स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः २४

विकिस्रोतः तः

॥ श्रीमार्कंडेय उवाच ॥ ॥
पितॄणां प्रेतरूपाणां कृत्वा वाक्यं महीपते ॥
चंद्रशर्मा द्विजश्रेष्ठो द्वारकां समुपागतः ॥ १ ॥
रुक्मिणीसहितः कृष्णो यत्र तिष्ठति चान्वहम् ॥
यत्र तिष्ठंति तीर्थानि तत्र यातो द्विजोत्तमः ॥ २ ॥
यत्र तिष्ठंति यज्ञाश्च यत्र तिष्ठंति देवताः ॥
यत्र तिष्ठंति ऋषयो मुनयो योगवित्तमाः ॥ ३ ॥
या पुरी सिद्धगंधर्वैः सेव्यते किंनरैर्नरेः ॥
अप्सरोगणयक्षैश्च द्वारका सर्वकामदा ॥ ४ ॥
स्वर्गारोहणनिश्रेणी वहते यत्र गोमती ॥
सा पुरी मोक्षदा नृणां दृष्टा विप्रवरेण हि ॥५॥
यस्याः सीमां प्रविष्टस्य ब्रह्महत्यादिपातकम् ॥
नश्यते दर्शनादेव तां पुरीं को न सेवते ॥ ६ ॥
गत्वा कृष्णपुरीं दृष्ट्वा गोमतीं चैव सागरम् ॥
मन्ये कृतार्थमात्मानं जीवितं यौवनं धनम् ॥ ७ ॥
दृष्ट्वा कृष्णपुरीं रम्यां कृष्णस्य मुखपंकजम् ॥
धन्योऽहं कृत्यकृत्योहं सभाग्योऽहं धरातले ॥ ॥ ८ ॥
दृष्ट्वा कृष्णमुखं रम्यं रुक्मिणीं द्वारकां पुरीम्॥
तीर्थकोटिसहस्रैस्तु सेवितैः किं प्रयोजनम् ॥९॥
पुण्यैर्लक्षसहस्रैस्तु प्राप्ता द्वारवती शुभा ॥
शुक्ला वैशाखमासे तु संप्राप्ता मधुसूदनी ॥ 7.4.24.१० ॥
द्वादशी त्रिस्पृशानाम पापकोटिशतापहा ॥
धन्याः सर्वे मनुष्यास्ते वैशाखे मधुसूदनी ॥१ १॥
संप्राप्ता त्रिस्पृशा यैस्तु बुधवारेण संयुता ॥
न यज्ञैस्तु न वेदैस्तु न तीर्थैः कोटिसेवितैः ॥
प्राप्यते तत्फलं नैव द्वारकायां यथा नृणाम् ॥ १२ ॥
एवमुक्त्वा द्विजश्रेष्ठो गोमतीतीरमाश्रितः ॥
उपस्पृश्य यथान्यायं शास्त्रदृष्टेन कर्मणा ॥ १३ ॥
कृत्वा स्नानं यथोक्तं तु संतर्प्य पितृदेवताः ॥
चक्रतीर्थात्समादाय शिलांश्चक्रांकिताञ्छुभान् ॥
पूजिताः पुरुषसूक्तेन यथोक्तविधिना नृप ॥ १४ ॥
शिवपूजा कृता पश्चात्संस्मृत्य पितृभाषितम् ॥
दत्त्वा पिंडोदकं सम्यक्पितॄणां विधिपूर्वकम् ॥१५॥
विलेपनं च वस्त्राणि पुष्पाणि धूपदीपको ॥
नैवेद्यानि मनोज्ञानि कंदमूलफलानि च ॥ १६ ॥
तांबूलं च सकर्पूरं कृत्वा नीराजनादिकम् ॥
प्रदक्षिणां नमस्कारं स्तुतिपूर्वं पुनःपुनः ॥ १७ ॥
क्षमापयित्वा देवेशं चक्रे जागरणं ततः ॥
यामत्रये व्यतीते तु चंद्रशर्मा ह्युवाच ह ॥ १८ ॥
आतुरस्य च दीनस्य शृणु कृष्ण वचो मम ॥
