स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः १५
॥ प्रह्लाद उवाच । ॥
श्रुत्वा तमागतं देवं ब्रह्माणं पितरं स्वकम् ॥
सनकाद्या नमस्कर्त्तुं जग्मुः सर्वे पितामहम् ॥१॥
तं दृष्ट्वा लोककर्त्तारं दण्डवत्प्रणताः क्षितौ ॥
ततो दृष्ट्वा स तनयान्संगृह्य परिषस्वजे ॥२॥
पृष्टश्चानामयं तैस्तु पृष्ट्वा तान्समुवाच ह ॥
आराधितो यैर्भगवान्धन्या यूयं वयं तथा ॥ ३ ॥
संसिद्धिं परमां याता भगवद्दर्शनेन हि ॥
न ज्ञातं पुत्रकाः सम्यगज्ञानाद्बालबुद्धिभिः ॥ ४ ॥
येनार्चितो महादेवस्तस्य तुष्यति केशवः ॥
अनर्चिते नीलकण्ठे न गृह्णात्यर्चनं हरिः ॥
तस्मात्सर्वप्रयत्नेन पूज्यतां नीललोहितः॥ ५॥
येन संपूर्णतां याति कृष्णपूजा कृता सदा॥
तच्छ्रुत्वा वचनं तस्या ब्रह्मपुत्रा ययुस्तदा॥ ६॥
देवागाराग्रतो गत्वा योगसिद्धा महर्षयः॥
लिंगं संस्थापयामासुः शिवभक्तिपुरस्कृता॥ ७॥
संस्थाप्य शिवलिंगं ते स्नानार्थं मुनिसत्तमाः॥
कूपं चक्रुस्ततः सर्व ऋषयः संशितव्रताः ॥ ८ ॥
दृष्ट्वा तममृतप्रख्यं जलपूर्णं सुनिर्मलम् ॥
संहृष्टा ऋषयः सर्वे साधुसाध्विति चाब्रुवन् ॥ ९ ॥
स्थापितं शिवलिंगं च दृष्ट्वा लोकपितामहः ॥
उवाच वचनं ब्रह्मा प्रीतः पुत्रांस्तदा द्विजाः ॥ 7.4.15.१० ॥
॥ ब्रह्मोवाच ॥ ॥
भवद्भिर्योगसंसिद्धैर्यस्मात्संस्थापितः शिवः ॥
तस्मात्सिद्धेश्वर इति ख्यातिं लोके गमिष्यति ॥ ११ ॥
समीपे शितिकण्ठस्य कूपोयमृषिभिः कृतः ॥
ऋषितीर्थमिति ख्यातं तस्माल्लोके भविष्यति। ॥ १२ ॥
विना श्राद्धेन विप्रेन्द्रा दानेन पितृतर्पणात् ॥
भक्तितः स्नानमात्रेण पितृभिः सह मुच्यते ॥ १३ ॥
असत्यवादिनो ये च परनिन्दा परायणाः ॥
स्नानमात्रेण शुध्यन्ति ऋषितीर्थे न संशयः ॥ १४ ॥
स्नानं प्रशस्तं विषुवे मन्वादिषु तथैव च ॥
तथा कृतयुगाद्यायां माघस्य द्विजसत्तमाः ॥ १५ ॥
शिवरात्रौ वसेद्यस्तु लिंगे सिद्धेशसंज्ञिते ॥
स्नात्वा ऋषिकृते तीर्थे किं तस्यान्येन वै द्विजाः ॥
गत्वा तत्र महाभागा गृहीत्वा फलमुत्तमम् ॥ १६ ॥
अर्घ्यं दत्त्वा विधानेन कृत्वा च करयोः कुशान् ॥
गृह्णंत्वर्घ्यमिमं देवा योगसिद्धा महर्षयः ॥ १७ ॥
ऋषितीर्थे च पापघ्ने सिद्धेश्वरसमन्विते ॥
दत्त्वार्घ्यं मृदमालभ्य स्नानं कुर्यात्समाहितः ॥१८॥
तर्पयेच्च पितॄन्देवान्मनुष्यांश्च यथाक्रमम् ॥
ततः श्राद्धं प्रकुर्वीत पितॄणां श्रद्धयाऽन्वितः ॥ १९ ॥
तथा च दक्षिणां दद्याद्वित्तशाठ्यविवर्जितः ॥
विशेषतः प्रदेयानि फलानि रसवंति च ॥ 7.4.15.२० ॥
दद्याच्छयामाकनीवारान्विद्रुमं चाजिनानि च ॥
सप्तधान्यानि शालींश्च सक्तूंश्च गुडसंयुतान् ॥ २१ ॥
गंधमाल्यानि तांबूलं वस्त्राणि च तथा पयः ॥
एवं कृत्वा समग्रं च कृतकृत्यो भवेन्नरः ॥ २२ ॥
पूजयित्वा महादेवं सिद्धेश्वरमुमापतिम् ॥
सफलं जन्म मर्त्यस्य जीवितं च सुजीवितम् ॥ २३ ॥
यः स्नात्वा ऋषितीर्थे तु पश्येत्सिद्धेश्वरं शिवम् ॥
पितरस्तस्य तुष्यन्ति तुष्यन्ति च पितामहाः ॥ २४ ॥
अपुत्रा पुत्रिणः स्युस्ते पुत्रिणश्चापि पौत्रिणः ॥
निर्धना धनवंतश्च सिद्धेश्वररता नराः ॥ २५ ॥
दुष्कृतं याति विलयं सुकृतं च विवर्द्धते ॥
भवेन्मनोरथावाप्तिः प्रणते सिद्धनायके ॥ २६ ॥
ऋषितीर्थे नरः स्नात्वा दृष्ट्वा सिद्धेश्वरं हरम् ॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ २७ ॥
शिवरात्र्यां विशेषेण सिद्धेशः संप्रपूजितः ॥
यंयं कामयते कामं तं ददाति न संशयः ॥
चिन्तामणिसमः स्वामी ह्यथवा चाक्षयो निधिः ॥२८॥
श्रुत्वाध्यायमिमं पुण्यं सर्वाघहरणं परम् ॥
प्रयाति परमं स्थानं मानवः श्रद्धयान्वितः॥२९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारका माहात्म्य ऋषितीर्थसिद्धेश्वरमाहात्म्यवर्णनंनाम पञ्चदशोऽध्यायः॥१५॥