स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः १८
॥ श्रीप्रह्लाद उवाच ॥ ॥
पूजयेद्गणनाथं तं रुक्मिणं रुक्मभूषितम् ॥
दुर्वाससं च कृष्णं च बलभद्रं च भक्तितः ॥ १ ॥
यजत्येको महायज्ञैः संपूर्णवरदक्षिणैः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥ २ ॥
वापीकूपतडागानि करोत्येकः समाहितः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥ ३ ॥
गोभूतिलहिरण्यादि ददात्येको दिनेदिने ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥ ४ ॥
प्राणायामादिसंयुक्तो जपध्यानपरायणः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥ ५ ॥
जाह्नव्यादिषु तीर्थेषु सुस्नात्वैकः समाहितः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ ॥६॥
त्रिभिर्विक्रमणैर्येन विक्रांतं भुवनत्रयम् ॥
त्रिविक्रमं च तं दृष्ट्वा मुच्यते पातकत्रयात् ॥ ७ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं त्रैविक्रमी मृर्त्तिरागतेयं धरातले ॥
कलान्यासाच्च कृष्णत्वं कदेयं प्राप्तवत्यथ ॥ ८ ॥
दैत्य संशयमस्माकं छेत्तुमर्हस्यशेषतः ॥
दुर्वाससश्च कृष्णस्य संभवः कथ्यतामिति ॥ ९ ॥
॥ प्रह्लाद उवाच ॥ ॥
तच्छ्रूयतां द्विजश्रेष्ठा यथा मूर्त्तिस्त्रिविक्रमी ॥
दुर्वाससा समायुक्ता संभूता धरणीतले ॥ 7.4.18.१० ॥
पूर्वं कृतयुगस्यांते बलिना च पुरंदरः ॥
निर्जित्य भ्रंशितः स्थानात्तदर्थं मधुसूदनः ॥ ॥ ११ ॥
कश्यपाद्वामनो जज्ञे ततोऽभूच्च त्रिविक्रमः ॥
त्रिभिः क्रमैर्मिताँल्लोकानाक्रम्य मधुहा हरिः ॥ १२ ॥
बलिं चकार भगवान्पातालतलवासि नम् ॥
भक्त्या त्वनन्यया कृष्णो दैत्येन परितोषितः ॥ १३ ॥
स्वयं चैवाऽवसत्तत्र भक्त्या क्रीतो हरिस्तदा ॥
अनुग्रहाय भगवान्द्वारपालो बभूव ह ॥१४॥
दुर्वासाश्चापि भगवानात्रेयो मुनिसत्तमः॥
अटंस्तीर्थानि मोक्षार्थं मुक्तिक्षेत्रमचिंतयत् ॥१५॥
एवं चितयमानः स ज्ञानदृष्ट्या महामुनिः॥
गोमत्या संगमो यत्र चक्रतीर्थेन भो द्विजाः ॥ १६ ॥
तन्मुक्तिक्षेत्रमाज्ञाय गमनाय मतिं दधे ॥
सोतीत्य नगरग्रामानुद्यानानि वनानि च ॥ १७ ॥
आनर्त्तविषयं प्राप्य दैत्यभूमिं विवेश ह ॥
निःस्वाध्यायवषट्कारां वेदध्वनिविवर्ज्जिताम् ॥१८॥
कुशेन दैत्यराजेन सेवितां पालितां तथा ॥
बहुम्लेच्छ समाकीर्णामधर्मोपार्जकैर्जनैः ॥ १९ ॥
प्रत्यासन्नामिति ज्ञात्वा चक्रतीर्थमगाद्द्विजः ॥
स्नात्वा च संगमे पुण्ये मोक्ष्येऽहं च कृताह्निकः ॥ 7.4.18.२० ॥
इति कृत्वा स नियमं ययौ शीघ्रं मुनिस्तदा ॥
स्नात्वा शीघ्रं प्रयास्यामि दैत्यभूमिं विहाय च॥२१॥
इत्येवं चिंतयन्मार्गे शीघ्रमेव जगाम सः॥
दृष्ट्वा च संगमं पुण्यं गोमत्या सागरस्य च ॥ २२ ॥
निधाय वाससी तत्र मृदमालभ्य गोमयम् ॥
शिखां च बद्ध्वा करयोः कृत्वा च नियतः कुशान् ॥ ॥ २३ ॥
यावत्स्नाति च विप्रोऽसौ दृष्टो दैत्यैर्दुरात्मभिः ॥
ब्रुवंतः कोऽयमित्येवं हन्यतांहन्यतामिति ॥२४॥
अस्माभिः पालिते देशे कः स्नाति मनुजाधमः ॥
ब्रुवंत इति जघ्नुस्ते जानुभिर्मुष्टिभिस्तथा ॥ २५ ॥
ब्राह्मणोऽहं न हंतव्यः श्रुत्वा चाऽतीव पीडितः ॥
तं दृष्ट्वा हन्यमानं तु ब्राह्मणं तैर्दुरात्मभिः ॥ २६ ॥