संसारभयसंत्रस्तं मां त्वमुद्धर केशव ॥१९॥
त्वत्पादांबुज भक्तानां न दुःखं पापिनामपि ॥
किं पुनः पापहीनानां द्वादशीसेविनां नृणाम्॥7.4.24.२०॥
दशमीवेधजं पापं कथितं मम पूर्वजैः ॥
दुष्कृतं नाशमायातु त्वत्प्रसादाज्जनार्द्दन ॥ २१ ॥
सविद्धं त्वद्दिनं कृष्ण यत्कृतं जागरं हरे ॥
तत्पापं विलयं यातु यथालवणमंभसि ॥ २२ ॥
सविद्धं वासरं यस्मा त्कृतं मम पितामहैः ॥
प्रेतत्वं तेन संप्राप्तं महादुःखप्रसाधकम् ॥ २३ ॥
यथा प्रेतत्वनिर्मुक्ता मम पूर्वपितामहाः ॥
मुक्तिं प्रयांति देवेश तथा कुरु जगत्पते ॥ २४ ॥
पुनरेव यदुश्रेष्ठ प्रसादं कर्तुमर्हसि ॥
अविद्यामोहितेनापि न कृतं तव पूजनम् ॥ २५ ॥
मया पापेन देवेश शिवभक्तिः समाश्रिता ॥
तव भक्तिः कृता नैव न कृतं तव वासरम् ॥ २६ ॥
न दृष्टा द्वारका कृष्ण न स्नातो गोमतीजले ॥
न दृष्टं पादपद्मं च त्वदीयं मोक्षदा यकम् ॥ २७ ॥
न कृता द्वारकायात्रा दृष्ट्वा सोमेश्वरं प्रभुम् ॥
विफलं सुकृतं जातं यन्मया समुपार्जितम् ॥ २८ ॥
मत्पूर्वजैस्तु कथितं सर्वमेव सुरेश्वर ॥
तत्पुण्यं मा वृथा यातु प्रसादात्तव केशव ॥ २९ ॥
दृष्टं तु तव वक्त्रं च दुर्ल्लभं भुवनत्रये ॥
तन्नास्ति देवकीपुत्र पुराणेषु श्रुतं मया ॥7.4.24.३०॥
सापराधास्तु ये केचिच्छिशुपालादयः स्मृताः ॥
त्वत्करेण हताः कोपान्मुक्तिं प्राप्ता महीवराः ॥ ३१ ॥
अद्यप्रभृति कर्त्तव्यं पूजनं प्रत्यहं च तत्॥
पलार्धेनापि विद्धं स्याद्भोक्तव्यं वासरे तव ॥ ३२ ॥
त्वत्प्रिया च मया कार्य्या द्वादशी व्रतसंयुता ॥
भक्तिर्भागवतानां च कार्य्या प्राणैर्द्धनैरपि ॥॥ ३३ ॥
नित्यं नामसहस्रं तु पठनीयं तव प्रियम् ॥
पूजा तु तुलसीपत्रैर्मया कार्या सदैव हि ॥ ३४ ॥
तुलसीकाष्ठसंभूता माला धार्य्या सदा मया ॥
नृत्यं गीतं च कर्त्तव्यं संप्राप्ते जागरे तव ॥ ३५ ॥
द्वारकायां प्रकर्त्तव्यं प्रत्यहं गमनं मया ॥
त्वत्कथाश्रवणार्थं च नित्यं पुस्तकवाचनम् ॥ ३६ ॥
नित्यं पादोदकं मूर्ध्ना मया धार्यं सुभक्तितः ॥
नैवेद्यभक्षणं चैव करिष्यामि सुभक्तितः ॥ ३७ ॥
निर्माल्यं शिरसा धार्य्यं त्वदीयं सादरं मया ॥
तव दत्त्वा यदिष्टं तु भक्षणीयं सदा मया ॥ ३८ ॥
तथा तथा प्रकर्त्तव्यं येन तुष्टिर्भवेत्तव ॥
तथ्यमेतन्मया कृष्ण तवाग्रे परिकीर्तितम् ॥ ३९ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
