स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः १४
॥ श्रीप्रह्राद उवाच ॥ ॥
संत्यनेकानि तीर्थानि बह्वाश्चर्यकराणि च ॥
प्राप्ते कलियुगे घोरे तानि पुप्लुविरेर्णवे ॥ १ ॥
उद्देशतो मया विप्राः कीर्त्यमाना निबोधत ॥
संक्षेपतो विप्रवरा यथा तेषां च याः क्रियाः ॥ २ ॥
संहृत्य च भुवो भारं साधू न्संस्थाप्य सत्पथे ॥
द्वारवत्यामगात्कृष्णो वृष्णिसंघैः समावृतः ॥ ३ ॥
दर्शनार्थं तदा ब्रह्मा दैवतैः परिवारितः ॥
वरुणो यमवित्तेशौ सूर्य्याचन्द्रमसौ तथा ॥ ४ ॥
आगत्य सह कृष्णेन कार्यं संसाध्य चात्मनः ॥
वेधाश्चक्रे तदा तीर्थं स्वनाम्ना कीर्तितं भुवि ॥ ५ ॥
ब्रह्मकुण्डमिति ख्यातं सर्वपापहरं शुभम् ॥
तत्तीरे स्थापयामास सहस्रकिरणं प्रभुम् ॥ ६ ॥
मूलं सुराणां हि किल ब्रह्मा लोकपितामहः ॥
तेन संस्थापितं यस्मान्मूल स्थानमिति स्मृतम् ॥ ७ ॥
ब्रह्मतीर्थं तु तद्दृष्ट्वा चन्द्रश्चक्रे ततः सरः ॥
तडागं चन्द्रनाम्ना वै सर्वपापप्रणाशनम् ॥ ८ ॥
तं दृष्ट्वा तेजसा युक्तं संहृष्टाः सुरसत्तमाः ॥
ऊचुस्ते लोकस्रष्टारं शृणुष्व वचनं हि नः ॥ ९ ॥
योऽत्र स्नानं प्रकुरुते पितॄन्संतर्पयिष्यति ॥
पूजयिष्यति देवेशं मूलस्थानं सुरर्षभ ॥ 7.4.14.१० ॥
सर्वपापविनिर्मुक्तो धनधान्यसमन्वितः ॥
सप्तम्यां माघमासस्य शुक्लपक्षे द्विजर्षभाः ॥
योऽत्र स्नानं प्रकुरुते मानवो भक्तिसंयुतः ॥ ११ ॥
मूलस्थानं च देवेश संस्नाप्य प्रविलेपयेत् ॥
पूजयिष्यति वस्त्राद्यैः स्वशक्त्या भूषणैस्तथा ॥ १२ ॥
पुष्पधूपादिभिश्चैव नैवेद्येन च मानवः ॥
सर्वान्कामानवाप्नोति ब्रह्मलोकं स गच्छति ॥ १३ ॥
सावित्रीं च ततो दृष्ट्वा ब्रह्मणा स्थापितां च वै ॥
कृत्वा चायतनं दिव्यं स्वां मूर्तिं सन्निवेश्य च ॥
नाम चक्रे तदा देव्याः स्वयं तस्याः पितामहः ॥ १४ ॥
यः पश्यति स्वयं भक्त्या कृष्णं दृष्ट्वा जगत्पतिम् ॥
सावित्रीं स सुखी भूत्वा सर्वान्कामानवाप्नुयात् ॥ १५ ॥
आयुरारोग्यमैश्वर्य्यं पुत्रसन्तानमेव च ॥
न दौर्भाग्यं भवेत्तस्य न दारिद्यं न मूर्खता ॥
न च व्याधिभयं तस्य यः पश्यति विधिं नरः ॥ १६ ॥
गत्वा संस्नापयेद्देवीं कुंकुमेन कुसुंभकैः ॥
संछाद्य वस्त्रैः संपूज्य पुष्पैर्नानाविधै स्तथा ॥ १७ ॥
नैवेद्यफलतांबूलग्रीवासूत्रकदीपकैः ॥
संपूज्य परया भक्त्या यात्रां च सफला लभेत् ॥ १८ ॥
न वैधव्यं न दौर्भाग्यं न वंध्या न मृतप्रजा ॥
