स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ३१

विकिस्रोतः तः

॥ प्रह्लाद उवाच॥। ॥
दिव्यस्वप्रभया ध्वांतं भूतानां नाशयन्सदा ॥
जनयन्परमानंदं भक्तानां च भयापहः ॥ १ ॥
पताकाभिर्ध्वजस्थाभिर्द्वारकाजयवर्द्धनः ॥
दिव्यपुण्यप्रकाशेन राजते गिरिराडिव ॥ २ ॥
दृष्ट्वाऽऽलयं तदा विष्णोस्तदायुधविभूषितम्॥
विहाय पादुके च्छत्रं दण्डवत्पतिता भुवि ॥ ३ ॥
भूमिसंलुठनं तेषां तीर्थानामद्भुतं महत् ॥
अभवद्विप्र शार्दूलाः क्षेत्रादीनां च सर्वशः ॥ ४ ॥
वाराणसी कुरुक्षेत्रं प्रयागो जाह्नवी तथा ॥
यमुना नर्मदा पुण्या पुण्या प्राची सरस्वती ॥ ५ ॥
गोदावरी महापुण्या गया तिस्रस्तु मंगलाः ॥
शालिग्रामं महाक्षेत्रं पुण्या चक्रनदी शुभा ॥ ६ ॥
पयोष्णी तपती कृष्णा कावेर्य्याद्याः सुपुण्यदाः ॥
पुष्करादीनि तीर्थानि सागराः पर्वतोत्तमाः ॥ ७ ॥
अयोध्या मथुरा माया अवंत्याद्याश्च मुक्तिदाः ॥
श्रीरंगाख्यमनंतं च प्रभासं च विशेषतः ॥ ८ ॥
पुरुषोत्तमं महाक्षेत्रमरण्यान्यादयः शुभाः ॥
त्रैलोक्ये वर्त्तमानानि सर्वतीर्थानि सर्वशः ॥ ९ ॥
दृष्ट्वा कृष्णालयं पुण्यं मुहुर्मुहुः प्रहर्षिताः ॥
जय शब्दैर्नमःशब्दैर्गर्जंतो हरिनामभिः ॥ 7.4.31.१० ॥
आनंदाश्रूणि मुंचंतः प्रेम्णा गद्गदया गिरा ॥
स्तुवंति मुनयः सर्वे तीर्थादीनि च सर्वशः ॥ ११ ॥
अथ संस्तुवतां तेषामन्योन्यं मुदितात्मनाम् ॥
वीक्ष्य वक्त्राणि सर्वेषां महर्षिर्नारदोऽब्रवीत् ॥ १२ ॥
॥ श्रीनारद उवाच ॥ ॥
राशयः पुण्य पुंजानां कृता युष्माभिरुत्तमाः ॥
तज्जन्मना सहस्रैस्तु यद्दृष्टं कृष्णमंदिरम् ॥ १३ ॥
दर्शनं कृष्णदेवस्य द्वारकागमने मतिः ॥
दृढभक्तिर्महाविष्णोर्नाल्पस्य तपसः फलम् ॥ १४ ॥
धन्या वै पूर्वजास्तेषां वंशजाः कृष्णदर्शनं ॥
सोत्सवा द्वारकां यांति पश्यंति च हरिप्रियाम् ॥ १९ ॥
धन्येयं गौतमी गंगा गौतमोऽयं महातपाः ॥
यत्प्रसादेन सर्वेषां कल्याणं समुपस्थितम् ॥ १६ ॥
यज्ञाध्ययनदानानां तपोव्रतसमाधिनाम्॥
संप्राप्तफलमस्माभिर्युष्माभिः सर्वतीर्थकाः ॥ १७ ॥
यूयं सर्वाणि तीर्थानि क्षेत्राणि चैव कृत्स्नशः ॥
कृष्णाज्ञया सर्वकालं तिष्ठध्वं सर्वदैवतैः ॥ ॥ १८ ॥
वसंति येऽत्र ते धन्या एकाहमपि पावनाः ॥
पश्यंतु सुमहाभागा गोदावर्य्यत्र जाह्नवी ॥ १९ ॥
इयं च शोभते पुण्या द्वारका कृष्ण वल्लभा ॥
प्रपश्यंतु महाभागास्तथा वाराणसीं शुभाम् ॥ 7.4.31.२० ॥
क्षेत्राणि कुरुमुख्यानि पश्यंतु द्वारकां प्रभोः ॥
तादृशी मथुरा काशी मायाऽध्योध्या च राजते ॥ २१ ॥
अवन्ती न च कांची च क्षेत्रं च पुरुषोत्तमम् ॥
सूर्योपरागकालेऽपि कुरुक्षेत्रं न राजते ॥ २२ ॥
ईदृशं न गयातीर्थं यादृगेतत्प्रकाशते ॥ २३ ॥