साधुसाधु महाभाग चन्द्रशर्मन्द्विजोत्तम ॥
आगमिष्यंति मल्लोके त्वया सह पितामहाः ॥ 7.4.24.४० ॥
पश्य प्रेतत्वनिर्मुक्ता मत्प्रसादाद्द्विजोत्तम ॥
आकाशे गरुडारूढास्तव पूर्वपितामहाः ॥ ४१ ॥
॥ पितामहा ऊचुः ॥ ॥
त्वत्प्रसादाद्वयं पुत्र मुक्तिं प्राप्ता न संशयः ॥
प्रेतयोनेर्विनिर्मुक्ताः कृष्णवक्त्रावलोकनात् ॥ ४२.॥
धन्यास्ते मानुषे लोके पुत्रपौत्रप्रपौत्रकाः ॥
दृष्ट्वा श्रीसोमनाथं तु कृष्णं पश्यंति द्वारकाम् ॥ ४३ ॥
धन्या च विधवा नारी कृष्णयात्रां करोति या ॥
उद्धरिष्यति लोकेऽस्मिन्कुलानां निरयाच्छतम् ॥ ४४ ॥।
श्वपचोऽपि करोत्येवं यात्रां च हरिशांकरीम्॥
स याति परमां मुक्तिं पितृभिः परिवारितः ॥ ४५ ॥
यः पुनस्तीर्थसंन्यासं कृत्वा तिष्ठति तत्र वै ॥
विष्णुलोकान्निवृत्तिर्न कल्पकोटिशतैरपि ॥४६॥
वंचितास्ते न सन्देहो दृष्ट्वा सोमेश्वरं प्रभुम् ॥
दृष्टं कृष्णमुखं नैव न स्नाता गोमतीजले ॥ ४७ ॥
किं जलैर्बहुभिः पुण्यैस्तीर्थकोटिसमुद्भवैः ॥
दृष्ट्वा सोमेश्वरं यस्तु द्वारकां नैव गच्छति ॥
धिक्कुर्वंति च तं पापं पितरो दिवि संस्थिताः ॥ ४८ ॥
दृष्ट्वा सोमेश्वरं देवं कृष्णं दृष्ट्वा पुनः शिवम्॥
सौपर्णे कथितं पुण्यं यात्राशतसमुद्भवम् ॥ ४९ ॥
दृष्ट्वा सोमेश्वरं देवं कृष्णं नैव प्रपश्यति ॥
मोहाद्व्यर्थगतं तस्य सर्वं संसारकर्म वै ॥ 7.4.24.५० ॥
आगत्य यः प्रभासे च कृष्णं पश्यति वै नरः ॥
प्रभासायुतसंख्यं तु फलमाप्नोति यत्नतः ॥ ५१ ॥
यस्मात्सर्वाणि तीर्थानि सर्वे देवास्तथा मखाः ॥
द्वारकायां समायांति त्रिकालं कृष्णसंनिधौ ॥ ५२ ॥
तीर्थैर्नानाविधैः पुत्र तत्स्थानैः किं प्रयोजनम् ॥
फलं समस्ततीर्थानां दृष्ट्वा द्वारवतीं लभेत् ॥ ५३ ॥
हते कंसे जरासन्धे नरके च निपातिते ॥
उत्तारिते भुवो भारे कृष्णो देवकिनंदनः ॥
चक्रे द्वारवतीं रम्यां सन्निधौ सागरस्य च ॥ ५४ ॥
स्थितः प्रीतमनाः कृष्णो लप्स्यते कामिनीसुखम् ॥ ५५ ॥
ब्रह्माग्निवायुसूर्याश्च वासवाद्या दिवौकसः ॥
मर्त्त्या विप्राश्च राजानः पातालात्पन्नगेश्वराः ॥ ५६ ॥
नद्यो नदाश्च शैलाश्च वनान्युपवनानि च ॥
पुरग्रामा ह्यरण्यानि सागराश्च सरांसि च ॥ ५७ ॥
यक्षाश्चासुरगंधर्वाः सिद्धा विद्याधरास्तथा ॥
रम्भाद्यप्सरसश्चैव प्रह्लादाद्या दितेः सुताः ॥