विधिर्दृष्टो नरैर्यैस्तु कुले तेषां प्रजायते ॥ १९ ॥
तस्मात्सर्वप्रयत्नेन विधिं पश्येत्सुभावतः ॥
परितुष्टो भवेत्कृष्णो यात्रा च सफला भवेत् ॥ 7.4.14.२० ॥
॥ प्रह्लाद उवाच ॥ ॥
ब्रह्मणा स्थापितं दृष्ट्वा सरः परमशोभनम् ॥
इन्द्रश्चक्रे महाभागः सरः परमशोभनम् ॥ २१ ॥
स्थापयामास देवेशो लिंगमप्रतिमौजसम् ॥
तस्मिन्स्नात्वा च लभते यस्मादिन्द्रपदं नरः ॥ २२ ॥
तस्मादिन्द्रपदं नाम सुप्रसिद्धं धरातले ॥
इन्द्रेण स्थापितं लिंगं यस्माद्भावनया सह ॥
प्रसिद्धमिंद्रनाम्ना वा इन्द्रेश्वरमिति स्मृतम् ॥२३॥
यस्य प्रसिद्धिरतुला वृद्धिलिंगमिति द्विजाः॥
यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः ॥ २४ ॥
पितॄणामक्षया तृप्तिर्जायते द्विजसत्तमाः ॥
अष्टम्यां च चतुर्द्दश्यां स्नात्वा चेन्द्रपदे नरः ॥ २५ ॥
इन्द्रेश्वरं च संपूज्य याति मुक्तिपदं नरः ॥
विशेषतस्तु संपूज्यो मकरस्थे दिवाकरे ॥ २६ ॥
उत्तरायणसंक्रांतौ लिंगपूरणकेन हि ॥
शिवरात्रौ विशेषेण संपूज्य उमया सह ॥
रात्रौ जागरणं कृत्वा परमं लोकमाप्नुयात् ॥ २७ ॥
॥ प्रह्लाद उवाच॥ ॥
ब्रह्मतीर्थं च तद्दृष्ट्वा तथा शक्रसरोभवम् ॥
दर्शयन्विष्णुना सार्द्धमेकरूपत्वमाप्नुयात् ॥ २८ ॥
सरश्चकार देवेशो भगवान्पार्वतीपतिः ॥
सुमृष्टनिर्मलजलं नलिनीदलशोभितम् ॥ २९ ॥
उत्पलैः सर्वतश्छन्नं सरः सारसशोभितम् ॥
तदगाधजलं दृष्ट्वा स्वयमेव पिनाकधृक् ॥
सब्रह्मविष्णुना सार्द्धं स्नातस्तत्र वृषध्वजः ॥ 7.4.14.३० ॥
ते देवास्तत्सरो दृष्ट्वा ब्रह्मविष्णुसुराऽसुराः ॥
ऊचुः सर्वे सुसंहृष्टा वीक्षंतः पार्वतीपतिम् ॥ ३१ ॥
यस्मात्कृतमिदं देवा ईश्वरेण महत्सरः ॥
महादेव सरोनाम सुप्रसिद्धं भविष्यति ॥ ३२ ॥
योऽत्र स्नानं प्रकुरुते पितॄणां तर्पणं तथा ॥
श्राद्धं पितॄणां भक्त्या च स गच्छेत्परमां गतिम् ॥ ३३ ॥
सुप्रसन्ना भविष्यन्ति सर्वे देवा न संशयः ॥
दर्शनात्पापनिर्मुक्तो महादेवसरस्य च ॥ ३४ ॥
महेशस्य च तद्दृष्ट्वा सरः परमशोभनम् ॥
चकार पार्वती तत्र सरश्चाप्रतिमं तथा ॥ ३५ ॥
गौरीसर इति ख्यातं सर्वपापप्रणाशनम् ॥
तत्र स्नात्वा नरो भक्त्या न दुर्गतिमवाप्नुयात् ॥ ३६ ॥
न दौर्भाग्यं स्त्रियश्चैव न वैधव्यं कदाचन ॥
स्नात्वा गौरीतीर्थवरे सर्वान्कामानवाप्नुयात् ॥३७॥
वरुणश्च ततो दृष्ट्वा पुण्यान्यायतनानि च ॥