ग्रहनक्षत्रताराणां यथा सूर्य्यो विराजते ॥
सक्षेत्रतीर्थराजानां द्वारकार्को विराजते ॥ २४ ॥
॥ प्रह्लाद उवाच ॥ ॥
निशम्य नारदेनोक्तं प्रहृष्टाश्च तथा द्विजाः ॥
क्षेत्राणि सर्वतीर्थानि पुरस्कृत्य च गौतमम् ॥ २५ ॥
विहाय गौतमीं तत्र प्रययुर्ह्यग्रतोग्रतः ॥
प्रहृष्टा गौतमी तत्र प्रणम्य त्वरिता ययौ ॥ २६ ॥
गीतवाद्यैश्च नृत्यैश्च पताकाभिः समंततः ॥
प्रययुः स्तोत्रपाठैश्च सर्वे ते द्वारकाश्रये ॥ २७ ॥
स तीर्थान्यग्रतः कृत्वा मध्ये कृत्वा तु शोभनम् ॥
प्रयागं तीर्थराजं च प्रहृष्टं क्षेत्रदर्शनात् ॥ २८ ॥
ततः पश्चात्सरित्स्नानं चकार ऋषिसत्तमः ॥
जाह्नवी गौतमी रेवा यमुनाप्राक्सरस्वती ॥ २९ ॥
सरयूर्गंडकी तापी पयोष्णी यमुना तथा ॥
कृष्णा भीमरथी गंगा कावेरी चाघनाशिनी ॥ ॥ 7.4.31.३० ॥
मंदाकिनी महापुण्या पुण्या भोगवती नदी ॥
व्रजंति युगपत्सर्वाः पश्यंत्यो द्वारकां पुरीम् ॥ ३१ ॥
ततस्ते सागराः सप्त स्वैःस्वैस्तीर्थैः समन्विताः ॥
ततः पश्चादरण्यान्याश्रमैः पुण्यैयुतानि च ॥ ३२ ॥
ततस्तु पर्वता रम्या मेर्वाद्यास्तु सुशोभनाः ॥
नृत्यंतो गायमानाश्च स्तवाद्यैस्तु महर्षिभिः ॥ ३३ ॥
ततश्च ऋषयो देवाः समंताद्धृष्टमानसाः ॥
गायंतो नृत्यमानाश्च गर्जंतो हरिनामभिः ॥ ३४ ॥
वादित्रनिनदैरुच्चैर्जयशब्दैः प्रहर्षिताः ॥
प्राप्तास्ते गोमतीतीरं सर्वयज्ञसमन्विताः ॥
ववंदिरे महापुण्याः सर्वे ते हृष्टमानसाः ॥ ३५ ॥
॥ श्रीनारद उवाच ॥ ॥
हे भागीरथि हे रेवे यमुने शृणु गौतमि ॥
श्रेष्ठा श्रीगोमतीदेवी विख्याता भुवनत्रये ॥ ३६ ॥
यस्याः सकृज्जलस्नानं स्पर्द्धते ब्रह्मविद्यया ॥
तेन वै गोमती सेयं सर्वतीर्थोत्तमोत्तमा ॥
ब्रह्मज्ञानेन मुच्यंते प्रयागमरणेन वा ॥
स्नानमात्रेण गोमत्यां मुच्यते पूर्वजैः सह ॥ ३७ ॥
॥ प्रह्लाद उवाच ॥ ॥
निशम्य तानि तीर्थानि माहात्म्यं महदद्भुतम् ॥
गोमत्याः श्रद्धया स्नात्वा उत्सवैरग्रतो ययुः ॥ ३८ ॥
ततः क्षेत्राणि तीर्थानि सरितः सागरादयः ॥
ददृशुर्द्वारकां रम्यामागता द्वारमण्डपे ॥ ३९ ॥
स्थितां सिंहासने दिव्ये मणिकांचनभूषिते ॥
सुन्दरां शुक्ल वर्णां च रुद्रादित्यसमप्रभाम् ॥ 7.4.31.४० ॥
दिव्यवस्त्रां सुगंधाढ्यां रत्नाभरणभूषिताम् ॥
किरीटकुण्डलैर्दिव्यैः शोभितां कंकणादिभिः ॥ ४१ ॥
वरदाभयहस्तां च शंखचक्रगदायुधाम्॥
श्वेतातपत्रशोभाढ्यां चामरव्यजनादिभिः ॥ ४२ ॥
संस्तवैः स्तूयमानां च गीतवाद्यादिहर्षिताम् ॥
महासिंहासनस्थां तु दृष्ट्वा द्वारवतीं पुरीम्॥
प्रणेमुर्युगपत्सर्वे सर्वाणि च सुभक्तितः ॥ ४३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये मूर्तिमतीद्वारवतीदर्शनवर्णनंनामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