रक्षा विभीषणाद्याश्च धनदो रक्ष नायकः ॥ ५८ ॥
ऋषयो मुनयः सिद्धाः सनकाद्याश्च योगिनः ॥
ग्रहा ऋक्षाणि योगाश्च ध्रुवः परमवैष्णवः ॥ ५९ ॥
यत्किंचित्त्रिषु लोकेषु तिष्ठते स्थाणुजंगमम् ॥
श्रीकृष्णसन्निधौ नित्यं प्रत्यहं तिष्ठते सदा ॥ 7.4.24.६० ॥
न त्यजंति पुरीं पुण्यां द्वारकां कृष्णसेविताम् ॥
सा त्वया सेविता पुत्र सांप्रतं कृष्णदर्शनात् ॥
पिशाचयोनिनिर्मुक्ता यास्यामः परमां गतिम् ॥ ६१ ॥
द्वादशीवेधजंपापं द्वारकायाः प्रभावतः ॥
नष्टं पुत्र न सन्देहः संप्राप्ताः परमं पदम् ॥ ६२ ॥
द्वादशीवेधसम्भूतं यत्त्वया पापमर्जितम् ॥
कृष्णस्य दर्शनात्क्षीणं न जह्यं द्वादशीव्रतम् ॥ ६३ ॥
रक्षणीयं प्रयत्नेन वेधो दशमिसम्भवः ॥
नो चेत्पुत्र न संदेहः प्रेतयोनिमवाप्स्यसि ॥ ६४ ॥
त्रैलोक्य संभवं पापं तेषां भवति भूतले॥
सशल्यं ये प्रकुर्वंति वासरं कृष्णसंज्ञकम्॥६५॥
प्रायश्चित्तं न तस्यास्ति सशल्यं वासरं हरेः ॥
ये कुर्वंति न ते यांति मन्वतरशतैर्दिवम् ॥ ६६ ॥
प्रेतत्वं दुःसहं पुत्र दुःसहा यमयातना ॥
तस्मात्पुत्र न कर्त्तव्यं सशल्यं द्वादशीव्रतम् ॥ ६७ ॥
कारयंति हि ये त्वज्ञाः कूटयुक्ताश्च हेतुकाः ॥
प्रेतयोनिं प्रयास्यंति पितृभिः सह सर्वतः ॥ ६८ ॥
द्वादशी दशमीविद्धा संतानप्रविनाशिनी ॥
ध्वंसिनी पूर्वपुण्यानां कृष्णभक्तिविनाशिनी ॥६९॥
स्वस्ति तेऽस्तु गमिष्यामः प्रसादाद्रुक्मिणीपतेः ॥
प्राप्तं विष्णुपदं पुत्र अपुनर्भवसंज्ञकम् ॥7.4.24.७०॥ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
चंद्रशर्मन्प्रसन्नोऽहं तव भक्त्या द्विजोत्तम ॥
शैवभावप्रपन्नोऽपि यस्त्वं जातोऽसि वैष्णवः ॥ ७१ ॥
नवसप्ततिवर्षाणि न कृतं वासरे मम ॥
संपूर्णं मत्प्रसादेन तव जातं न संशयः ॥७२॥
एकेनैवोपवासेन त्रिस्पृशासंभवेन हि ॥
द्वारकायाः प्रसादेन मद्दृष्ट्यालोकनेन हि ॥ ७३ ॥
अविद्यामोहितेनैव शिवभक्त्या ममार्चनम् ॥
न कृतं मत्प्रसादेन कृतं चैव भविष्यति ॥ ७४ ॥
वैशाखे यैरहं दृष्टो द्वारकायां द्विजोत्तम ॥
त्रिस्पृशावासरे चैव वंजुलीवासरे तथा ॥ ७५ ॥
उन्मीलिनीदिने प्राप्ते प्राप्ते वा पक्षवर्द्धिनी ॥
नैतेषां चापराधोऽस्ति यद्यपि ब्रह्मघातकाः ॥ ७६ ॥
जन्मप्रभृति पुण्यस्य प्रकृतस्यापि भूसुर ॥
मत्पुरीदर्शनेनापि फलभागी भवेन्नरः ॥ ७७ ॥
दृष्ट्वा समस्ततीर्थानि प्रभासादीनि भूतले ॥