चकार च सरो दिव्यं विष्णुभक्तिसमन्वितः ॥ ३८ ॥
नाम्ना वरुणपदं तच्च पापक्षयकरं भुवि ॥
नभस्ये पौर्णमास्यां च संतर्प्य पितृदेवताः ॥ ३९ ॥
श्राद्धं कृत्वा विधानेन पितॄणां श्रद्धयान्वितः ॥
उत्तमं लोकमाप्नोति यत्र गत्वा न शोचति ॥ 7.4.14.४० ॥
प्रदद्यादुदकुम्भांश्च दध्योदनसमन्वितान् ॥
गाश्च वासांसि रत्नानि विष्णुर्मे प्रीयतामिति ॥ ४१ ॥
सरो दृष्ट्वा जलेशस्य सरश्चक्रे धनेश्वरः ॥
यक्षाधिपसरोनाम सुप्रसिद्धं धरातले ॥ ४२ ॥
तथा तत्र नरो भक्त्या संपूज्य पितृदेवताः ॥
सर्वान्कामानवाप्नोति दद्याद्वस्त्रद्विजातये ॥ ४३ ॥
॥ प्रह्लाद उवाच ॥ ॥
विष्णुं वरप्रदं श्रुत्वा भ्रातॄणां ब्रह्मनंदनाः ॥
मंदाकिनी वसिष्ठेन समानीता धरातले ॥ ४४ ॥
अम्बरीषादयः सर्व आजग्मुः कृष्णपालिताम्॥
द्वारवत्यां च ते दृष्ट्वा गोमतीं सागरंगमाम् ॥ ४५ ॥
तीर्थानि देवतानां च पुण्यान्यायतनानि च ॥
तीर्थं पंचनदं चक्रुः प्रजानां पतयस्तथा ॥ ४६ ॥
पंच नद्यः समाहूतास्तत्राऽऽजग्मुः सुरान्विताः ॥
मरीचये गोमती च लक्ष्मणा चात्रये तथा ॥ ४७ ॥
चंद्रभागा चांगिरसे पुलहाय कुशावती ॥
पावनार्थं जांबवती जगाम क्रतवे तथा ॥ ४८ ॥
तासु स्नात्वा महाभागा ब्रह्मपुत्रा यशस्विनः ॥
नाम तस्य तदा चक्रुः पंचनद्यश्च तापसाः ॥४९॥
तस्मात्पंचनदं तीर्थं सर्वपापप्रणाशनम् ॥
स्नातव्यं तत्र मनुजैः स्वर्गमोक्षार्थिभिस्तदा ॥ 7.4.14.५० ॥
तत्र गत्वा सुनियतो गृहीत्वार्घ्यं फलेन हि ॥
मंत्रेणानेन वै विप्रा दद्यादर्घ्यं विधानतः ॥ ५१ ॥
ब्रह्मपुत्रैः समानीताः पंचैताः सरितां वराः ॥
गृह्णंत्वर्घ्यमिमं देव्यः सर्वपापप्रशांतये ॥५२॥
॥ इत्यर्घ्यमन्त्रः ॥ ॥
स्नानं कृत्वा विधानेन पितॄन्संतर्प्पयेन्नरः ॥
श्राद्धं कुर्य्याद्विधानेन श्रद्भया परया युतः ॥५३॥
पंचरत्नं ततो देयं सप्तधान्यं द्विजातये ॥
दीनांधकृपणानां च दानं दद्यात्स्वशक्तितः ॥ ५४ ॥
सर्वान्कामानवाप्नोति विष्णुलोकं स गच्छति ॥
पुत्रपौत्रसमायुक्तः परं सुखमवाप्नुयात् ॥ ५५ ॥
प्रेतयोनिं गता ये च ये च कीटत्वमागताः ॥
सर्वे ते मुक्तिमायांति पितरस्त्रिकुलोद्भवाः ॥ ५६ ॥
श्रुत्वाऽध्यायमिमं पुण्यं शिवलोके च मोदते ॥
सर्वपाप विनिर्मुक्तः स याति परमं पदम् ॥ ५७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये पञ्चनदतीर्थमाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥ ॥ छ ॥