निवारयामास च तान्रुरुर्नाम महासुरः ॥
जगृहुस्तस्य वस्त्राणि कुशांस्ते चिक्षिपुर्जले ॥ २७ ॥
चकर्षुश्चरणौ गृह्य शपंतो दुष्टचेतसः ॥
पदे गृहीत्वा तमृषिं नीत्वा सीम्नि व्यसर्जयन् ॥ २८ ॥
तं तदा मूर्छितप्रायं दृष्ट्वोचुः कुपिताश्च ते ॥
अत्रागतो यदि पुनर्हनिष्यामो न संशयः ॥
आनर्त्तविषयांस्तान्वै दृष्ट्वा तत्र जलाशयम् ॥ २९ ॥
प्राणसंशयमापन्नस्ततश्चिंतापरोऽभवत् ॥
शप्येहं यदि दैतेयांस्तपसः किं व्ययेन मे ॥ 7.4.18.३० ॥
अथवा नियमभ्रष्टस्त्यक्ष्ये चेदं कलेवरम् ॥
मम पक्षं च कः कुर्य्यात्को मे दास्यति जीवितम् ॥ ३१ ॥
चक्रतीर्थे च कः स्नानं कारयिष्यति मामिह ॥
को वा दैत्यगणानेताञ्छक्तो जेतुं महामृधे ॥
तं विना पुण्डरीकाक्षं भक्तानामभयप्रदम् ॥ ३२ ॥
ब्रह्मादीनां च नेतारं शरणागतवत्सलम् ॥
चक्रहस्तं विना मेद्य कोन्यः शर्म्मप्रदो भवेत् ॥ ३३ ॥
इति ध्यात्वा च सुचिरं ज्ञात्वा पातालवासि नम् ॥
आत्रेयो विष्णुशरणं जगाम धरणीतलम् ॥ ३४ ॥
उपवासैः कृशो दीनो भूतलं प्रविवेश ह ॥
स दैत्त्यराजभवनं गन्धर्वाप्सरसावृतम् ॥ ॥ ३५ ॥
शोभितं सुरमुख्येन विष्णुना प्रभविष्णुना ॥
दुर्वासाः प्रविवेशाथ प्रहृष्टेनांतरात्मना॥ ३६ ॥
दुर्वाससमथायांतं दृष्ट्वा दैत्यपतिस्तदा ॥
प्रत्युत्थायार्हयांचक्रे स्वासने संन्यवेशयत् ॥३७॥
मधुपर्कं च गां चैव दत्त्वार्घ्यं पार्श्वतः स्थितः ॥
प्रोवाच प्रणतो ब्रह्मन्कथमत्रागतो भवान् ॥३८॥
सुखोपविष्टः स ऋषिस्तत्रापश्यत्त्रिविक्रमम् ॥
दैत्येन्द्रद्वारदेशे तु तिष्ठन्तमकुतोभयम् ॥ ३९ ॥
तं दृष्ट्वा देवदेवेशं श्रीवत्सांकं चतुर्भुजम् ॥
रुरोद स ऋषिश्रेष्ठस्त्राहित्राहीत्युवाच च ॥ 7.4.18.४० ॥
संसारभयभीतानां दुःखितानां जनार्दन ॥
शत्रुभिः परिभूतानां शरणं भव केशव ॥ ४१ ॥
मम दुःखाभितप्तस्य शत्रुभिः कर्षितस्य च ॥
पराभूतस्य दीनस्य क्षुधया पीडितस्य च ॥ ४२ ॥
अपूर्णनियमस्याऽथ क्लेशितत्य च दानवैः ॥
ब्रह्मण्यदेव विप्रस्य शरणं भव केशव ॥ ४३ ॥
इत्युक्त्वा दर्शयामास शरीरं दैत्यताडितम् ॥
तद्ब्राह्मणावमानं च दृष्ट्वा चुक्रोध वामनः ॥ ४४ ॥
केनापमानितो ब्रह्मन्नियमः केन खण्डितः ॥
कथयस्व महाभाग धर्मपाले मयि स्थिते ॥ ४५ ॥
॥ दुर्वासा उवाच ॥ ॥
मुक्तितीर्थमहं ज्ञात्वा ज्ञानेन मधुसूदन ॥
चक्रतीर्थं गतः स्नातुं यात्रायां हर्षसंयुतः ॥ ४६ ॥
अकृतस्नान एवाऽहं दृष्टो दैत्यैर्दुरासदैः ॥
गले गृहीतः कृष्णाहं मुष्टिभिस्ताडितस्तथा ॥ ४७ ॥
बलाद्गृहीत्वा वासांसि कुशांश्चैवाक्षतैः सह ॥
जले क्षिप्त्वा चरणयोर्गृहीत्वा मां समाकृषन् ॥ ४८ ॥
सीमांते मां तु प्रक्षिप्य प्रोचुस्ते दानवाधमाः ॥
हनिष्यामो यदि पुनरागंतासि न संशयः ॥ ४९ ॥
स्नातोऽहं चक्रतीर्थे तु करिष्ये भोजनं विभो ॥
तस्मात्स्नापय गोविंद नियमं सफलं कुरु ॥ 7.4.18.५० ॥
तव प्रसादात्स्नात्वाऽहं भुक्त्वा च प्रीतमानसः ॥
प्रतिज्ञां सफलां कृत्वा विचरिष्ये महीमिमाम् ॥ ५१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थमाहात्म्ये राक्षसकृतदुर्वासःपराभववृत्तान्तवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