक्थसंख्यया ॥
कृष्णदेवस्य पूजायामनंतं भवति द्विजाः ॥ २१ ॥
अन्नदानं तु यः कुर्य्याद्द्वारकायां तु तत्फलम्॥
नैव शक्नोम्यहं वक्तुं ब्रह्मा शेषमहेश्वरौ ॥ २२॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽप्यथ वांऽत्यजः ॥
नारी वा द्वारकायां वै भक्त्या वासं करोति वै ॥ २३ ॥
कुलकोटिं समुद्धृत्य विष्णुलोके महीयते ॥
सत्यंसत्यं द्विजश्रेष्ठा नानृतं मम भाषितम्॥ २४॥
द्वारकावासिनं दृष्ट्वा स्पृष्ट्वा चैव विशेषतः ॥
महापापविनिर्मुक्ताः स्वर्गलोके वसंति ते ॥ २५ ॥
पांसुवो द्वारकाया वै वायुना समुदीरिताः ॥
पापिनां मुक्तिदाः प्रोक्ताः किं पुनर्द्वारका भुवि ॥ २६ ॥
॥ श्रीप्रह्लाद उवाच ॥
श्रूयतां द्विजशार्दूला महामोहविनाशनम्॥
द्वारकायाश्च माहात्म्यं गोमतीकृष्णसन्निधौ ॥ २७ ॥
कुशावर्त्तात्समारभ्य यावद्वै सागरावधि ॥
यस्यां तिथौ समायाति सिंहे देवपुरोहितः॥ २८ ॥
तस्यां हि गोमतीस्नानं द्विषङ्गोदावरीफलम्॥
अवगाहिता प्रयत्नेन सिंहांते गौतमी सकृत् ॥ २९॥
गोदावर्य्यां भवेत्पुण्यं वसतो वर्षसंख्यया ॥
तत्फलं समवाप्नोति गोमतीसेवनाद्द्विजाः ॥7.4.35.३०॥
गोमत्यां श्रद्धया स्नानं पूर्णे सिंहस्थिते गुरौ ॥
सहस्रगुणितं तत्स्याद्द्वारवत्यां दिनेदिने ॥ ३१ ॥
गच्छगच्छ महाभाग द्वारकामिति यो वदेत् ॥
तस्यावलोकनादेव मुच्यते सर्वपातकैः ॥ ३२॥
द्वारकेति च यो ब्रूयाद्द्वारकाभिमुखो नरः ॥
कृपया कृष्णदेवस्य मुक्तिभागी भवेद्ध्रुवम् । ३३ ॥
द्वारकां गोमतीं पुण्यां रुक्मिणीं कृष्णमेव च॥
स्मरंति येऽन्वहं भक्त्या द्वारकाफलभागिनः ॥ ३४ ॥
सहस्रयोजनस्थानां येषां स्यादिति मानसम्॥
द्वारवत्यां गमिष्यामो द्रक्ष्यामो द्वारकेश्वरम् ॥ ३५ ॥
सर्वपापैः प्रमुच्यंते धन्यास्ते लोकपावनाः ॥
किं वाच्यं द्वारकायात्रां ये प्रकुर्वंति मानवाः ॥
किं पुनर्द्वारकानाथं कृष्णं पश्यंति ये नराः ॥ ३६ ॥
मित्रध्रुग्ब्रह्महा गोघ्नः परदारापहारकः ॥
मातृहा पितृहा चैव ब्रह्मस्वापहरस्तथा ॥ ३७ ॥
एते चान्ये च पापिष्ठा महापापयुताश्च ये ॥
सर्वपापैः प्रमुच्यंते कृष्णदेवस्य दर्शनात् ॥३८ ॥
किं वेदैः श्रद्धया हीनैर्व्याख्यानैरपि कृत्स्नशः ॥
हेमभारसहस्रैः किं कुरुक्षेत्रे रविग्रहे ॥ ३९ ॥
गजाश्वरथदानैः किं किं मंदिरप्रतिष्ठया ॥
तेषां पूजादिना सम्यगिष्टा पूर्तादिभिश्च किम् ॥ 7.4.35.४० ॥
राजसूयाश्वमेधाद्यैः सर्वयज्ञैश्च किं भवेत् ॥
सेवनैः क्षेत्रतीर्थानां तपोभिर्विविधैस्तु किम् ॥ ४१ ॥
किं मोक्षसाधनैः क्लेशैर्ध्यानयोगसमाधिभिः ॥
द्वारकेश्वरकृष्णस्य दर्शनं यस्य जायते॥ ४२॥
माहात्म्यं द्वारकायास्तु अथवा यः शृणोति च ॥
विशेषेण तु वैशाख्यां जयंत्याश्चैव जागरे॥ ४३॥
माघ्यां च फाल्गुने चैत्रे ज्येष्ठे चैव विशेषतः॥
अद्यापि द्वारका पुण्या कलावपि विशेषतः॥४४॥
यस्यां सत्रं प्रपां कृत्वा प्रासादं मंचमेव च॥
यतीनां शरणं कृत्वा तीरे मंडपमेव च॥४५॥
वापीकूपतडागानां जीर्णोद्धारमथापि वा॥
मूर्तिं विष्णोः प्रतिष्ठाप्य दत्त्वा वा भोगसाधनम् ॥ ४६॥
श्रूयतां तत्फलं विप्राः सर्वोत्कृष्टं वदाम्यहम् ॥
संप्राप्य वांछितान्कामान्कृष्णानुग्रहभाजनम्॥४७॥
तेजोमयेषु लोकेषु भुक्त्वा भोगाननुक्रमात् ॥
प्राप्नोति विष्णुलोकं वै नरो देवनमस्कृतम् ॥ ४८ ॥
स्थापयेद्द्वारकायां वै मूर्तिं दारुशिलामयीम्॥
त्रैलोक्यं स्थापितं तेन विष्णोः सायुज्यतामियात्॥४९॥
प्ररोहो नास्ति पापस्य पुण्यस्य वृद्धिरुत्तमा ॥
द्वारकायां कथं जातं वैलक्षण्यमिदं प्रभो ॥
क्षेत्रेभ्यः सर्वतीर्थेभ्य आश्चर्य्यं कथयंति ते ॥ 7.4.35.५० ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकानाममाहात्म्यवर्णनंनाम पञ्चविंशोऽध्यायः ॥ ३५ ॥