मत्पुरीदर्शनेनैव पृष्ट्वाऽपीह भवेत्फलम् ॥ ७८ ॥
माहात्म्यं द्वारकायास्तु मद्दिने यत्र तत्र वा ॥
पठेन्मम पुरीं पुण्यां लभते मत्प्रसादतः ॥ ७९ ॥
मत्पुरीं वसतां पुण्यं त्रिकालं मम दर्शनात् ॥
तत्फलं समवाप्नोति यस्त्विदं पठते कलौ ॥ 7.4.24.८० ॥
कलौ काशी च मथुरा ह्यवंती च द्विजोत्तम ॥
अयोध्या च तथा माया कांची चैव च मत्पुरी ॥ ८१ ॥
शालिग्रामभवं चैव बदरी च तथोत्तमा ॥
कुरुक्षेत्रं भृगुक्षेत्रं पुष्करं शुभसंज्ञकम् ॥८२॥
प्रयागं च प्रभासं च क्षेत्रं वै हाटकेश्वरम् ॥
गंगाद्वारं शौकरं च गंगासागरसंगमम् ॥ ८३ ॥
नैमिषं दण्डकारण्यं तथा वृन्दावनं द्विज ॥
सैंधवं चार्बुदाख्यं च सर्वाण्यायतनानि च ॥ ८४ ॥
वनानि मागधादीनि पुष्कराणि द्विजोत्तम ॥
शैलराजादयः शैला हिमाद्रिप्रमुखा हि ये ॥ ८५ ॥
गंगादयश्च सरितो भूतले संति यानि वै ॥
तीर्थानि त्रिषु कालेषु समानि द्वारकापुरः ॥ ८६ ॥
कलिना कलितं सर्वं वर्जयित्वा तु मत्पुरीम् ॥
विप्र वर्षशते प्राप्ते मत्पुर्यां मम दर्शने ॥ ८७ ॥
तव मृत्युर्महीदेव मत्प्रसादाद्भविष्यति ॥
त्रिस्पृशावासरे प्राप्ते वैशाखे शुक्लपक्षतः ॥ ८८ ॥
संगमे बुधवारस्य दिवा भूमौ ममाग्रतः ॥
दशमं द्वारमासाद्य तव प्राणस्य निर्गमम् ॥
भविष्यति न संदेहो मत्प्रसादेन भूसुर ॥ ८९ ॥
स्वस्थानं गच्छ विप्रेंद्र सर्वान्कामानवाप्स्यसि ॥
मद्भक्तानां युगांतेऽपि विनाशो नोपपद्यते ॥ 7.4.24.९० ॥
मद्भक्तिं वहतां पुंसामिह लोके परेऽपि वा ॥
नाशुभं विद्यते किंचित्कुलकोटिं नयेद्दिवम् ॥ ९१ ॥
॥ मार्कण्डेय उवाच ॥ ॥
ततो वर्षशते प्राप्ते गत्वा द्वारवतीं पुरीम् ॥
प्राणान्कृष्णोपदेशेन त्यक्त्वा मोक्षं जगाम ह ॥ ९२॥
इन्द्रद्युम्न तदाख्यातं माहात्म्यं द्वारकाभवम् ॥
पुनरेव् प्रवक्ष्यामि यत्ते मनसि वर्त्तते ॥ ९३ ॥
शृण्वतां पठतां चैव माहा त्म्यं द्वारकाभवम् ॥
सर्वं फलमवाप्नोति कृष्णेन कथितं च यत् ॥ ९४ ॥
विस्तारयंति लोकेऽस्मिँल्लिखितं यस्य वेश्मनि ॥
प्रत्यक्षं द्वारकापुण्यं प्राप्यते कृष्णसंभवम् ॥ ९५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकाखण्डे चन्द्रशर्मोपाख्याने चन्द्रशर्मणो द्वारकागमनपूर्वक कृष्णदत्तवरग्रहणादि द्वारकानगरीश्रैष्ठ्यमाहात्म्यवर्णनंनाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