स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः १९

विकिस्रोतः तः

॥ प्रह्लाद उवाच ॥ ॥
तच्छ्रुत्वा देवदेवेशश्चिंतयित्वा पुनःपुनः ॥ उवाच वचनं तत्र दुर्वाससमकल्मषम् ॥ १॥
॥ श्रीभगवानुवाच ॥ ॥
पराधीनोऽस्मि विप्रेन्द्र भक्त्या क्रीतोऽस्मि नान्यथा ॥
बलेरादेशकारी च दैत्येन्द्रवशगो ह्यहम्॥ २ ॥
तस्मात्प्रार्थय विप्रेन्द्र दैत्यं वैरोचनिं बलिम्॥
अस्यादेशात्करिष्यामि यदभीष्टं तवाधुना ॥ ३ ॥
तच्छ्रुत्वा वचनं विप्रो बलिं प्रोवाच सत्वरम् ॥
यज्वनां त्वं वरिष्ठश्च दातॄणां त्वं मतोऽधिकः ॥ ४ ॥
पारावारः कृपायाश्च दयां कुरु ममोपरि ॥
प्रेषयस्व महाभाग देवं दैत्यविनिग्रहे ॥ ५ ॥
संपूर्णनियमः स्नातस्त्वत्प्रसादाद्भवाम्यहम्॥
तच्छुत्वा वचनं दैत्यो नातिहृष्टमनास्तदा ॥
दुर्वाससमुवाचेदं नैतदेवं भविष्यति ॥ ६ ॥
अन्यत्प्रार्थय विप्रेन्द्र यत्ते मनसि वर्त्तते ॥
तद्दास्यामि न सन्देहो यद्यपि स्यात्सुदुर्लभम् ॥ ७ ॥
आत्मानमपि दास्यामि नाहं त्यक्ष्ये हरिं द्विज ॥
बहुभिः सुकृतैः प्राप्तं कथं त्यक्ष्यामि केशवम् ॥ ८ ॥
॥ दुर्वासा उवाच ॥ ॥
नातिलुब्धं हि मां विद्धि किमन्यत्प्रार्थयाम्यहम् ॥
रक्ष मे जीवितं दैत्य प्रेषयस्व जनार्द्दनम् ॥ ९ ॥
॥ बलिरुवाच ॥ ॥
जानासि त्वं यथा विप्र हिरण्याक्षं निपातितम् ॥
भूत्वा यज्ञवराहस्तु दधारोर्वीं बलाद्दिवि ॥ 7.4.19.१० ॥
यथा च दैत्यप्रवरमवध्यं दैत्यदानवैः ॥
हतवान्हिरण्यकशिपुं नृसिंहः सर्वगः प्रभुः ॥ ११ ॥
तथैव वृत्रं नमुचिं रक्षो लंकेश संज्ञकम् ॥
जघान मायया विष्णुः सुरार्थं सुरसत्तमः ॥ १२ ॥
प्रथमं वामनो भूत्वा ह्ययाचत पदत्रयम् ॥
पुनस्त्रिविक्रमो भूत्वा भुवनानि जहार मे ॥ १३ ॥
मया पुण्यवशाद्विष्णुर्यदि प्राप्तः कथञ्चन ॥
नाहं त्यक्ष्ये जगन्नाथं मायावामनकं प्रभुम् ॥ १४ ॥
॥ दुर्वासा उवाच ॥ ॥
नाहं भोक्ष्ये विना स्नानं गोमत्युदधिसंगमे ॥
यदि न प्रेष्यसि हरिं ततस्त्यक्ष्ये कलेवरम् ॥ १५ ॥
॥ बलिरुवाच ॥ ॥
यद्भाव्यं तद्भवतु ते यज्जानासि तथा कुरु ॥
ब्रह्मरुद्रेन्द्रनमितं नाहं त्यक्ष्ये पदद्वयम् ॥ १६ ॥
तदा विवदमानौ तौ दृष्ट्वा स जगदीश्वरः ॥
ब्रह्मण्यदेवः कृपया ब्राह्मणं तमुवाच ह ॥ १७ ॥
स्वस्थो भव द्विजश्रेष्ठ स्नापयिष्ये न संशयः ॥
हत्वा दैत्यगणान्सर्वान्गोमत्युदधिसंगमे ॥ १८ ॥
॥ प्रह्लाद उवाच ॥ ॥ ।
श्रुत्वा भगवतो वाक्यं ब्राह्मणं प्रति दैत्यराट् ॥
दृढं जग्राह चरणौ पतित्वा पादयोस्तदा ॥ १९ ॥
ततः समृद्धिमगमत्पादौ दत्त्वा बलेः प्रभुः ॥
शंखचक्रगदापाणिर्विष्णुर्दुर्वाससाऽन्वितः ॥ 7.4.19.२० ॥
प्रस्थितौ तौ तदा दृष्ट्वा दुर्वाससजनार्द्दनौ ॥
अनन्तः पुरुषो ऽगच्छन्मुशली च हलायुधः ॥ २१ ॥
मुशली चाग्रतोऽगच्छत्ततो विष्णुस्त्रिविक्रमः ॥
तयोरन्वगमद्विप्रा दुर्वासा भूतलाद्बहिः ॥ २२ ॥
भित्त्वा रसातलं सर्वे समुत्तस्थुस्त्वरान्विताः ॥
आविर्बभूवुस्तत्रैव गोमत्युदधिसंगमे ॥ २३ ॥
सन्नद्धौ दृढधन्वानौ संकर्षणजनार्दनौ ॥
ऊचतुस्तौ तदा विप्रं कुरु स्नानं यदृच्छया ॥ २४ ॥
तयोस्तु वचनं श्रुत्वा स्नानं चक्रे त्वरान्वितः ॥
स्नात्वा चावश्यकं कर्म कर्तुमारभत द्विजः ॥ २५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थे कृष्णबलरामदुर्वासससमागमपूर्वकं दुर्वाससः स्नानाद्याह्निकविधिविधान- वर्णनंनामैकोनविंशतितमोऽध्यायः ॥ ॥ १९ ॥